"ऋग्वेदः सूक्तं १०.५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘विश्वे देवाः शास्तन' इति षडृचं दशमं सूक्तं सौचीकस्याग्नेरार्षं वैश्वदेवम् । गतः सूक्तविनियोगः । स्रुगादापनात्पूर्वभाविनि जपे विनियुक्ता। सूत्रितं च - ‘ विश्वे देवाः शास्तन मा यथेहाराधि होता निषदा यजीयान् ' ( आश्व. श्रौ. १. ४ ) इति ॥
 
 
विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।
Line ३७ ⟶ ३९:
 
प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥१
 
एतत्सूक्तं कृत्स्नमाग्नेयम् । हे "विश्वे "देवाः यूयं "मा मां “शास्तन अनुज्ञां दत्त । "यथेह यज्ञे “होता देवानामाह्वाता सन् “वृतः होतृत्वेन वृतोऽहं “मनवै स्तौमि भवतः । "यत् यस्मात् "निषद्य स्तौमि तस्माच्छास्तन । "मे मम “भागधेयं “प्र “ब्रूत “यथा “वः यूयं भागं कल्पितवन्तः तथा तं भागं प्र ब्रूत । "येन च "पथा “वः "हव्यमा "वहानि वहनं करोमि ॥
 
 
Line ५० ⟶ ५४:
 
अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥२
 
“यजीयान् यष्टृतमः "अहं "होता सन् "न्यसीदं निषण्णोऽस्मि । निषदने तं निषण्णं "विश्वे व्याप्ताः “मरुतः "देवाः "जुनन्ति प्रेरयन्ति हविर्वहनाय । हे "अश्विना “वां युवयोः "आध्वर्यवम् "अहरहः प्रतिदिनं कर्तव्यमिति शेषः। आध्वर्यवं भवद्भ्यामनुज्ञातव्यमित्यर्थः । "ब्रह्मा “भवति भवतु । कः । "समित् समिद्धश्चन्द्रमाः । चन्द्रमा ब्रह्मा भवतु । किंच "सा । स इत्यर्थः। स च समित् समिद्धश्चन्द्रमाः “वां युवयोर्होमार्थं वां युवाभ्यां क्रियमाणायाध्वर्यवकर्मणे “आहुतिः भवति भवत्वित्यर्थः । सोमात्मको हि चन्द्रमा हूयते । एष वै सोमो राजा' इत्युपक्रम्य तदेवोभयं भवति' इति हि छन्दोगब्राह्मणम् । अथवैवं योजना। याहुतिराध्वर्यवमनुष्ठितवद्भ्यां होतव्या सा वां युवयोः युवाभ्यां भवति भवतु । आध्वर्यवं वामित्यस्यैव विवरणमेतत् ॥
 
 
Line ६३ ⟶ ६९:
 
अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥३
 
“यः "अयं "होता "सः "किः को भवति । कीदृशो भवति । तस्य को व्यापार इत्यर्थः । तस्योत्तरमुच्यते । "यमस्य मृत्योः भीतः सन्निति शेषः । “कमपि हुतम् "ऊहे वहति । यद्वा सर्वऋत्विजातं नियमयतीति यमो यजमानः । तस्य कमपि हुतमूहे वहति देवान्प्रति । "यत्समञ्जन्ति यद्धविः प्राप्नुवन्ति "देवाः । किंचाग्निः "अहरहः प्रतिदिनमग्निहोत्रार्थं “जायते प्रादुर्भवति । तथा “मासिमासि प्रतिमासं जायते पितृयज्ञार्थम्। एतत्कालद्वयमुपलक्षणं पक्षचतुर्मासषण्माससंवत्सरादीनाम् । अपरें पुनरेवमाहुः । अहरहः सूर्यत्मना जायते मासिमास चन्द्रात्मनेति । "अथ तमिममग्निं "देवा "दधिरे "हव्यवाहं हविषां वोढारम् । एवमग्निः स्वात्मानं स्वयमेवोक्तवान् ॥
 
 
Line ७६ ⟶ ८४:
 
अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥४
 
“माम् अग्निं "देवाः "हव्यवाहं हविर्वोढारं "दधिरे कृतवन्तः । कीदृशं माम्। “अपम्लुक्तम् अपक्रम्यागतं “बहु "कृच्छ्रा। बहूनि कृच्छाणि स्थानानि "चरन्तं गच्छन्तम् । कया मनीषया दधिर इत्युच्यते । अयम् "अग्निर्विद्वान् सर्वं जानन् “नः अस्माकं "यज्ञं “कल्पयाति कल्पयति । कीदृशं यज्ञम् । "पञ्चयामं पञ्चविधगमनम् । पाङ्क्तो हि यज्ञः। "त्रिवृतं सवनत्रयभेदेन त्रिप्रकारं सप्ततन्तुं सप्तभिश्छन्दोमयैः स्तुतिभिर्विस्तृतम् ॥
 
 
Line ८९ ⟶ ९९:
 
आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥५
 
हे देवाः "वः युष्मान् “आ “यक्षि आयाचे । किम्। "अमृतत्वम् अविनाशित्वं "सुवीरं सुपुत्रं च । हे “देवाः “वः युष्माकं "वरिवः परिचर्यां हवीरूपं धनं वा "यथा “कराणि करवाणि तदर्थमित्यर्थः । किंच “इन्द्रस्य “बाह्वोः “वज्रम् “आ “धेयाम् । ग्राहयामीत्यर्थः । अग्नेर्होतृत्वाभावे इन्द्रस्य सोमाद्यभावाद्दुर्बलत्वेन वज्रधारणं नोपपद्यते । अतस्तत्कृत्वा वज्रं ग्राहयामीत्यर्थः । "अथ एवं सति "इमाः "विश्वाः सर्वाः "पृतनाः शत्रुसेनाः "जयाति जयति । जयतु वा ॥
 
 
Line १०३ ⟶ ११५:
औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥६
 
“त्रीणि “शता शतानि त्रीणि "सहस्राणि "त्रिंशच्च "नव "च एतत्संख्याकाः “देवाः "अग्निं माम् “असपर्यन् पर्यचरन् । परिचर्याप्रकार उच्यते । “घृतैः क्षरद्भिराज्यैः “औक्षन् सिक्तवन्तः । "अस्मै अग्नये मह्यं “बर्हिः "अस्तृणन् आस्तृतवन्तः। “आदित् आस्तरणानन्तरं “होतारम् आह्वातारं “न्यसादयन्त नियमेनासादितवन्तः ॥ ॥ १२ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५२" इत्यस्माद् प्रतिप्राप्तम्