"ऋग्वेदः सूक्तं ७.७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
' उदु ज्योतिः ' इति सप्तर्चं षष्ठं सूक्तं त्रैष्टुभमुषस्यम् । तथा चानुक्रान्तम् - ' उदु सप्त इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।
 
 
उदु॒ ज्योति॑र॒मृतं॑ वि॒श्वज॑न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् ।
Line ४० ⟶ ४२:
 
क्रत्वा । देवानाम् । अजनिष्ट । चक्षुः । आविः । अकः । भुवनम् । विश्वम् । उषाः ॥१
 
“अमृतम् अमृतत्वसाधकमविनाशि वा “विश्वजन्यं विश्वेषां जनानां हितकरं “ज्योतिः
“विश्वानरः सर्वेषां नेता “सविता “देवः “उत् अश्रेत् ऊर्ध्वं श्रयति । “देवानां व्यवहर्तॄणां स्तोतॄणां वा यजमानानां “क्रत्वा कर्मणा निमित्तेन । यागानुष्ठानार्थमित्यर्थः । तदर्थं यद्वा देवानां “चक्षुः चक्षुःस्थानीयमौषसं तेजः क्रत्वा कर्मणा निमित्तेन “अजनिष्ट प्रादुरभूत् । उत्पन्ना च “उषाः “विश्वं सर्वं “भुवनं भूतजातम् “आविरकः प्रादुरकः अकरोत् । समस्तं जगदाविष्कृतवती। ।।
 
 
Line ५३ ⟶ ५८:
 
अभूत् । ऊं इति । केतुः । उषसः । पुरस्तात् । प्रतीची । आ । अगात् । अधि । हर्म्येभ्यः ॥२
 
“मे मया “देवयानाः देवप्रापकाः “पन्थाः पन्थानः “प्र “अदृश्रन् प्रदृश्यन्ते । कीदृशाः पन्थानः । “अमर्धन्तः अहिंसन्तः “वसुभिः तेजोभिः “इष्कृतासः संस्कृताः । “पुरस्तात् पूर्वस्यां दिशि “उषसः “केतुः प्रज्ञापकं तेजः “अभूत् अचेति ज्ञायते । सोषाश्च “प्रतीची प्रत्यगञ्चनास्मदभिमुखी हर्म्येभ्यः “अधि उच्छ्रितेभ्यः प्रदेशेभ्यः । हर्म्यशब्द उन्नतप्रदेशोपलक्षकः । “आगात् आगच्छति ॥
 
 
Line ६६ ⟶ ७३:
 
यतः । परि । जारःऽइव । आऽचरन्ती । उषः । ददृक्षे । न । पुनः । यतीऽइव ॥३
 
हे उषः “तानीत् तान्येव तव तेजांसि “बहुलानि “अहानि “आसन् । उषःप्रकाशयुक्तस्यैव कालस्याहःशब्दव्यवहारात् । तानीत्युक्तं कानीत्याह। “या यानि “सूर्यस्य "उदिता उदितावुदये सति “प्राचीनं तस्य प्राग्देशं प्रत्युदयन्ति । यद्वा सूर्यस्य प्राचीने देशे या यान्युदितोदितानि तानीत्यर्थः । .. हे “उषः “यतः यैश्च तेजोभिः “परि “ददृक्षे दृश्यसे त्वम् । “जारइव पत्याविव “आचरन्ती समीपे संचरन्ती साध्वी नारीव जारे रात्रेर्जरयितरि सूर्ये संचरन्ती त्वं दृश्यते। यथा लोके दुष्टं भ्रमणशीलमपि पतिमत्यज्यैव साध्वी संचरति तद्वत् तमविमुञ्चती त्वमित्यर्थः। “न “पुनर्यतीव यती पतिं परित्यज्येतस्ततः संचरन्ती व्यभिचारिणीव सूर्यमपरित्यजन्ती त्वम् । पुनरित्यर्थं वैलक्षण्यद्योतनार्थः । एवं यैस्तेजोभिर्युक्ता परिदृश्यसे तान्येवाहान्यासन्निति संबन्धः ॥
 
 
Line ७९ ⟶ ८८:
 
गूळ्हम् । ज्योतिः । पितरः । अनु । अविन्दन् । सत्यऽमन्त्राः । अजनयन् । उषसम् ॥४
 
“त “इत् तेऽङ्गिरस एवर्षीणां मध्ये "देवानां “सधमादः सह माद्यन्तः “आसन् अभवन् । त इत्युक्तं क इत्याह । ये “ऋतावानः सत्यवन्तः “कवयः अनूचानाः। ये वा अनूचानास्ते कवयः' (ऐ. ब्रा. २. ३८) इति श्रुतेः । “पूर्व्यासः पूर्वकालीनाः “पितरः पालयितारः सर्वस्याङ्गिरसः “गूळ्हं तमसावृतं “ज्योतिः सौर्यं तेजः “अन्वविन्दन् लब्धवन्तो मन्त्रसामर्थ्यात् ते “सत्यमन्त्राः सत्यस्तुतयः सन्तः “उषासम् उषसम् "अजनयन् प्रादुरकुर्वन् । ‘तुरीयेण ब्रह्मणाविन्ददत्रिः' (ऋ. सं. ५. ४०. ६) “अत्रयस्तमन्चविन्दन्' (ऋ. सं. ५. ४०.९) इति निगमौ । अत्राङ्गिरसां स्तुत्योषस एव स्तुतिर्ज्ञातव्या ॥
 
 
Line ९२ ⟶ १०३:
 
ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुऽभिः । यादमानाः ॥५
 
“समाने सर्वेषां साधारणे “ऊर्वे गोसमूहे पणिभिरपहृते पुनर्लब्धव्ये सति । “अधि इत्यनर्थकः । “संगतासः मिलिताः सन्तः “ते “सं “जानते एकबुद्धयो भवन्ति। “न “मिथः परस्परं “यतन्ते । सहैव साधनमनुतिष्ठन्तीत्यर्थः । “ते अङ्गिरसः “देवानां “व्रतानि कर्माणि योEगलक्षणानि “न “मिनन्ति न हिंसन्ति । किंतु परिपालयन्तीत्यर्थः । किं कुर्वन्तः । “अमर्धन्तः अहिंसन्तः “वसुभिः वासकैरुषसां तेजोभिः “यादमानाः गच्छन्तः ।।
 
 
Line १०५ ⟶ ११८:
 
गवाम् । नेत्री । वाजऽपत्नी । नः । उच्छ । उषः । सुऽजाते । प्रथमा । जरस्व ॥६
 
हे "सुभगे देव्युषः “त्वा त्वाम् "उषर्बुधः उषसि बुध्यन्तः “तुष्टुवांसः स्तुवन्तः “वसिष्ठाः “स्तोमैः स्तोत्रैः “ईळते स्तुवन्ति । “गवां “नेत्री प्रापयित्री “वाजपत्नी अन्नस्य पालयित्री । अन्नदात्रीत्यर्थः । ईदृशी त्वं “नः अस्मदर्थम् “उच्छ विभाहि । हे “उषः "सुजाते सुप्रादुर्भावे “प्रथमा इतरदेवेभ्यो मुख्यभूता “जरस्व ॥ ।
 
 
Line ११८ ⟶ १३३:
 
दीर्घऽश्रुतम् । रयिम् । अस्मे इति । दधाना । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
“एषा “उषाः “राधसः स्तोतुः “सूनृतानां स्तुतीनां “नेत्री सती “उच्छन्ती तमो विवासयन्ती “वसिष्ठैः वसिष्ठगोत्रोत्पन्नैः “रिभ्यते स्तूयते । “दीर्घश्रुतं दीर्घे श्रूयमाणं सर्वत्र प्रसिद्धं “रयिं धनम् “अस्मे अस्मासु “दधाना धारयन्ती ।। ।। २३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७६" इत्यस्माद् प्रतिप्राप्तम्