"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
व्याख्याय प्रथमं विद्वानष्टमस्याष्टकस्य सः ।
 
अध्यायं सायणामात्यो द्वितीयं व्याचिकीर्षति ।।
 
तत्र ‘ ये यज्ञेन' इत्येकादशर्चमनुवाकापेक्षया द्वितीयं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षम् । आदितश्चतस्रो जगत्यः । पञ्चम्यनुष्टुप् । षष्ठी बृहती। सप्तमी सतोबृहती । अष्टमीनवम्यावनुष्टुभौ । दशमी गायत्री । एकादशी त्रिष्टुप् । आदितः षण्णां विश्वे देवा अङ्गिरसो वा देवता । सप्तमी वैश्वदेवी । अष्टम्याद्यासु चतसृषु सावर्णेर्महाराजस्य दानं स्तूयते । अतस्तास्तदेवताकाः । तथा चानुक्रम्यते---- ‘ ये यज्ञेनैकादशाद्याः षळङ्गिरसां स्तुतिर्वान्त्या त्रिष्टुप्पञ्चम्यनुष्टुप्प्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽन्त्याः सावर्णेर्दानस्तुतिः' इति । षष्ठेऽहनि वैश्वदेवशस्त्र एतत्सूक्तम् । सूत्रितं च -- ' इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते ' ( आश्व. श्रौ. ८. १ ) इति ॥
 
 
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श ।
Line ४७ ⟶ ५९:
 
तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥१
 
नाभानेदिष्ठः स्वपित्रा मनुनाभ्यनुज्ञातः सत्रमासीनानङ्गिरसोऽभ्येत्य मां प्रतिगृह्णीत युष्मभ्यं यज्ञं प्रज्ञापयामीति यदुक्तवान् तदुच्यते । इतिहासस्तु इदमित्थेति पूर्वसूक्ते ' नाभानेदिष्ठं शंसति नाभानेदिष्ठं वै मानवम्' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणानुसारेण ‘ मनुः पुत्रेभ्यो दायं व्यभजत् ' ( तै. सं. ३. ३. ९. ४ ) इति तैत्तिरीयब्राह्मणानुसारेण च सप्रपञ्चमभिहितः । तथा चास्या ऋचोऽयमर्थः । “यज्ञेन यजनीयेन हविषा “दक्षिणया ऋत्विग्भ्यो देयया “समक्ताः संगताः “ये अहीनैकाहसत्राणि कुर्वन्तो यूयम् “इन्द्रस्य “सख्यं सखिकर्म अत एव “अमृतत्वम् अमरणधर्मं देवत्वम् “आनश आनशिध्वे प्राप्ताः स्थ । अश्नोतेर्लिटि मध्यमे व्यत्ययेन बहुवचनम् । ‘अश्नोतेश्च' इति नुडागमः । यद्वृत्तयोगादनिघातः । हे “अङ्गिरसः “तेभ्यः “वः युष्मभ्यं “भद्रं कल्याणं कर्म “अस्तु । हे “सुमेधसः सुप्रज्ञा हे अङ्गिरसः ते यूयमिदानीमागत “मानवं मनोः पुत्रं मां “प्रति “गृभ्णीत प्रतिगृह्णीत । मयि प्रतिगृहीते सति यज्ञं साधु करिष्यामीति तदर्थं प्रतिगृह्णीत ॥
 
 
Line ६० ⟶ ७४:
 
दीर्घायुऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥२
 
हे “अङ्गिरसः “पितरः अस्माकं पूर्वजत्वेन पितृभूताः “ये यूयं “गोमयं गवात्मकं पणिभिरपहृतं “वसु धनम् “उदाजन् तैरधिष्ठितात्पर्वतादुदगमयन् । किंच “ऋतेन सत्यभूतेन यज्ञेन “परिवत्सरे पर्यागते वत्सरे संपूर्णे । सत्रान्त इत्यर्थः । तत्र “वलं वलनामानं गवामपहर्तारमसुरम् “अभिन्दन् व्यनाशयन् तेभ्यः “वः युष्मभ्यं “दीर्घायुत्वं प्रभूतजीवनम् “अस्तु । शेषं पूर्ववत् ॥
 
 
Line ७३ ⟶ ८९:
 
सुप्रजाःऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥३
 
हे “अङ्गिरसः “ये भवन्तः “ऋतेन सत्यभूतेन यज्ञेन “दिवि द्युलोके “सूर्यं सुष्ठु सर्वस्य प्रेरकमादित्यम् “आरोहयन् अस्थापयन् किंच “मातरं सर्वेषां निर्मात्रीं “पृथिवीं “वि “अप्रथयन् प्रसिद्धामकुर्वन् सत्रादिकर्मकरणेन तेभ्यः युष्मभ्यं “सुप्रजास्त्वं सुपुत्रत्वम् “अस्तु ॥ ‘ नित्यमसिच् प्रजामेधयोः' इत्यसिच् समासान्तः । तस्माद्भावप्रत्ययः ॥
 
 
Line ८६ ⟶ १०४:
 
सुऽब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥४
 
हे “देवपुत्राः देवानां पुत्रा अग्नेः पुत्राः “ऋषयः अतीन्द्रियार्थस्य द्रष्टारो हे “अङ्गिरसः "अयं “नाभा नाभानेदिष्ठः पुरोवर्ती जनः “वः युष्माकं “गृहे गृहभूते यज्ञे “वल्गु कल्याणं वचः “वदति । “तत् वाक्यं यूयं “शृणोतन महतादरेण शृणुत । श्रु श्रवणे' । ' तप्तनप्तनथनाश्च' इति तनबादेशः । तेभ्यो युष्मभ्यं “सुब्रह्मण्यं शोभनं ब्रह्मवर्चसम् “अस्तु । इदानीमागतं "मानवं मां “प्रति “गृभ्णीत प्रतिगृह्णीत ॥
 
 
Line ९९ ⟶ ११९:
 
ते । अङ्गिरसः । सूनवः । ते । अग्नेः । परि । जज्ञिरे ॥५
 
परोक्षतयर्षिराह । “ऋषयः कर्मणां द्रष्टार एत ऋषयः “विरूपास “इत् अन्योन्यं वर्णतो रूपतश्च नानारूपा भवन्ति । “त “इत् त एवामी अङ्गिरसः “गम्भीरवेपसः । वेप इति कर्मनाम । गम्भीरकर्माणो भवन्ति । “ते इमे “अङ्गिरसः “सूनवः पुत्राः खलु । तदेवाह । “ते इमे अङ्गिरसः “अग्नेः “परि “जज्ञिरे सर्वतो जाताः प्रादुर्भूताः । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्' (ऐ. ब्रा. ३. ३४) इति ब्राह्मणम् । अत्र निरुक्तं च द्रष्टव्यम् ( निरु. ३. १७ ) ॥ ॥ १ ॥
 
 
Line ११२ ⟶ १३४:
 
नवऽग्वः । नु । दशऽग्वः । अङ्गिरःऽतमः । सचा । देवेषु । मंहते ॥६
 
“विरूपासः विविधरूपाः “ये अङ्गिरसः “दिवस्परि द्युलोकात् “अग्नेः “परि “जज्ञिरे परितो जाताः । यद्वा । दिवस्परि। परिः पञ्चम्यर्थद्योतकः । स्वतेजसा दीप्यमानादग्नेर्जाताः । तेषां मध्ये “नवग्वः “दशग्वः च “अङ्गिरस्तमः अङ्गिरसां वरिष्ठः । सत्रमासीनानामङ्गिरसां मध्ये केचन नवसु मास्सु कर्मं कृत्वोदतिष्ठन् केचन दशसु मास्स्वित्येवमङ्गिरसामयनमुक्तम् । तेषामग्निर्नवग्वश्च दशग्वश्चोक्तः । तादृशः “देवेषु "सचा सहावस्थितः सोऽग्निः “मंहते मह्यं धनं प्रयच्छति । मंहतिर्दानकर्मा ॥
 
 
Line १२६ ⟶ १५०:
सहस्रम् । मे । ददतः । अष्टऽकर्ण्यः । श्रवः । देवेषु । अक्रत ॥७
 
"वाघतः कर्मणां वोढारो विश्वे देवा अङ्गिरसो वा “इन्द्रेण “युजा सहायेन “निः “सृजन्त निरगमयन् । किम् । “गोमन्तं गोयुक्तम् “अश्विनम् अश्ववन्तं पणिभिरवरुद्धं “व्रजम् । ते “मे मां प्रति “सहस्रं सहस्रसंख्याकं धनं सत्रपरिवेषणम् “अष्टकर्ण्यः । अष्ट इति ‘ अशू व्याप्तौ' निष्ठायां रूपम् । विस्तृतकर्णाः । उपलक्षणमेतत् । व्याप्तसर्वावयवा गाश्च “ददतः मह्यं प्रयच्छन्तः “देवेषु इन्द्रादिषु “श्रवः हविर्लक्षणमन्नं कीर्तिं वा “अक्रत अकृषत । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् । एवं नाभानेदिष्ठेनाङ्गिरसः स्तुतास्तस्मै धनं प्रादुः । तदुक्तं शौनकेन -‘ऋषयोऽङ्गिरसस्तुष्टा यद्ददुर्मानवाय तु । तत्पुण्याय च कर्माणि ये यज्ञेनेत्यकीर्तयत् ॥
 
 
उत्तराभिश्चतसृभिरस्मै मानवायर्षये सावर्णिना यद्दत्तं तत्प्रशस्यते । तदप्युक्तं शौनकेन -- ‘सावर्णिना च यद्दत्तं मानवाय महद्वसु । तदुक्तं सूक्तशेषेण प्र नूनं जायतामिति ॥
 
प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु ।
Line १३८ ⟶ १६६:
 
यः । सहस्रम् । शतऽअश्वम् । सद्यः । दानाय । मंहते ॥८
 
“अयं सावर्णिः “मनुः "नूनं क्षिप्रं “प्र “जायतां प्रजातो भवतु । धनादिभिः पुत्रादिभिश्च “रोहतु प्रादुर्भवतु । तत्र दृष्टान्तः । “तोक्मेव । यथा जलक्लिन्नं बीजं प्रादुर्भवति एवं कर्मफलसंयुक्तः स मनुः पुत्रादिभिः रोहतु । “यः अयं मनुः “शताश्वं बह्वश्वसंयुक्तं “सहस्रं गवां “सद्यः तदानीमेव “दानाय “मंहते अस्मा ऋषये दातुं प्रेरयति ॥
 
 
Line १५१ ⟶ १८१:
 
सावर्ण्यस्य । दक्षिणा । वि । सिन्धुःऽइव । पप्रथे ॥९
 
“तं सावर्णिं मनुं “कश्चन कश्चिदपि “आरभम् आरब्धुं स्वकर्मणा “न “अश्नोति न व्याप्नोति । यथा मनुः प्रयच्छति तथान्यो दातुं न शक्नोतीत्यर्थः । कथं स्थितम् । “दिवइव द्युलोकस्य “सानु समुच्छ्रितं तेजसा कैश्चिदप्यप्रधृष्यमादित्यमिव स्थितम् । आरभम् । ‘ शकि णमुल्कमुलौ ' (पा. सू. ३. ४. १२) इति कमुल्। तस्य “सावर्ण्यस्य मनोरियं गवादिदक्षिणा “सिन्धुरिव स्यन्दमाना नदीव पृथिव्यां “पप्रथे विप्रथते । विस्तीर्णा भवति ॥
 
 
Line १६४ ⟶ १९६:
 
यदुः । तुर्वः । च । ममहे ॥१०
 
“उत अपि च "स्मद्दिष्टी कल्याणादेशिनौ “गोपरीणसा गोपरीणसौ गोभिः परिवृतौ बहुगवादियुक्तौ “दासा दासवत् प्रेष्यवत् स्थितौ तेनाधिष्ठितौ “यदुः च “तुर्वश्च एतन्नामकौ राजर्षी “परिविषे अस्य सावर्णेर्मनोर्भोजनाय "ममहे पशून्प्रयच्छतः । प्रत्येकमन्वयादेकवचनम् ॥
 
 
Line १७७ ⟶ २११:
 
सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अश्रान्ताः । असनाम । वाजम् ॥११
 
“सहस्रदाः गवादीनां सहस्रस्य दाता “ग्रामणीः ग्रामाणां नेता कर्ता जनपदानामयं “मनुः “मा “रिषत् न कैश्चिदपि रिष्टो हिंसितो भवतु । यद्वा । कर्मनेतॄनस्मान्मा हिनस्तु किंतु धनादिदानेन पूजयतु । “अस्य “यतमाना गच्छन्ती “दक्षिणा “सूर्येण सह “एतु संगच्छताम् । त्रिषु लोकेषु प्रसिद्धा भवत्वित्यर्थः । तस्यास्य “सावर्णेः सवर्णपुत्रस्य मनोः “देवाः इन्द्रादयः “आयुः जीवन “प्र “तिरन्तु प्रवर्धयन्तु । “अश्रान्ताः कर्मसु अनलसाः सर्वं कर्म कुर्वन्तो वयं “यस्मिन् मनौ “वाजं गोलक्षणमन्नम् “असनाम संभजेमहि । नाभानेदिष्ठोऽहमलभ इत्याशास्ते ॥ ॥ २ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्