"ऋग्वेदः सूक्तं १०.१५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. भाववृत्तम्। अनुष्टुप् ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥१॥
Line २२ ⟶ २०:
ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
 
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १
 
सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ ।
 
येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥१
 
सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते ।
 
येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥१
 
 
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।
 
तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ २
 
तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।
 
तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२
 
तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।
 
तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥२
 
 
ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
 
ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ ३
 
ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ ।
 
ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥३
 
ये । युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः ।
 
ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥३
 
 
ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।
 
पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ ४
 
ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ ।
 
पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥४
 
ये । चित् । पूर्वे । ऋतऽसापः । ऋतऽवानः । ऋतऽवृधः ।
 
पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥४
 
 
स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
 
ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥ ५
 
स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।
 
ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥५
 
सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।
 
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥५
 
 
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५४" इत्यस्माद् प्रतिप्राप्तम्