"ऋग्वेदः सूक्तं १०.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥१
 
हे “आपः “वः युष्माकं “महिमानं महत्त्वं स्तोत्रम् “उत्तमम् उत्कृष्टतमं “कारुः स्तोता सिन्धुक्षिदहं “विवस्वतः परिचरणवतो यजमानस्य “सदने यज्ञगृहे “सु सुष्ठु “प्र “वोचाति प्रब्रवीमि । ता नद्यः “सप्तसप्त भूत्वा “त्रेधा पृथिव्यामन्तरिक्षे दिवि चेति “त्रेधा त्रिप्रकारं “चक्रमुः प्रावहन् । “सृत्वरीणाम् आसां मध्ये “सिन्धुः एतन्नामिका नदी “ओजसा स्वबलेन “अति सर्वाँ अपि नदीरतिक्रम्य “प्र वहतीति शेषः ॥
 
 
Line ५९ ⟶ ६१:
 
भूम्याः । अधि । प्रऽवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥२
 
हे “सिन्धो देवि “ते तव “यातवे गमनाय “वरुणः देवः “पथः मार्गान् “प्र “अरदत् प्राचीनं व्यालिखत् । सा हि प्राक् प्रवहति । अथवा प्रकृष्टमितरनदीभ्योऽप्यत्यन्तं विस्तृतं व्यदारयत् । “यत् यस्मात् हे सिन्धो “वाजान् अन्नान्यभिलक्ष्य “त्वम् “अभ्यद्रवः अभ्यगच्छ:। किंच त्वं “भूम्याः “अधि उपरि “सानुना समुच्छ्रितेन “प्रवता मार्गेण “यासि गच्छसि । सिन्धुः खलु पर्वतान्विभिद्य गता । “यत् येन समुच्छ्रितेन मार्गेण गच्छन्ती त्वम् “एषां सर्वेषां “जगतां जङ्गमानां प्राणिनाम् “अग्रं प्रत्यक्षम् “इरज्यसि ईशिषे ॥
 
 
Line ७२ ⟶ ७६:
 
अभ्रात्ऽइव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥३
 
“भूम्योपरि भूमेरुपरि प्रवर्तमानः “स्वनः “दिवि “यतते गच्छति । दिवं व्याप्तोति । सेयं सिन्धुः “अनन्तम् अपर्यन्तं “शुष्मं वेगं “भानुना दीप्तेनोर्मिणा “उदयर्ति उद्गमयति । “अभ्रादिव अन्तरिक्षाद्यथा “वृष्टयः “प्र “स्तनयन्ति तद्वदस्याः शब्दाः प्रादुर्भवन्ति । “यत् यदा “सिन्धुः इयं “रोरुवत् भृशं शब्दयन् “वृषभो “न वृषभ इव “एति गच्छति तदैवं भवति ।।
 
 
Line ८५ ⟶ ९१:
 
राजाऽइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्रऽवताम् । इनक्षसि ॥४
 
हे “सिन्धो “त्वा त्वां “शिशुमिन्न “मातरः मातरः पुत्रमिव “वाश्राः शब्दयन्त्य इतरा नद्यः “अभि “अर्षन्ति अभिगच्छन्ति । “पयसेव “धेनवः पयसा युक्ता नवप्रसूतिका गाव इव । किंच “युध्वा युद्धकृत् “राजेव “त्वमित् त्वमेव “सिचौ सिच्यमानौ तटौ “नयसि उदकपूरं “यत् यदा “आसां “प्रवतां त्वया सह गच्छन्तीनाम् “अग्रम् अग्रे “इनक्षसि व्याप्नोषि । सर्वासां पुरतो गच्छसि ॥
 
 
Line ९८ ⟶ १०६:
 
असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जीकीये । शृणुहि । आ । सुऽसोमया ॥५
 
अत्र प्रधानभूताः सप्त नद्यस्तदवयवभूता नद्यस्तिस्रः स्तूयन्ते । हे “गङ्गे हे “यमुने हे “सरस्वति हे “शुतुद्रि हे “परुष्णि । हे “असिक्न्या अवयवभूतया सहिते “मरुद्वृधे हे “वितस्तया “सुषोमया च सहिते “आर्जीकीये त्वं च एवं सप्त नद्यो यूयं “मे “स्तोमं स्तोत्रमस्मदीयम् “आ “सचत आसेवध्वम् । “शृणुहि शृणुत च । आर्जीकीयाया वितस्तया सुषोमया च साहित्यं निरुक्त उक्तं -- ‘ वितस्तया चार्जीकीया आ शृणुहि सुषोमया च ' इति । अत्र 'गङ्गा गमनात्' (निरु. ९.२६) इत्यादि निरुक्तं द्रष्टव्यम् ॥ ॥ ६ ॥
 
 
Line १११ ⟶ १२१:
 
त्वम् । सिन्धो इति । कुभया । गोऽमतीम् । क्रुमुम् । मेहत्न्वा । सऽरथम् । याभिः । ईयसे ॥६
 
हे “सिन्धो “त्वं “क्रुमुं क्रमणशीलां “गोमतीं नदीं “यातवे प्रतियातुं पर्वतादवरूढा “प्रथमं “तृष्टामया नद्या “सजूः संगतासि । पश्चात् “सुसर्त्वा “रसया “श्वेत्या “त्या “कुभया “मेहत्न्वा च सह सजूर्भव “याभिः त्वं “सरथं समानं रथमारुह्य “ईयसे गच्छसि ॥
 
 
Line १२४ ⟶ १३६:
 
अदब्धा । सिन्धुः । अपसाम् । अपःऽतमा । अश्वा । न । चित्रा । वपुषीऽइव । दर्शता ॥७
 
“ऋजीती ऋजुगामिनी “एनी श्वेतवर्णा “रुशती दीप्यमाना सिन्धुः “ज्रयांसि वेगवन्ति “रजांसि उदकानि “परि “भरते प्रभरति । तादृशी “अदब्धा अहिंसिता “सिन्धुः “अपसां कर्मवतीनां मध्ये “अपस्तमा वेगाख्यकर्मवती भवति । “अश्वा “न वडवेव “चित्रा चायनीया “वपुषी वपुष्मती योषित् “इव “दर्शता दर्शनीया भवति ॥
 
 
Line १३७ ⟶ १५१:
 
ऊर्णाऽवती । युवतिः । सीलमाऽवती । उत । अधि । वस्ते । सुऽभगा । मधुऽवृधम् ॥८
 
सेयं “सिन्धुः “स्वश्वा शोभनाश्वोपेता “सुरथा शोभनरथा "सुवासाः शोभनवसना “हिरण्ययी हिरण्मयाभरणा “सुकृता “वाजिनीवती अन्नवती “ऊर्णावती । तस्याः समीप देशे हि सन्त्यूर्णाः यासां रोमभिः कम्बलाः क्रियन्ते । “युवतिः नित्यतरुणी सर्वदा हीनोदका “सीलमावती। सीराणि ययौषध्या रज्जुभूतया बध्यन्ते सा सीलमेति निगद्यते कृषीवलैः । तादृगोषध्युपेता। “उत अपि च “सुभगा सिन्धुः “मधुवृधं मधुवर्धकं निर्गुण्ड्यादिकम् “अधि “वस्ते आच्छादयति । तस्यास्तीरे निर्गुण्ड्यादीनि बहूनि सन्ति ॥
 
 
Line १५१ ⟶ १६७:
महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वऽयशसः । विऽरप्शिनः ॥९
 
“सिन्धुः देवता “सुखं सुखकरं शोभनद्वारं वा “अश्विनम् अश्ववन्तं “रथं “युयुजे युनक्ति । “तेन रथेन “वाजम् अन्नं “सनिषत् प्रयच्छतु। “अस्मिन्नाजौ संग्रामे यज्ञे वा “अस्य सिन्धुरथस्य “महिमा “महान् “हि “पनस्यते स्तूयते । कीदृशस्यास्य । “अदब्धस्य अन्यैरहिंस्यस्य “स्वयशसः स्वायत्तकीर्तेः “विरप्शिनः । महन्नामैतत् । महतः ॥ ॥ ७ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७५" इत्यस्माद् प्रतिप्राप्तम्