"ऋग्वेदः सूक्तं १०.६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
 
{{सायणभाष्यम्|
‘ परावतो ये' इति सप्तदशर्चं तृतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदश्यौ त्रिष्टुभौ । पञ्चदशी त्रिष्टुब्जगती वा । शिष्टाश्चतुर्दश जगत्यः । ‘ स्वस्ति नः पथ्यासु' इति द्वे पथ्यास्वस्तिदेवताके। शिष्टा वैश्वदेव्यः । तथा चानुक्रान्तं -- परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तं तु स्वस्ति नस्त्रिटुब्वा सह चोत्तरया पथ्यास्वस्तिदेवत्या' इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहनि वैश्वदेवशस्त्र एतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रित च -– अनश्वो जातः परावतो य इति वैश्वदैवम् ' ( आश्व. श्रौ. ७. ७) इति ॥
 
 
प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।
Line ६० ⟶ ६२:
 
ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥१
 
"ये देवाः “परावतः दूरदेशादागत्य “आप्यं ज्ञातेयं मनुष्यैः सह बन्धुत्वं “दिधिषन्ते धारयन्ति । यद्वा । हविषां प्रदातृभिर्मनुष्यैः सह सख्यं कुर्म इति परस्परं शब्दायन्ते । धिष शब्दे । जौहोत्यादिकः । छान्दसो झस्यान्तादेशः । ‘ धिष धारणे इति कैश्चिदप्युपगम्यते । उक्तार्थमेव विशिनष्टि । "मनुप्रीतासः मनुष्यैः प्रीता देवाः “विवस्वतः विवस्वत्पुत्रस्य मनोः “जनिम जन्मानि मनुष्यान् धारयन्ति । किंच “ये “देवाः “नहुष्यस्य नहुषपुत्रस्य “ययातेः एतन्नामकस्य राजर्षेः “बर्हिषि यज्ञे “आसते उपविशन्ति “ते देवाः “नः अस्मान् “अधि “ब्रुवन्तु धनादिप्रदानेनास्मानधिकं वदन्तु ! पूजयन्त्वित्यर्थः ॥
 
 
Line ७४ ⟶ ७८:
ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥२
 
हे “देवाः इन्द्रादयः । हिरवधारणे । “वः युष्माकमेव “नामानि नमनीयानि “विश्वा सर्वाणि शरीराणि "नमस्यानि नमस्कारार्हाणि भवन्ति “वन्द्या वन्द्यानि स्तोतव्यानि च भवन्ति । “उत अपि च “वः युष्माकं तानि शरीराणि “यज्ञियानि यज्ञार्हाणि भवन्ति । “ये यूयम् “अदितेः अदीनात् द्युलोकात् “अद्भ्यः । अन्तरिक्षनामैतत् । अन्तरिक्षात् । परिः पञ्चम्यर्थद्योतकः । “पृथिव्याः च “जाताः प्रादुर्भूताः “स्थ भवथ “ते यूयम् “इह अस्मिन्यज्ञे आगत्य “मे मदीयं “हवम् आह्वानं “श्रुत शृणुत ॥ ।
 
 
अग्निष्टोमे वैश्वदेवशस्त्रे ‘येभ्यो माता' इत्येषा धाय्या । सूत्रितं च -- अयं वेनश्चोदयत्पृश्निगर्भा येभ्यो माता मधुमत् ' ( आश्व. श्रौ. ५. १८) इति ॥
 
येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑ः पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।
Line ८६ ⟶ ९४:
 
उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥३
 
“माता सर्वस्य निर्मात्री पृथिवी “येभ्यः देवेभ्यो देवार्थं “मधुमत् माधुर्योपेतं पयः सारभूतं. क्षीरं “पिन्वते क्षरति । तथा “अदितिः अदीना “अद्रिबर्हा: मेघैः परिवृढा प्रवृद्धा परिवृद्धमेघा वा
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६३" इत्यस्माद् प्रतिप्राप्तम्