"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
मा प्र गाम ' इति षडृचं पञ्चदशं सूक्तं गायत्रं वैश्वदेवम् । ऐक्ष्वाकोऽसमातिर्नाम राजा । तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चेति चत्वारः पुरोहिता आसन् । ते च गौपायनाः । स च राजा तांस्त्यक्त्वान्यौ मायाविनावृषी पुरोहितत्वेनावृणीत । ततो बन्ध्वादयः क्रुद्धाः सन्त इमं राजानमभिचरितवन्तः । एतज्ज्ञात्वा मायाविनौ पुरोहितावेषामन्यतमं सुबन्धुं प्राणैर्वियोजितवन्तौ । मृतस्यास्य भ्रातरो बन्धुः श्रुतबन्धुर्विप्रबन्धुरित्येतेऽविनाशप्राप्तिहेतुभूतमिदं दृष्ट्वा जपन्ति स्म । अतस्तेऽस्य सूक्तस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मनो देवता । तथा चानुक्रान्तम् - अथ हैक्ष्वाको राजासमातिर्गौपायनान्बन्ध्वादीन्पुरोहितांस्त्यक्त्वान्यौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे । तमितरे क्रुद्धा अभिचेरुः । अथ तौ मायाविनौ सुबन्धोः प्राणानाचिक्षिपतुरथ हास्य भ्रातरस्त्रयः । म प्र गामेति षट्कं गायत्रं स्वस्त्ययनं जप्त्वा ' इति । अग्निसमीपाद्देशान्तरगमनसमय इदं सूक्तं जप्यम् । सूत्रितं च -- ‘ प्रव्रजेदनपेक्षमाणो मा प्र गामेति सूक्तं जपन्' (आश्व. श्रौ.. २. ५) इति । महापितृयज्ञेऽप्येतदृत्विग्भिर्जप्यम् । सूत्रितं च -- ‘ मा प्र गामाग्ने त्वं न इति जपन्तः' (आश्व. श्रौ. २. १९) इति । निविदः स्थानातिपत्ताविदं सूक्तं शस्त्वा सूक्तान्तरे निवित्प्रक्षेप्तव्या । सूत्रितं च -- ‘ स्थानं चेन्निविदोऽतिहरेन्मा प्र गामेति पुरस्तात्सूक्तं शस्त्वा ' ( आश्व. श्रौ. ६. ६ ) इति ।
 
 
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑ः ।
Line ३७ ⟶ ३९:
 
मा । अन्तरिति । स्थुः । नः । अरातयः ॥१
 
अत्रोक्ताख्याने शाट्यायनकम् - असमातिं राथप्रौष्ठं गौपायना अभ्यगमंस्ते खाण्डवे सत्रमासताथ हासमातौ राथप्रौष्ठे किलाताकुली ऊषतुरसुरमायौ तं ह स्मानग्नौ निधायौदनं पचतोऽग्नौ मांसमथासुरान्नं दग्ध्वेक्ष्वाकवः पराबभूवुः । तमसमातिं राथप्रौष्ठं गौपायनानामाहुतयोऽभ्यतपन् सोऽब्रवीदिमौ किलाताकुली इमा वै मा गौपायनानामाहुतयोऽभितपन्तीति तावब्रूतां तस्य वा आवामेव भिषजौ स्व आवां प्रायश्चित्तिरावां तथा करिष्यावो यथा न्वेता नाभितपन्तीति । तौ परेत्य सुबन्धोर्गौपायनस्य स्वपतः प्रमत्तस्यासुमाहुत्यान्तःपरिधि न्यधत्ताम् ' इत्यादि । तं सुबन्धोरसुमादातुं खाण्डवादसमातिं प्रतिगच्छन्तो गौपायना वदन्ति । हे “इन्द्र “वयं गौपायनाः “पथः समीचीनान्मार्गात् “मा “प्र “गाम मा परागच्छाम । असमातिगृहमेव गच्छाम । “मा च "सोमिनः असमातेः “यज्ञात् मा प्र गाम । “मा “स्थुः मा तिष्ठन्तु “नः अस्माकम् “अन्तः मार्गमध्ये “अरातयः शत्रवः । यद्वा । सोमिनः सोमवतो यागान्मा प्र गाम ॥
 
 
Line ५१ ⟶ ५५:
तम् । आऽहुतम् । नशीमहि ॥२
 
“यः अयमग्न्याख्यः “तन्तुः आहवनीयादिरूपेण विस्तृतः “यज्ञस्य “प्रसाधनः प्रकर्षेण साधयिता “देवेष्वाततः देवैः स्तोतृभिर्ऋत्विग्भिर्विस्तारितो वर्तते वेद्यां “तमाहुतं सर्वतो हूयमानं “नशीमहि प्राप्नुयाम । नशतिर्व्यप्तिकर्मा ॥
 
 
पिण्डपितृयज्ञे 'मनो न्वा हुवामहे ' इति तृचेन पिण्डाभिमानिनः पितर उपस्थेयाः । सूत्रितं च --- मनो न्वा हुवामह इति च तिसृभिरथैनान्प्रवाहयेत्' (आश्व. श्रौ. २. ७ ) इति ॥
 
मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे॑न ।
Line ६३ ⟶ ७१:
 
पितॄणाम् । च । मन्मऽभिः ॥३
 
वयं बन्धुश्रुतबन्ध्वादयः “मनः सुबन्धोः संबन्धि मायाविभिरपहृतं “नु क्षिप्रम् "आ “हुवामहे आह्वयामहे । केन साधनेनेति तदुच्यते । “नाराशंसेन नराशंसचमसगतेन “सोमेन । नरैः शस्यन्त इति नराशंसाः पितरः । तेषां चमसानां कम्पनमेव होमः । तथाविधेन सोमेन “पितॄणाम् अङ्गिरसां “मन्मभिः “च मननीयैः स्तोत्रैश्च ॥
 
 
Line ७६ ⟶ ८६:
 
ज्योक् । च । सूर्यम् । दृशे ॥४
 
हे सुबन्धो “ते “मनः “पुनः “आ “एतु अभिचरतः सकाशात् पुनरागच्छतु । किमर्थमिति उच्यते । “क्रत्वे कर्मणे लौकिकवैदिकविषयाय “दक्षाय बलाय च । यद्वा । क्रत्वे अपानाय दक्षाय प्राणाय । 'प्राणो वै दक्षोऽपानः क्रतुः' इति हि श्रुतिः । “जीवसे जीवनाय च “ज्योक् चिरकालं “सूर्यं “च “दृशे सूर्यं द्रष्टुम् । अत्यन्तं चिरजीवनायेत्यर्थः ॥
 
 
Line ८९ ⟶ १०१:
 
जीवम् । व्रातम् । सचेमहि ॥५
 
“नः अस्माकं “पितरः पितृभूता अङ्गिरसः “जनः । तेषां संघ इत्यर्थः। स च “जीवं “व्रातं प्राणादीन्द्रियसंघातं “पुनः “ददातु । तथा “दैव्यो जनः । जनशब्दः संघवचनः । देवानां संघोऽपि जीवं व्रातं च ददातु । वयं च तदुभयं “सचेमहि प्राप्नुयाम ॥
 
 
Line १०२ ⟶ ११६:
 
प्रजाऽवन्तः । सचेमहि ॥६
 
हे “सोम देव “वयं बन्ध्वादयः “तव “व्रते त्वदीये कर्मणि । व्रतमिति कर्मनाम । तव “तनूषु त्वदीयेष्वङ्गेषु च मनः “बिभ्रतः तात्पर्ययुक्तां बुद्धिं धारयन्तः.”प्रजावन्तः प्रजाभिः पुत्रपौत्रादिभिर्युक्ताः सन्तः “सचेमहि संगच्छेमहि । जीवं व्रातं चेति शेषः ॥ ॥ १९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्