"ऋग्वेदः सूक्तं ७.९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘कुविदङ्ग' इति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम्। ‘कुविदङ्ग' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः । वायव्ये पशौ ‘कुविदङ्ग' इति वपाया याज्या । सूत्रितं च -- ‘ कुविदङ्ग नमसा ये वृधास ईशानाय प्रहुतिं यस्त आनट्' (आश्व. श्रौ. ३. ८) इति
 
 
कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धास॑ः पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् ।
Line ४१ ⟶ ४३:
ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण ॥१
 
दीव्यन्ति स्तुवन्तीति देवाः स्तोतारः। “पुरा पूर्वस्मिन् काले "ये "वृधासः वृद्धाः “देवाः स्तोतारः । कुविदिति बहुबाम । अङ्गेति क्षिप्रनाम। "कुवित् बहुशः “अङ्ग क्षिप्रं कृतेन "नमसा वायुविषयेण स्तोत्रेण नमस्कारेण वा “अनवद्यासः अवद्यरहिताः आसन् “ते अद्यापि “वायवे हवींषि दातुं "सूर्येण सह "उषसम् “अवासयन् । उषसो व्युष्टिं सूर्योदयं च वायुयागार्थं कुर्वन्तीत्यर्थः । किमर्थम्। “मनवे मनुष्याणां “बाधिताय बाधितानां पुत्रादीनां रक्षणार्थमित्यर्थः । यद्वा मनवे बाधितायेति षष्ठ्यर्थे चतुर्थ्यौ। बाधितस्य मनोः प्रजापतेर्यागे वायवे हवींषि दातुमित्यन्वयः ॥
 
 
द्वितीये छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य उशन्ता ' इत्येषा प्रथमा । सूत्रितं च -- ‘ उशन्ता दूता न दभाय गोपा यावत्तरस्तन्वो यावदोज इत्येका द्वे च ' (आश्व. श्रौ. ८. १०) इति ॥
 
उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः ।
Line ५४ ⟶ ६०:
इन्द्रवायू इति । सुऽस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥२
 
हे इन्द्रवायू "उशन्ता उशन्तौ कामयमानौ दूतौ । देवतेर्गतिकर्मणो दूतशब्दः । गन्तारौ “गोपा गोपयितारावीदृशौ युवां “दभाय हिंसायै “न भवतम् । अपि तु “मासः मासान् “च "पूर्वीः बह्वीः “शरदः संवत्सरान “च चिरकालमस्मान् “पाथः रक्षतम् । अपि च हे “इन्द्रवायू “सुष्टुतिः अस्मदीया शोभना स्तुतिः “वां युवाम् “इयाना गच्छन्ती प्राप्नुवन्ती “मार्डीकं सुखम् “ईट्टे याचते । यद्वा । सुखं यथा भवति तथा युवामीट्टे स्तौति । तथा “नव्यं प्रशस्यं “सुवितं सुष्ठु प्राप्यं धनं “च ईट्टे ॥
 
 
नियुत्वद्वायुदेवताके पशौ ‘पीवोअन्नान्' इति वपाया याज्या। सूत्रितं च - पीवोअन्नाँ रयिवृधः सुमेधा राये नु यं जज्ञतू रोदसीमे' ( आश्व. श्रौ. ३. ८) इति । तथा द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैव द्वितीया। सूत्रितं च --- पीवोअन्नाँ रथिवृधः सुमेधा उच्छन्नुषसः सुदिना अरिप्राः ' (आश्व. श्रौ. ८. १०) इति ॥
 
पीवो॑अन्नाँ रयि॒वृध॑ः सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
Line ६७ ⟶ ७७:
ते । वायवे । सऽमनसः । वि । तस्थुः । विश्वा । इत् । नरः । सुऽअपत्यानि । चक्रुः ॥३
 
“पीवोअन्नान् पीवांसि स्थूलानि प्रभूतान्यन्नानि येषां तान् “रयिवृधः रय्या धनेन वृद्धानेवंभूतानाढ्यजनान् “सुमेधाः शोभनप्रज्ञः “नियुतां वडवानां स्ववाहानाम् “अभिश्रीः अभिश्रयणीयः “श्वेतः श्वेतवर्णो वायुः “सिषक्ति सेवते । “ते च जनाः “समनसः समानमनस्काः सन्तः "वायवे वायुमुद्दिश्य यष्टुं “वि “तस्थुः विविधमवतिष्ठन्ते । स्थित्वा च ते “नरः कर्मणां नेतारो जनाः “विश्वेत् विश्वानि सर्वाण्येव “स्वपत्यानि शोभनापत्यहेतूनि यद्वा सुष्ठ्वपतनकारणानि वायुदेवत्यानि कर्माणि “चक्रुः कुर्वन्ति ॥
 
 
द्वितीये छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य ‘यावत्तरः' इत्यादिके द्वे ऋचौ। सूत्रं तु पूर्वमेवोदाहृतम् ॥
 
याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः ।
Line ७९ ⟶ ९३:
 
शुचिम् । सोमम् । शुचिऽपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥४
 
हे “इन्द्रवायू युवयोः “तन्वः शरीरस्य “तरः वेगः “यावत् अस्ति “यावत् च “ओजः बलं "यावत् च "नरः कर्मणां नेतार ऋत्विजः “चक्षसा ज्ञानेन “दीध्यानाः दीप्यमाना भवन्ति तस्य सर्वस्यानुरूपं “शुचिपा शुचेः सोमस्य पाताराविन्द्रवायू “शुचिं शुद्धं “सोमम् “अस्मे अस्मदीयं “पातं पिबतम् । “इदं वेद्यां स्तीर्ण “बर्हिः च “आ “सदतं पानार्थमासीदतम् । बर्हिष्युपविशतमित्यर्थः ॥
 
 
Line ९३ ⟶ १०९:
इदम् । हि । वाम् । प्रऽभृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति ॥५
 
हे “इन्द्रवायू "स्पार्हवीराः स्पृहणीयस्तोतृकान् “नियुतः आत्मीयानश्वान् “सरथम् उभयोः समानमेकं रथं “नियुवाना निमिश्रयन्तौ युवाम् “अर्वाक् अस्मदभिमुखं “यातं गच्छतम् । “इदं “हि इदं खलु “मध्वः मधुरस्य सोमस्य “अग्रं ग्रहेष्वाद्यमैन्द्रवायवाख्यं ग्रहं “वां युवयोरर्थं “प्रभृतं प्रकर्षेण हृतं होमार्थमुत्तरवेदिं प्रति नीतम् । “अध अथ तादृशस्य सोमस्य पानानन्तरं “प्रीणाना प्रीयमाणौ युवाम् “अस्मे अस्मान् “वि “मुमुक्तं पापाद्विमोचयतम् ॥
 
 
प्रथमे छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य ' या वां शतम्' इति तृतीया । सूत्रितं च -- ‘ या वां शतं नियुतो याः सहस्रमित्येकपातिन्यः' (आश्व. श्रौ. ८. ९) इति ॥
 
या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒ः सच॑न्ते ।
Line १०५ ⟶ १२५:
 
आ । आभिः । यातम् । सुऽविदत्राभिः । अर्वाक् । पातम् । नरा । प्रतिऽभृतस्य । मध्वः ॥६
 
हे 'इन्द्रवायू “याः “नियुतः “शतं शतसंख्याकाः सत्यः "वां युवां “सचन्ते सेवन्ते ।
“याः च "विश्ववाराः विश्वैर्वरणीया नियुतः “सहस्रं सहस्रसंख्याकाः सत्यो युवां सचन्ते । “सुविदत्राभिः शोभनधनप्रदाभिः “आभिः नियुद्भिः “अर्वाक् अस्मदभिमुखम् “आ “यातम् आगच्छतम् । हे “नरा नेतारौ “प्रतिभृतस्य उत्तरवेदिं प्रति नीतस्य “मध्वः मधुरस्य सोमस्य । द्वितीयार्थे षष्ठी। ईदृशं सोमं “पातं पिबतम् ॥
 
 
Line ११८ ⟶ १४१:
 
वाजऽयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
व्याख्यातेयम् । अक्षरार्थस्तु । अश्वा इव हविषां वोढारोऽन्नं याचमाना बलं कामयमाना वसिष्ठा वयं शोभनरक्षणाय शोभनैः स्तोत्रैरिन्द्रवायू आह्वयेमहीति ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९१" इत्यस्माद् प्रतिप्राप्तम्