"ऋग्वेदः सूक्तं ७.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘दिवि क्षयन्ता ' इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणम्। 'दिवि पञ्च' इत्यनुक्रमणिका। तृतीये छन्दोमे प्रउगशस्त्र आद्यस्तृचो मैत्रावरुणस्य । सूत्रितं च - दिवि क्षयन्ता रजसः पृथिव्यामा विश्ववाराश्विना गतं नः' (आश्व. श्रौ. ८. ११) इति ।।
 
 
दि॒वि क्षय॑न्ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् ।
Line ३६ ⟶ ३८:
 
हव्यम् । नः । मित्रः । अर्यमा । सुऽजातः । राजा । सुऽक्षत्रः । वरुणः । जुषन्त ॥१
 
"दिवि द्युलोकेऽन्तरिक्षे “पृथिव्यां च वर्तमानस्य “रजसः उदकस्य “क्षयन्ता। क्षयतिरैश्वर्यकर्मा। स्वामिनौ भवथः । हे मित्रावरुणौ “वां युवाभ्यां प्रेरिता मेघाः “घृतस्य “निर्णिजः उदकस्य रूपाणि “ददीरन् ददते प्रयच्छन्ति । अथवा वां युवाभ्यां घृतस्य निर्णिजो रूपाणि । घृतानीत्यर्थः । तानि ददीरन् दीयन्ते । “नः अस्माकं संबन्धि “हव्यं "मित्रः "सुजातः सुष्ठु प्रादुर्भूतः “अर्यमा “राजा सर्वस्य स्वामी “सुक्षत्रः शोभनबलः “वरुणः चैते “जुषन्त सेवन्ताम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६४" इत्यस्माद् प्रतिप्राप्तम्