"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९०:
 
शरद्धविः। अस्मिन् संदर्भे तैत्तिरीयब्राह्मणस्य [[तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६|२.६.१९.]] अयं कथनं उल्लेखनीयमस्ति - वसन्तेनर्तुना देवाः । वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविरिन्द्रे वयो दधुः । ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । वर्षाभिर्ऋतुनादित्याः । स्तोमे सप्तदशे स्तुतम् । वैरूपेण विशौजसा । हविरिन्द्रे वयो दधुः । शारदेनर्तुना देवाः । एकविँश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविरिन्द्रे वयो दधुः । हेमन्तेनर्तुना देवाः । मरुतस्त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । हविरिन्द्रे वयो दधुः । शैशिरेणर्तुना देवाः । त्रयस्त्रिँशेऽमृतँ स्तुतम् । सत्येन रेवतीः क्षत्त्रम् । हविरिन्द्रे वयो दधुः। अत्र न केवलं शारदेन, अपितु सर्वैः ऋतुभिः इन्द्राय हविःप्रदानस्य उल्लेखमस्ति। अतएव, शरद्ऋतोः वैशिष्ट्यानां विशद् अध्ययनस्य आवश्यकता अस्ति। वैदिकवाङ्मये सार्वत्रिकरूपेण शरदस्य लक्षणं बर्हिः अस्ति। देहे यः विद्योतनं, स्फूर्जनं अस्ति, तत् स्थानिकं नास्ति, अपितु तस्य विस्तारं बर्हिरिव सर्वत्रास्ति। अयं भक्त्याः पक्वावस्था अस्ति - श्रद्धा, अन्नाद्यं। वायुपुराणे [[वायुपुराणम्/पूर्वार्धम्/अध्यायः ३०|३०.७]] वर्षाऋतोः संज्ञा जीवः अस्ति, शरदस्य सुधावन्त, हेमन्तस्य मन्युमन्त। अन्यत्र हेमन्तस्य लक्षणानि स्विष्टकृत्, स्वाहा इत्यादयः सन्ति।
 
 
१०.९०.७
 
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः।
 
[http://puranastudy.000space.com/pur_index20/barhi1.htm बर्हिरुपरि वैदिकसंदर्भाः]
 
यथा [http://veda-samsthana.tripod.com/fatah/barhi1.htm डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे] कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां सज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता [[तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ३|६.३.९.५]] आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्