"ऋग्वेदः सूक्तं १०.५९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
'प्र तारि' इति दशर्चं सप्तदशं सूक्तं बन्ध्वादीनां त्रयाणां गौपायनानामार्षम् । आदितः सप्त त्रिष्टुभः। अष्टमी पञ्चाष्टका पङ्क्तिः । नवमी षडष्टका महापङ्क्तिः । दशमी पङ्क्त्युत्तरा । ‘ आद्यौ दशकावष्टकास्त्रयः' (अनु. ९. ११ ) इत्युक्तलक्षणसद्भावात् । एकाक्षराधिक्याद्भूरिग्विशेषणेयं वेदितव्या । सूक्तस्यादितश्चतस्रो देहात्प्राणान्निर्गमयित्र्या निर्ऋतेर्निवृत्यर्थं बन्ध्वादयोऽजपन् । ‘ मो षु णः सोम ' इति चतुर्थ्यामेव मृत्युनिवृत्यर्थं सोममस्तुवन् । अतश्चतसृणां निर्कतिर्देवता चतुर्थ्याः सोमश्च । ‘ असुनीते मनः' इति द्वाभ्यामसुनीतिनाम्नीं देवीमस्तुवन् अतस्तयोः सा देवता । ‘ पुनर्नो असुम्' इत्यस्याः पृथिव्याद्या लिङ्गोक्ता देवताः। ततस्तिसृभिः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्याविति द्यावापृथिव्यौ देवते । ‘ समिन्द्र ' इत्यर्धर्चस्येन्द्रो देवता । तथा चानुक्रान्तं -- प्र तारीति दशर्चे चतस्रो निर्ऋत्यपनोदनार्थं जेपुश्चतुर्थ्यां सोमं चास्तुवन्मृत्योरपगमायोत्तराभ्यां दैवीमसुनीतिं सप्तम्यां लिङ्गोक्तदेवताः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्यौ समिन्द्रेतीन्द्रं चार्धर्चेन' इति । गतो विनियोगः ॥
 
 
प्र ता॒र्यायु॑ः प्रत॒रं नवी॑य॒ः स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य ।
Line ४५ ⟶ ४७:
 
अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥१
 
सुबन्धोः “आयुः आयुष्यं “प्र “तारि प्रवर्धतां । प्रपूर्वस्तिरतिर्वर्धनार्थः । कथं प्रवर्धतामिति उच्यते। “प्रतरं प्रवृद्धतरं "नवीयः नवतरम् । योवनोपेतमित्यर्थः । निर्ऋत्यनुग्रहादेवमायुर्वर्धताम् । तत्र दृष्टान्तः। “क्रतुमता कर्मवता सारथिना “रथस्य “स्थातारेव रथे स्थिताविव वर्धेते तद्वत् । “अध अथ “च्यवानः जीवितात्प्रच्यवमानः “अर्थं स्वाभिलषितमायुर्लक्षणम् “उत्तवीति वर्धयति । सुबन्धुप्राणापहर्त्री “निर्ऋतिः पापदेवता "परातरम् अत्यन्तं दूरतरं “जिहीतां परित्यजतु गच्छतु ॥
 
 
Line ५८ ⟶ ६२:
 
ता । नः । विश्वानि । जरिता । ममत्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥२
 
“सामन्नु साम्नि गीयमाने सति । नु चार्थे। “राये जीवायूरूपधनार्थं “निधिमत् निधानवत् “अन्नं हविश्च “करामहे कुर्मः। अत्रापि “नु इति चार्थे। निर्ऋत्यै स्तुतिं हविश्चोभयं कुर्म इत्यर्थः । तदेवाह । “सु सुष्ठु “पुरुध पुरुधा बहुप्रकारं “श्रवांसि अन्नानि हवींषि करामहे । “ता तानि हवींषि “नः अस्माकं संबन्धीनि “विश्वानि सर्वाणि “जरिता जीर्णा स्तुता वा । जरा स्तुतिः' (निरु. १०, ८) । “ममत्तु स्वदताम् । आस्वाद्य च “निर्ऋतिः “परातरम् अत्यन्तं दूरदेशं “जिहीतां गच्छतु ॥
 
 
Line ७१ ⟶ ७७:
 
ता । नः । विश्वानि । जरिता । चिकेत । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥३
 
वयम् “अर्यः अरीन् शत्रून् “पौंस्यैः पुंस्त्वैः बलैः “सु सुष्ठु “अभि “भवेम। द्यौर्न “भूमिं सूर्यो यथा स्वरश्मिभिर्भूमिमभिभवति तद्वत् । “गिरयो “नाज्रान् । गिरिर्वज्रः । ते यथा अज्रान् अजनशीलान् मेघानभिभवन्ति तद्वत् । “ता तानि यानि “नः अस्माभिः कृतानि स्तोत्राणि तानि “विश्वानि सर्वाणि “जरिता स्तुता सती “निर्ऋतिः “चिकेत जानाति । शिष्टमुक्तम् ॥
 
 
Line ८४ ⟶ ९२:
 
द्युऽभिः । हितः । जरिमा । सु । नः । अस्तु । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥४
 
हे “सोम “नः अस्मान् “सु सुष्ठु “मृत्यवे “मो “परा “दाः मैव परादानं कुरु । मृत्य्वधीनान् मा कार्षीः । किंतु “नु इदानीम् “उच्चरन्तम् ऊर्ध्वं गच्छन्तमुदयन्तं “सूर्यं “पश्येम । चिरकालं जीवेमेत्यर्थः । जीवाभावे सूर्यदर्शनासंभवादित्यभिप्रायः। किंच “द्युभिः। अहर्नामैतत् । अहोभिः दिवसैः “हितः प्रेरितः “जरिमा जराभावः “नः अस्माकं "सु सुखकरः “अस्तु । शिष्टमुक्तम् ॥
 
 
Line ९७ ⟶ १०७:
 
ररन्धि । नः । सूर्यस्य । सम्ऽदृशि । घृतेन । त्वम् । तन्वम् । वर्धयस्व ॥५
 
हे "असुनीते मनुष्याणामसूनां नेत्रि देवि “अस्मासु “मनः पुनः “धारय । किंच “जीवातवे जीवितुं “सु “प्र “तिर सुष्ठु वर्धय “नः अस्माकम् “आयुः । किंच “ररन्धि स्थापय “नः अस्मान् “सूर्यस्य “संदृशि चिरसंदर्शने । “त्वं च “घृतेन अस्माभिर्दत्तेन “तन्वं शरीरं “वर्धयस्व वर्धय ॥॥२२॥
 
 
Line ११० ⟶ १२२:
 
ज्योक् । पश्येम । सूर्यम् । उत्ऽचरन्तम् । अनुऽमते । मृळय । नः । स्वस्ति ॥६
 
हे “असुनीते प्राणदायिनि देवि “अस्मासु । अस्मदीये सुबन्धावित्यर्थः । “पुनः “चक्षुः प्रकाशकं नयनम् । ईक्षणसामर्थ्यमित्यर्थः। किंच “प्राणं “पुनः अस्मासु “धेहि स्थापय । वयं च "ज्योक् चिरम् “उच्चरन्तम् उद्गच्छन्तं “सूर्यं “पश्येम । हे “अनुमते देवि “स्वस्ति अविनाशं यथा स्यात्तथा “नः अस्मान् “मृळय सुखय ॥
 
 
Line १२३ ⟶ १३७:
 
पुनः । नः । सोमः । तन्वम् । ददातु । पुनरिति । पूषा । पथ्याम् । या । स्वस्तिः ॥७
 
“पृथिवी देवी “नः अस्मभ्यम् "असुं प्राणं “ददातु । “पुनः “द्यौः देवता असुं ददातु। तथा “अन्तरिक्षम् अन्तरिक्षदेवता असुं ददातु। तथा “सोमः “नः “तन्वं शरीरं “पुनः “ददातु। तथा “पूषा पोषाभिमानिनी देवता “पथ्याम् । “ पन्था अन्तरिक्षम्' (निरु. ११.४५)। तत्र भवां वाचम् । वागात्मकः शब्दो ह्याकाशादुपद्यते। तां “पुनः ददातु । “किंच ”या “स्वस्तिः या लोके वेदे च स्वस्तिरुच्यते तामपि पूषा प्रयच्छतु। यद्वा । पूषा पोषं प्रयच्छतु । या स्वस्तिर्वाग्नाम्नी देव्यस्ति सा पथ्यां वाचं प्रयच्छतु । ' वाग्वै पथ्या स्वस्तिः' ( श. ब्रा. ३. २. ३. ८) इति ब्राह्मणम् ॥
 
 
Line १३६ ⟶ १५२:
 
भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥८
 
इदमादिभिस्तिसृभिः द्यावापृथिव्योः स्तुतिः। “रोदसी द्यावापृथिव्यौ “सुबन्धवे “शं सुखं प्रयच्छताम् । कीदृश्यौ ते । “यह्वी महत्यौ “ऋतस्य यज्ञस्योदकस्य वा “मातरा निर्मात्र्यौ । “यद्रपः पापं कृच्छ्रमस्ति तत् “अप “भरताम् अपहरताम् अपनयताम् । हे “द्यौः हे “पृथिवि हे द्यावापृथिव्यौ “क्षमा क्षमायां सत्याम् । यद्वा क्षमा पृथगप्युच्यते । क्षमाप्यपहरतु । एवमुक्त्वा सुबन्धुं बन्ध्वादयो ब्रुवते । हे सुबन्धो “ते त्वां “मो “षु मैव सुष्ठु “किं “चन “रपः कृच्छ्रम् "आममत् हिनस्तु ॥
 
 
Line १४९ ⟶ १६७:
 
क्षमा । चरिष्णु । एककम् । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥९
 
“दिवः द्युलोकात् “भेषजा भेषजानि “द्वके द्विकं “त्रिका त्रिकं च “अव “चरन्ति । अत्राश्विनौ द्विकमवचरतः । इळा सरस्वती भारती त्रिकमवचरन्ति । “क्षमा क्षमायां “चरिष्णु चरति “एककम् एकं भेषजमित्यभिप्रायमाह । तानि सर्वाणि सुबन्धोः प्राणं परिरक्षन्त्विति शेषः ॥
 
 
Line १६२ ⟶ १८२:
 
भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥१०
 
हे “इन्द्र “सम् न्वितिईरय संप्रेरय । किम् । “गां गन्तारम् “अनड्वाहम् अनोवहनसमर्थम् । “यः अनड्वान् “आवहत् आवहत्यस्मान्प्रति । किम् । “अनः शकटम् । कस्य । “उशीनराण्याः एतन्नामिकाया ओषधेः । ययार्तमनुलिम्पन्ति सोशीनराणी । भरतामित्यादि गतम् ॥ ॥ २३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५९" इत्यस्माद् प्रतिप्राप्तम्