"ऋग्वेदः सूक्तं ७.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘परो मात्रया ' इति सप्तर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम्। 'उरुं यज्ञाय ' इत्याद्यास्तिस्र ऐन्द्रावैष्णव्यः शिष्टाः केवलविष्णुदेवताकाः। तथा चानुक्रान्तं -- परो वैष्णवं तूरुमित्यैन्द्र्यश्च तिस्रः ' इति । गतः सूक्तविनियोगः । विष्णुदेवताके पशौ ‘परो मात्रया' इति पुरोडाशस्य याज्या । सूत्रितं च - परो मात्रया तन्वा वृधानेरावती धेनुमती हि भूतम्' ( आश्व. श्रौ. ३. ८) इति ॥
 
 
प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।
Line ४१ ⟶ ४३:
उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥१
 
पर इति सकारान्तं परस्तादित्यस्यार्थे । परशब्दाच्छान्दसोऽसिप्रत्ययः ‘परो दिवा पर एना पृथिव्या ' (ऋ. सं. १०. ८२.५) इति यथा। मात्रयेति व्यत्ययेन तृतीया। “मात्रया “परः परस्ताद्वर्तमानयापरिमितया “तन्वा शरीरेण “वृधान वर्धमान हे विष्णो “ते तव “महित्वं महत्त्वं “न “अन्वश्नुवन्ति नानुव्याप्नुवन्ति । त्रैविक्रमसमये यत्तव माहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं न शक्यत इत्यर्थः । “ते तव “उभे “रजसी उभौ लोकौ “पृथिव्याः आरभ्य पृथिवीमन्तरिक्षं च “विद्म जानीमः । वयं चक्षुषोपलभामहे नान्यत् । हे “देव द्योतमान “विष्णो “त्वम् एव “परमस्य स्वर्गादेरुकृष्टलोकस्य । द्वितीयार्थे षष्ठी। परमं लोकं “वित्से जानासि । अतस्तव महत्त्वं न केनापि व्याप्तुं शक्यमिति भावः ॥
 
 
पूर्वोक्त एव पशौ न ते विष्णो' इति वपाया अनुवाक्या। सूत्रितं च - न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्याम् ' (आश्व. श्रौ. ३. ८) इति ॥
 
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
Line ५४ ⟶ ६०:
उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥२
 
हे "देव दानादिगुणयुक्त “विष्णो "ते तव “महिम्नः महत्त्वस्य “परं विप्रकृष्टम् “अन्तम् अवसानं “जायमानः प्रादुर्भवञ्जनः “न "आप न प्राप्नोति । तथा "जातः प्रादुर्भूतोऽपि जनः “न एव प्राप्नोति । तव महत्त्वस्यावसानं नास्ति । अत एव सर्वैर्न ज्ञायत इति भावः । कोऽसौ महिमा तमाह। “ऋष्वं दर्शनीयं "बृहन्तं महान्तं “नाकं द्युलोकम् “उदस्तभ्नाः त्वमूर्ध्वमधारयः । यथाधो न पतति तथा । “पृथिव्याः भूमेः संबन्धिनीं “प्राचीं “ककुभं च "दाधर्थ धारितवानसि । उपलक्षणमेतत् सर्वस्य भूतजातस्य । तथा च मन्त्रान्तरं- य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा' (ऋ. सं. १. १५४. ४ ) इति ॥
 
 
पूर्वोक्त एव पशौ ‘ इरावती ' इति हविषो याज्या । सूत्रितं च - इरावती धेनुमती हि भूतं विश्वकर्मन्हविषा वावृधान इति द्वे ' (आश्व. श्रौ. ३. ८) इति ॥
 
इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।
Line ६६ ⟶ ७६:
 
वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥३
 
हे द्यावापृथिव्यौ “मनुषे स्तुवते मनुष्याय "दशस्या दित्सया युक्ते युवाम् “इरावती अन्नवत्यौ “धेनुमती गोमत्यौ “सूयवसिनी शोभनयवसे च “भूतम् अभूतम् । हिशब्दः प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु पूर्वमभूतमित्यर्थः । हे “विष्णो “एते इमे “रोदसी द्यावापृथिव्यौ “व्यस्तभ्नाः विविधमधारयः। पृथिवीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम्। अपि च “पृथिवीं प्रथितामिमां भूमिम् “अभितः सर्वत्र स्थितैः “मयूखैः पर्वतैः “दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानित्यर्थः । पर्वता हि विष्णोः स्वभूताः । ‘ विष्णुः पर्वतानामधिपतिः ' ( तै. सं. ३. ४. ५. १ ) इति श्रुतेः ॥
 
 
Line ७९ ⟶ ९१:
 
दासस्य । चित् । वृषऽशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥४
 
हे इन्द्राविष्णू “यज्ञाय यजमानाय “उरु विस्तीर्णं “लोकं स्वर्गाख्यं “चक्रथुरु कृतवन्तौ खलु युवाम् । किं कुर्वन्तौ । सूर्यं सर्वस्य प्रेरकमादित्यम् “उषसं तमोनिवारकमुषःकालम् अग्निं चासुरैरावृतं जनयन्तौ पुनः प्रादुर्भावयन्तौ। हे “नरा नेताराविन्द्राविष्णू “वृषशिप्रस्य एतत्संज्ञस्य “दासस्य “चित् उपक्षपयितुरसुरस्य “मायाः “पृतनाज्येषु संग्रामेषु “जघ्नथुः जिहिंसथुः । युवां सूर्यादिकं जनयन्तावित्युच्यते ॥
 
 
Line ९२ ⟶ १०६:
 
शतम् । वर्चिनः । सहस्रम् । च । साकम् । हथः । अप्रति । असुरस्य । वीरान् ॥५
 
हे “इन्द्राविष्णू “दृंहिताः दृढीकृताः “नव “नवतिं “च नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “शम्बरस्य स्वभूतानि “श्नथिष्टम् अहिंसिष्टम्। 'श्नथ हिंसायाम्। अपि च “शतं “सहस्रं “च “वर्चिनः “असुरस्य “वीरान् “अप्रति प्रतिद्वन्द्विनो यथा न भवन्ति तथा “साकं सह संघश एव “हथः अहिंसिष्टम् । 'यो वर्चिनः शतमिन्द्रः सहस्रम् '। (ऋ. सं. २. १४. ६) इति हि निगमान्तरम् ॥
 
 
Line १०६ ⟶ १२२:
ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र ॥६
 
"बृहती महती "इयं "मनीषा मननीया स्तुतिः “बृहन्ता बृहन्तौ महान्तौ "उरुक्रमा विस्तीर्णविक्रमौ । विष्णुना सहैकार्थीभावादिन्द्रस्याप्युरुक्रमत्वम् । “तवसा । तव इति बलस्य वृद्धेर्वा नामधेयम् । तद्वन्तावेवंभूतौ युवां “वर्धयन्ती प्रवृद्धौ कुर्वत्यस्माभिः कृता । हे “विष्णो हे “इन्द्र “विदथेषु यज्ञेषु “वां युवाभ्यां “स्तोमम् उक्तलक्षणं स्तोत्रं “ररे ददे । ‘रा दाने ' इति धातुः । तौ युवां “वृजनेषु “इषः अन्नानि “पिन्वतम् अस्मभ्यं वर्धयतम् ॥
 
 
अभ्युदयेष्टौ विष्णोः शिपिविष्टस्य ‘ वषट् ते ' इत्येषानुवाक्या । सूत्रितं च -- भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आ कृणोमि ' (आश्व. श्रौ. ३. १३) इति ॥
 
वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
Line ११९ ⟶ १३९:
वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
हे “विष्णो “ते तुभ्यम् “आसः स्यात् "आस्यात् “आ अभिमुखं “वषट् “कृणोमि करोमि। वषट्कारेण हविर्हावयामि । हे “शिपिविष्ट । शिपयो रश्मयः । तैराविष्ट विष्णो “तत् वषट्कृतं “मे मदीयं “हव्यं हविः "जुषस्व सेवस्व । “सुष्टुतयः शोभनस्तुत्यात्मिका: "गिरः वाचश्च त्वां “वर्धन्तु वर्धयन्तु । अन्यद्गतम् ॥ ॥ २४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९९" इत्यस्माद् प्रतिप्राप्तम्