"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘ यस्ते मन्यो ' इति सप्तर्चं पञ्चदशं सूक्तम् । मन्युर्नाम तपसः पुत्र ऋषिः । आद्या जगती शिष्टास्त्रिटुभः । इदमुत्तरं च मन्युदेवत्यम् । तथा चानुक्रान्तं -- यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादि ' इति । अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् । सूत्रितं च --' त्वया मन्यो यस्ते मन्यो ' (आश्व. श्रौ. ९. ७) इति ॥
 
 
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑ः पुष्यति॒ विश्व॑मानु॒षक् ।
Line ४१ ⟶ ४३:
 
सह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥१
 
१. हे मन्यो“मन्यो क्रोधाभिमानिन् देव ।' मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा (' (निरु. १०. २९) इति निरुक्तम् । यः“यः यजमानः ते“ते तुभ्यम् अविधत्“अविधत् परिचरति हे "वज्र वज्रवत्सारभूत -सायक“सायक सायकवच्छत्रूणां हिंसक स मनुप्यःमनुष्यः सहः“सहः बलं बाह्यम् ओजः“ओजः शारीरं बलं च "आनुषक् अनुषक्तं पुष्यति“पुष्यति त्वदनुग्रहात्संग्रामे । यस्मादेवं तस्माद्वयं दासम्“दासम् उपक्षयकर्तारम् आर्यम्“आर्यम् अस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम“साह्याम अभिभवेम ।अभिभवेम। केन साधनेनेति तदुच्यते । त्वया“त्वया युजा“युजा त्वया सहायेन । सहायो विशेष्यते । सहस्कृतेन“सहस्कृतेन बलोत्पादितेन सहसा“सहसा सहमानेन परान् सहस्वता“सहस्वता बलवता । ईदृशेन त्वया सहायेनेत्यर्थः ।।
 
 
Line ५४ ⟶ ५८:
 
मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सऽजोषाः ॥२
 
२.अयं अथ“मन्युरिन्द्रः मन्युरिन्द्रः“मन्युरेव मन्युरेव देवः“देवः सर्वोऽपि मन्युरेव आस“आस अभवत् । मन्युः“मन्युः एव होता“होता होमनिष्पादकोऽग्निः । तथा मन्युः वरुणः“वरुणः अपि जातवेदाः“जातवेदाः जातप्रज्ञो वरुणश्च । सर्वेष्वपि तेजस्विषु मन्युसद्भावात्।। मन्युसद्भावात् । याः“याः मानुषी“मानुषीः मनुषोऽपत्यभूताः विशः“विशः प्रजाः सन्ति ताः मन्युं“मन्युं एव देवम् ईळते“ईळते स्तुवन्ति । हे मन्यो“मन्यो तपसा“तपसा एतन्नामकेनास्मत्पित्रा सजोषाः“सजोषाः समानप्रीतिस्त्वं पाहि“पाहि रक्ष ।।
 
 
Line ६७ ⟶ ७३:
 
अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥३
 
३. हे मन्यो“मन्यो त्वम् अभीहि“अभीहि अभिगच्छास्मद्यज्ञम् । कीदृशस्त्वम् । तवसः“तवसः बलवतोऽपि तवीयान्“तवीयान् अत्यन्तं बलवान् । स त्वं तपसा“तपसा अस्मत्पित्रा युजा“युजा सहायेन शत्रून्“शत्रून् वि“वि जहि“जहि । किंच अमित्रहा“अमित्रहा अमित्राणां हन्ता । अमित्रोऽस्निग्धः । तथा वृत्रहा“वृत्रहा आवरकाणां शत्रूणां हन्ता तथा दस्युहा. “दस्युहा “च । दस्युरुपक्षपणकारी शत्रुः । तादृश मन्युदेव त्वं“त्वं विश्वा“विश्वा सर्वाणि वसूनि“वसूनि धनानि नः“नः अस्मभ्यम् “आ भर“भर आहर ।।
 
 
Line ८० ⟶ ८८:
 
विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥४
 
४. हे मन्यो“मन्यो एवम्“त्वम् अभिभूत्योजाः“अभिभूत्योजाः परेषामभिभावुकबलः स्वयम्भूः“स्वयंभूः स्वयमेवोत्पन्नः भामः“भामः क्रुद्धः अभिमातिषाहः“अभिमातिषाहः । अभितो हिंसन्तीत्यभिमातयः शत्रवः । तेषामभिभविता । विश्वचर्षणिः“विश्वचर्षणिः सर्वेषां द्रष्टा सहुरिः“सहुरिः सहनशीलः सहावान्“सहावान् सहनवान् ईदृशस्त्वम् अस्मासु“अस्मासु पृतनासु“पृतनासु संग्रामेषु ओजः“ओजः बलं धेहि“धेहि देहि ।।
 
 
Line ९३ ⟶ १०३:
 
तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलऽदेयाय । मा । आ । इहि ॥५
 
५. हे प्रचेतः“प्रचेतः प्रकृष्टज्ञान मन्यो“मन्यो तविषस्य“तविषस्य महतः तव“तव क्रत्वा“क्रत्वा कर्मणा अभागः“अभागः भागरहितः सन्“सन् । त्वां यज्ञेऽयाजकः सन्नित्यर्थः । त्वदनुकूलरहितोऽहम् अप“अप परेतोऽस्मि“परेतोऽस्मि युद्धे शत्रुभिरभिभूतः सन् दूरं गतोऽस्मि । तं“तं तादृशं भागरहितं त्वा“त्वा त्वां हे "मन्यो अक्रतुः“अक्रतुः कर्मरहितः अहं“अहं जिहीळ“जिहीळ क्रुद्धं कृतवानित्यर्थः । यद्वा अहमेव त्वत्सहायमेव क्रोधितवान् । अथेदानीं स्वा तनूः“स्वा “तनूः मम शरीरभूतस्त्वं बलदेयाय“बलदेयाय बलदानाय मेहि“मेहि मां प्राप्नुहि ।।
 
 
Line १०६ ⟶ ११८:
 
मन्यो इति । वज्रिन् । अभि । माम् । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपेः ॥६
 
६. हे सहुरे“सहुरे शत्रूणां सहनशील विश्वधायः“विश्वधायः विश्वस्य धर्तर्मन्योधर्तमन्यो अयं“अयं जनोऽहं ते“ते तव अस्मि“अस्मि कर्मकृत् । यत एवमतः प्रतीचीनः“प्रतीचीनः प्रतिगन्ता अर्वाङ्“अर्वाङ् अस्मदभिमुखं मा“मा मां उप“उप इहि“इहि उपागच्छ ।उपागच्छ। हे मन्यो“मन्यो वज्रिन्“वज्रिन् माम्“माम् अभि“अभि “आ ववृत्स्व“ववृत्स्व अभ्यावर्तस्व । किमर्थमभ्यागमनमिति चेदुच्यते । हनाव“हनाव आवां दस्यून्“दस्यून् शत्रून् ।शत्रून्। उत“उत अपि च आपेः“आपेः बन्धुं बोधि“बोधि बुध्यस्व ।।
 
 
Line ११९ ⟶ १३३:
 
जुहोमि । ते । धरुणम् । मध्वः । अग्रम् । उभौ । उपऽअंशु । प्रथमा । पिबाव ॥७
 
७. हे मन्यो अभि“अभि "प्रेहि अभिगच्छ ।अभिगच्छ। मम युद्धं गत्वा च मे“मे मम दक्षिणतो “दक्षिणतो भव“भवअध“अध अथ आवां वृत्राणि“वृत्राणि शत्रून् भूरि“भूरि प्रभूतं जङ्घनाव“जङ्नाव हनाव । ते“ते तुभ्यम् अग्रं“अग्रं श्रेष्ठं मध्वः“मध्वः मधु सोमरसं जुहोमि“जुहोमिउभौ“उभौ त्वं चाहं च उपांशु“उपांशु अप्रकाशं प्रथमा“प्रथमा प्रथमौ सन्तौ पिबाव“पिबाव ॥ ।।॥१८॥
 
}}
Line १२४ ⟶ १४०:
 
== ==
{{टिप्पणी|
[http://puranastudy.angelfire.com/pur_index2/abhimanyu.htm *१०.८३.३ द्र. अभिमन्योरुपरि टिप्पणी]
 
Line १३१ ⟶ १४८:
ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।
तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। बृहद्देवता २.५३ ।।
 
 
{{सायणभाष्यम्|
 
१. हे मन्यो क्रोधाभिमानिन् देव । मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ( निरु. १०.२९) इति निरुक्तम् । यः यजमानः ते तुभ्यम् अविधत् परिचरति हे वज्र वज्रवत्सारभूत -सायक सायकवच्छत्रूणां हिंसक स मनुप्यः सहः बलं बाह्यम् ओजः शारीरं बलं च आनुषक् अनुषक्तं पुष्यति त्वदनुग्रहात्संग्रामे । यस्मादेवं तस्माद्वयं दासम् उपक्षयकर्तारम् आर्यम् अस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम अभिभवेम । केन साधनेनेति तदुच्यते । त्वया युजा त्वया सहायेन । सहायो विशेष्यते । सहस्कृतेन बलोत्पादितेन सहसा सहमानेन परान् सहस्वता बलवता । ईदृशेन त्वया सहायेनेत्यर्थः ।।
 
२. अथ मन्युरिन्द्रः मन्युरेव देवः सर्वोऽपि मन्युरेव आस अभवत् । मन्युः एव होता होमनिष्पादकोऽग्निः । तथा मन्युः वरुणः अपि जातवेदाः जातप्रज्ञो वरुणश्च । सर्वेष्वपि तेजस्विषु मन्युसद्भावात्। याः मानुषी मनुषोऽपत्यभूताः विशः प्रजाः सन्ति ताः मन्युं एव देवम् ईळते स्तुवन्ति । हे मन्यो तपसा एतन्नामकेनास्मत्पित्रा सजोषाः समानप्रीतिस्त्वं पाहि रक्ष ।।
 
३. हे मन्यो त्वम् अभीहि अभिगच्छास्मद्यज्ञम् । कीदृशस्त्वम् । तवसः बलवतोऽपि तवीयान् अत्यन्तं बलवान् । स त्वं तपसा अस्मत्पित्रा युजा सहायेन शत्रून् वि जहि । किंच अमित्रहा अमित्राणां हन्ता । अमित्रोऽस्निग्धः । तथा वृत्रहा आवरकाणां शत्रूणां हन्ता तथा दस्युहा च । दस्युरुपक्षपणकारी शत्रुः । तादृश मन्युदेव त्वं विश्वा सर्वाणि वसूनि धनानि नः अस्मभ्यम् आ भर आहर ।।
 
४. हे मन्यो एवम् अभिभूत्योजाः परेषामभिभावुकबलः स्वयम्भूः स्वयमेवोत्पन्नः भामः क्रुद्धः अभिमातिषाहः । अभितो हिंसन्तीत्यभिमातयः शत्रवः । तेषामभिभविता । विश्वचर्षणिः सर्वेषां द्रष्टा सहुरिः सहनशीलः सहावान् सहनवान् ईदृशस्त्वम् अस्मासु पृतनासु संग्रामेषु ओजः बलं धेहि देहि ।।
 
५. हे प्रचेतः प्रकृष्टज्ञान मन्यो तविषस्य महतः तव क्रत्वा कर्मणा अभागः भागरहितः सन् । त्वां यज्ञेऽयाजकः सन्नित्यर्थः । त्वदनुकूलरहितोऽहम् अप परेतोऽस्मि युद्धे शत्रुभिरभिभूतः सन् दूरं गतोऽस्मि । तं तादृशं भागरहितं त्वा त्वां हे मन्यो अक्रतुः कर्मरहितः अहं जिहीळ क्रुद्धं कृतवानित्यर्थः । यद्वा अहमेव त्वत्सहायमेव क्रोधितवान् । अथेदानीं स्वा तनूः मम शरीरभूतस्त्वं बलदेयाय बलदानाय मेहि मां प्राप्नुहि ।।
 
६. हे सहुरे शत्रूणां सहनशील विश्वधायः विश्वस्य धर्तर्मन्यो अयं जनोऽहं ते तव अस्मि कर्मकृत् । यत एवमतः प्रतीचीनः प्रतिगन्ता अर्वाङ् अस्मदभिमुखं मा मां उप इहि उपागच्छ । हे मन्यो वज्रिन् माम् अभि आ ववृत्स्व अभ्यावर्तस्व । किमर्थमभ्यागमनमिति चेदुच्यते । हनाव आवां दस्यून् शत्रून् । उत अपि च आपेः बन्धुं बोधि बुध्यस्व ।।
 
७. हे मन्यो अभि प्रेहि अभिगच्छ । मम युद्धं गत्वा च मे मम दक्षिणतो भव । अध अथ आवां वृत्राणि शत्रून् भूरि प्रभूतं जङ्घनाव हनाव । ते तुभ्यम् अग्रं श्रेष्ठं मध्वः मधु सोमरसं जुहोमि । उभौ त्वं चाहं च उपांशु अप्रकाशं प्रथमा प्रथमौ सन्तौ पिबाव ।।
 
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्