"ऋग्वेदः सूक्तं १०.८२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
‘ चक्षुषः' इति सप्तर्चं चतुर्दशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘चक्षुषः' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥
 
 
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।
Line ४० ⟶ ४२:
यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥१
 
“चक्षुषः चक्षुरुपलक्षितस्येन्द्रियसंघात्मकस्य शरीरस्य “पिता उत्पादयिता । यद्वा । चक्षुः व्यापकं तेजः । तस्योत्पादयिता । “मनसा न हि मत्समोऽस्ति कश्चिदिति बुद्ध्या “हि खलु “धीरः धृष्टो विश्वकर्मा प्रथमं “घृतम् उदकम् “अजनत् अजनयत् । ‘ आपो वा इदमग्रे' (तै. सं. ७. १. ५. १) ‘ अप एव ससर्जादौ ' (मनु. १. ८) इत्यादिश्रुतिस्मृती स्याताम् । पश्चात् “एने द्यावापृथिव्यौ “नम्नमाने तस्मिन्नुदक इतस्ततश्चलन्त्यौ योऽजनयत्। अथ “यदेत् यदैव “अन्ताः पर्यन्तप्रदेशाः “पूर्वे पुराणा द्यावापृथिव्योः संबन्धिनः “अददृहन्त दृढा अभवन् । विश्वकर्मणा दृढाः संपादिता इत्यर्थः । “आदित् अनन्तरमेव “द्यावापृथिवी द्यावापृथिव्यौ “अप्रथेतां यथाकामं प्रथिते अभूताम् ॥
 
 
वैश्वकर्मणस्य पशोर्हविष एषानुवाक्या। ‘विश्वकर्मा विमना आद्विहायाः किं स्विदासीदधिष्ठानम् ' ( आश्व. श्रौ. ३. ८) इति सूत्रितम् ॥
 
वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।
Line ५३ ⟶ ५९:
तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥२
 
अयं मन्त्रोऽधियज्ञाध्यात्मयोर्भेदेन द्विधा व्याख्येयः । तत्र प्रथमं दैवतमधिकृत्योच्यते । “विश्वकर्मा बहुविधप्रकाशवृष्टिप्रदानादिकर्मणां कर्तादित्यः स च “विमनाः विभूतमनाः । “आत् इत्यनर्थकः सर्वत इत्यर्थे वा । “विहायाः विविधमाप्ता महानित्यर्थः । “धाता वृष्ट्यादिकर्ता च “विधाता जगतः कर्ता व “परमा परमः “संदृक् संद्रष्टा व भूतानाम् । “तेषां सप्तर्षीणाम् । ज्योतिषां रश्मीनामित्यर्थः । चरमपादे वक्ष्यमाणत्वात् । “इष्टानि स्थानानि शरीराणि वा “इषा उदकेन “सं “मदन्ति संमोदन्ते “यत्र यस्मिन्नादित्ये तं देवं “सप्तर्षीन् । सप्तर्षिभ्य इत्यर्थः । तेभ्यः “परः परस्तात् “एकम् एव आदित्यम् “आहुः मन्त्रविदः । अध्यात्मपक्ष उच्यते । विश्वकर्मा यः परमात्मा प्राणप्रकाशाभ्यामुपेतः सन् बहुकर्मा भवति । स च विमना विभूतमना विहाया वस्तुतो महान् विशेषेण सुकृतदुष्कृतफलस्याप्ता धाता विधाता च परमोत संदृक् परमश्च संद्रष्टेन्द्रियाणाम् । तेषां सप्तर्षीणां द्रष्टॄणामिन्द्रियाणामिष्टानि स्वरूपाणीषान्नेन सह सं मदन्ति संमोदन्ते यत्र यस्मिन्नात्मनि तमात्मानं सप्तर्षीन् सप्तसंख्याकेभ्यः सर्पणस्वभावेभ्यो वा परः परस्ताद्वर्तमानमिन्द्रियाद्यतीतमेकं परमात्मानमाहुस्तत्त्वविदः । अत्र विश्वकर्मा विभूतमना व्याप्ता ' ( निरु. १०. २६ ) इत्यादि निरुक्तमनुसंधेयम् ।।
 
 
पूर्वोक्त एव पशौ पुरोडाशस्य ‘ यो नः पिता ' इत्येषा याज्या । सूत्रितं च - ‘ यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावमा ' (आश्व. श्रौ. ३. ८) इति ॥
 
यो न॑ः पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।
Line ६५ ⟶ ७५:
 
यः । देवानाम् । नामऽधाः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । अन्या ॥३
 
“यः विश्वकर्मा “नः अस्माकं “पिता पालयिता । न केवलं पालकः किंतु “जनिता उत्पादकः। किमनेनास्माकमुत्पादक इति संकोचेन । “यो “विधाता सर्वस्य जगत उत्पादको यो विश्वकर्मा नोऽस्माकमुत्पन्नानि “धामानि देवानां तेजःस्थानानि “वेद वेत्ति । किं बहुना । “विश्वा विश्वानि “भुवना भूतजातानि वेद वेत्ति । “यः च “देवानाम् अग्निवाय्वादीनां “नामधाः नाम्नां धाता इन्द्रादीन्निर्माय तेषामिन्द्रादि नाम कृत्वा तत्तत्पदेषु स्थापयिता “एक “एव । “तं देवम् “अन्या अन्यानि “भुवना भूतजातानि “प्रश्नं कः परमेश्वर इति पृच्छां “यन्ति प्राप्नुवन्ति ॥
 
 
Line ७८ ⟶ ९०:
 
असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥४
 
“ते “पूर्वे “ऋषयः “अस्मै विश्वकर्मणे “द्रविणं चरुपुरोडाशादिलक्षणं धनं “सं सम्यक् “आयजन्त सर्वतो यजन्ते । “जरितारो “न “भूना स्तोतारो यथा भूम्ना महता स्तोत्रेण यजन्ति तद्वत् । “ये महर्षयः “असूर्ते सरणवर्जिते “सूर्ते सरणसहिते स्थावरजङ्गमात्मके “रजसि लोके “निषत्ते निषण्णे निश्चलमवस्थिते “इमानि “भूतानि भुवनानि । प्राणिन इत्यर्थः । “समकृण्वन् सम्यग्धनादिनापूजयन् । अथवायमर्थः । ये स्थावरजङ्गमात्मके जगति वर्तमानानेतान् प्राणिनस्तेजसा समकृण्वन् ते पूर्व ऋषयो द्रष्टारो रश्मयोऽस्मा अदित्यात्मकाय विश्वकर्मणे द्रविणं तेज आयजन्त ।।
 
 
Line ९१ ⟶ १०५:
 
कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअपश्यन्त । विश्वे ॥५
 
यदीश्वरतत्त्वं “दिवा “परः द्युलोकादपि परस्ताद्वर्तमानं तथा “एना अस्याः “पृथिव्याः “परः परस्ताद्वर्तमानं तथा “देवेभिः देवैः परस्ताद्वर्तमानम् “असुरैः परस्ताद्वर्तमानं च “यदस्ति तद्गुहायामवस्थितं “कं “स्विद्गर्भं गर्भवत्सर्वस्य ग्राहकं तत्त्वम् “आपः “प्रथमं “दध्रे धृतवत्यः । “यत्र यस्मिन् गर्भे “देवाः इन्द्रादयः “विश्वे सर्वेऽपि “समपश्यन्त संगताः परस्परं पश्यन्ति । एवं जानन्नेव कश्चित्तत्त्ववित्प्रश्नं करोति ॥
 
 
Line १०४ ⟶ १२०:
 
अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥६
 
अनया पूर्वमन्त्रोक्तस्य प्रश्नस्योत्तरमभिधीयते । “तमित् तमेव विश्वकर्माणं “गर्भं गर्भस्थानीयं “प्रथमम् इतरसृष्टेः पूर्वम् "आपः “दध्रे धृतवत्यः । “यत्र गर्भे विश्वे सर्वे “देवाः इन्द्रादयः “समगच्छन्त संगता भवन्ति । तस्य “अजस्य “नाभावधि नाभौ । अधीति सप्तम्यर्थानुवादी । “एकमर्पितम् इत्यण्डाभिप्रायेणोक्तम् । अण्डं हि प्राक्सर्गान्नाभिस्थाने तिष्ठति । “यस्मिन् अण्डे “विश्वानि “भुवनानि सर्वाणि भूतजातानि “तस्थुः तिष्ठन्ति । अथवा । अजस्य जन्मरहितस्य ब्रह्मणः स्वसृष्टे जले शयानस्य नाभौ सर्वजगद्बन्धक उदक एकं ब्रह्माण्डमर्पितं स्थापितम्। शिष्टं समानम् । अथास्मिन्नर्थे स्मृतिः - ‘ अप एव ससर्जादौ तासु वीर्यमवाकिरत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ' (मनु. १.८-९ ) इति ।
 
 
Line ११८ ⟶ १३६:
नीहारेण । प्रावृताः । जल्प्या । च । असुऽतृपः । उक्थऽशसः । चरन्ति ॥७
 
हे नराः “तं विक्षकर्माणं “न “विदाथ न जानीथ “य “इमा इमानि भूतानि “जजान उत्पादितवान्' । देवदत्तोऽहं यज्ञदत्तोऽहमिति वयमात्मानं विश्वकर्माणं जानीम इति यदुच्येत तदसत् न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वं किंतु “युष्माकम् अहंप्रत्ययगम्यानां जीवानाम् “अन्तरम् “अन्यत् अहंप्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं “बभूव भवति विद्यते । जीवरूपवत्तदपि कुतो न विद्म इति चेत् श्रूयताम् । “नीहारेण “प्रावृताः यूयं नीहारसदृशेनाज्ञानेनाच्छन्नाः। अतो न जानीथ । यथा नीहारो नात्यन्तमसन् दृष्टेरावरकत्वात नाप्यत्यन्तं सन् काष्ठपाषाणादिरूपान्तरेण संबद्धुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसदीश्वरतत्त्वावरकत्वात् नापि सत् बोधमात्रनिवर्त्यत्वात् । ईदृशेनाज्ञानेन भवन्तः सर्वे जीवा: प्रावृताः । न केवलं प्रावृतत्वं किंतु “जल्प्या “च देवोऽहं मनुष्योहमित्याद्यनृतजल्पनेन प्रावृताः । किंच “असुतृपः केनाप्युपायेन असून्प्राणांस्तृप्यन्तः । उदरंभरा इत्यर्थः । न तु पारमेश्वरं तत्त्वं विचारितवन्तः । न केवलमिहलोकभोगमात्रतृप्ताः “उक्थशासः नानाविधेषु यज्ञेषु उक्थं प्रउगनिष्केवल्यादिकं शंसन्तः “चरन्ति पृथिव्यां वर्तन्ते । केवलमैहिकामुष्मिकभोगपरा वर्तध्वेऽतो विश्वकर्माणं देवं न जानीथेत्यर्थः ॥ ॥ १७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८२" इत्यस्माद् प्रतिप्राप्तम्