"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवाः। त्रिष्टुप्, ४ जगती ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।
दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥१॥
Line ३३ ⟶ ३०:
श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥१०॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।
 
दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥ १
 
घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ ।
 
दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥१
 
घर्मा । सम्ऽअन्ता । त्रिऽवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम ।
 
दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥१
 
 
ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः ।
 
तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ २
 
ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः ।
 
तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥२
 
तिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः ।
 
तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥२
 
 
चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
 
तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेय॑म् ॥ ३
 
चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ ।
 
तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥३
 
चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते ।
 
तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥३
 
 
एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे ।
 
तं पाके॑न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तर॑म् ॥ ४
 
एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ ।
 
तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥४
 
एकः । सुऽपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे ।
 
तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊं इति । रेळ्हि । मातरम् ॥४
 
 
सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ सन्तं॑ बहु॒धा क॑ल्पयन्ति ।
 
छन्दां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्सोम॑स्य मिमते॒ द्वाद॑श ॥ ५
 
सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।
 
छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥५
 
सुऽपर्णम् । विप्रा । कवयः । वचःऽभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति ।
 
छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥५
 
 
ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय॑न्त॒श्छन्दां॑सि च॒ दध॑त आद्वाद॒शम् ।
 
य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयन्ति ॥ ६
 
ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् ।
 
य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥६
 
षट्ऽत्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आऽद्वादशम् ।
 
यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥६
 
 
चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त ।
 
आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥ ७
 
चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।
 
आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥७
 
चतुःऽदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त ।
 
आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥७
 
 
स॒ह॒स्र॒धा प॑ञ्चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।
 
स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥ ८
 
स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् ।
 
स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥८
 
सहस्रधा । पञ्चऽदशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् ।
 
सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥८
 
 
कश्छन्द॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।
 
कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥ ९
 
कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ ।
 
कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥९
 
कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद ।
 
कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥९
 
 
भूम्या॒ अन्तं॒ पर्येके॑ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।
 
श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥ १०
 
भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ ।
 
श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥१०
 
भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःऽसु । युक्तासः । अस्थुः ।
 
श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥१०
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्