"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९४:
१०.९०.७
 
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये।।
 
[http://puranastudy.000space.com/pur_index20/barhi1.htm बर्हिरुपरि वैदिकसंदर्भाः]
 
यथा [http://veda-samsthana.tripod.com/fatah/barhi1.htm डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे] कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां सज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता [[तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ३|६.३.९.५]] आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।
 
[https://sites.google.com/site/vedastudy/sahadeva-sadhya साध्योपरि पौराणिकसंदर्भाः]
 
[https://sites.google.com/site/vedastudy/sahadeva-sadhya/%E0%A4%B8%E0%A4%A7%E0%A4%AF-saadhya साध्योपरि वैदिकसंदर्भाः]
 
ऋतूनां संदर्भे, शरदऋतोः लक्षणं बर्हिः अस्ति। अतःपरं हेमन्त-शिशिरयोः संज्ञा घोरः अस्ति। वर्षासु यः जलः पंकमिश्रितः भवति, शरत्सु तत् स्वच्छतां प्राप्नोति। ये जलाः पापयुक्ताः आसन्, ते विलीना भवन्ति। अस्याः स्थित्याः संज्ञा साध्यानां यज्ञः अस्ति। ताण्ड्यब्राह्मण [[पञ्चविंशब्राह्मणम्/अध्यायः ८|८.३.५]] अनुसारेण साध्याः सोमयागे तृतीयसवनस्य छेदनं कुर्वन्ति। ते प्रातः एवं माध्यन्दिनसवनेनैव स्वर्गं प्राप्नुवन्ति। येषां पापानां मार्जनं मृत्युविना (तृतीयसवनं) संभवं नास्ति, तत्र साध्यानां गतिर्नास्ति। एतेषां पापानां संज्ञा घोरः भवति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्