"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३१:
वैदिकवाङ्मये [http://puranastudy.onlinewebshop.net/pur_index29/sarvahut.htm सर्वहुतशब्दस्य उल्लेखाः] सन्ति। लक्ष्मीनारायण संहितातः [[लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०९|१.३०९]] स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति। प्रथमावस्थायां पृषदाज्यस्य संभरणं भविष्यति, तत्पश्चचात् आज्यस्य। अयमेव सोमयागः भविष्यति, यथा लक्ष्मीनारायणसंहितायाः कथायां सर्वहुतराजा पुष्करे सोमयागः करोति।
 
 
१०.९०.१०
 
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥
 
[http://puranastudy.angelfire.com/pur_index2/ashva.htm अश्वोपरि वैदिकसंदर्भाः]
 
[http://puranastudy.angelfire.com/pur_index2/pva23.htm अश्वोपरि पौराणिकसंदर्भाः]
 
अत्र पञ्चग्राम्यपशुषु चतुर्णां पशूनां उल्लेखमस्ति। पुरुषस्य उल्लेखं पूर्वमेव कृतमस्ति। एतेषां पशूनां किं महिमा अस्ति। शतपथब्राह्मण [[शतपथब्राह्मणम्/काण्डम् ६/अध्यायः २/ब्राह्मणम् १|६.२.१.५]] अनुसारेण पुरुषपशुः वैश्वकर्मणः अस्ति, अर्थात् पुरुषः पुरुषार्थयुक्तः अस्ति, सः दैवोपरि निर्भरः नास्ति। अन्ये चत्वारः ग्राम्याः पशवः दैवोपरि एव निर्भराः सन्ति। अश्वः वारुणमस्ति। वारुणं अर्थात् यत्र-यत्र अनृतमस्ति, तत्र-तत्र वरुणः बन्धनस्य, ग्रन्थेः सर्जनं करिष्यति। अनेनैव कारणेन महाभारते अश्वनिपुणस्य नकुलस्य संज्ञा विराड्नगरे ग्रन्थिकः अस्ति। यत्र अनृतं नास्ति, तत्र अश्वः सूर्यः, श्वेताश्वः भवितुं शक्यते। गावः रौद्राः, रुद्रदेवत्याः सन्ति। यागानां अवसाने अग्नेः स्विष्टकृत् इष्टिः भवति। तत् रुद्रस्य शमनाय भवति। रुद्रदेवः रौद्रप्रकृत्यापेक्षया सु-इष्टः भवतु, अयमर्थः। गौपशुः पृथिव्योपरि सूर्यस्य रश्मीनां संग्रहं करोति, येन भूतेषु या रौद्रता अस्ति, तस्य शमनं भवति। अविपशुः त्वष्टृदेवात्मकः अस्ति। त्वष्टृदेवस्य कार्यं ब्रह्माण्डे या ऊर्जा अस्ति, तस्याः सम्यक् उपयोजनं अस्ति। त्वष्टा देवः सूर्यं स्वभ्रम्योपरि रोपयित्वा तस्य रूपनिर्माणं करोति। तेन सूर्यस्य उदयः भवति। अतएव, छान्दोग्योपनिषदे अविभक्तिः उदयेन सह सम्बद्धा अस्ति। अयं प्रतीयते यत् अविशब्दः आविःशब्दस्य, आविर्भावस्य परोक्षरूपमस्ति। आवश्यकता अस्ति यत् व्यवहारे ये पापाः सन्ति, तेषां उदयं न भवेत्, पुण्यानामेव उदयं भवेत्। अजाभक्तिः सूर्योदयात् पूर्वावस्था अस्ति। अस्याः सम्बन्धं व्याधिभिः सह अपि अस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्