"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
{{सायणभाष्यम्|
‘ घर्मा ' इति दशर्चं द्वितीयं सूक्तं वैश्वदेवम् । सध्रिर्नाम वैरूप ऋषिः । तपसः पुत्रो घर्मो वा । चतुर्थी जगती । शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं - ‘ घर्मा सध्रिस्तापसो वा घर्मों वैश्वदेवं चतुर्थी जगती ' इति । गतो विनियोगः ।।
 
 
घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।
Line ४६ ⟶ ४८:
 
दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥१
 
“समन्ता समन्तौ संव्याप्तदिगन्तौ घर्मा । ' घृ क्षरणदीप्त्योः' । घर्मौ दीप्यमानावग्न्यादित्यौ “त्रिवृतम् । 'त्रयो वा इमे त्रिवृतो लोकाः' ( ऐ. आ. १. १. २ ) इत्याम्नानात् । त्रैलोक्यं “व्यापतुः । स्वतेजोभिर्व्याप्तवन्तौ । “मातरिश्वा अन्तरिक्षे वर्तमानो वायुः “तयोः अग्न्यादित्ययोः “जुष्टिं प्रीतिं “जगाम गतवान् । यदा “सहसामानम् । सामशब्द उपलक्षकः । वेदत्रयतेजःसहितम् । ‘ सर्वं तेजः सामरूप्यं ह शश्वत् ' (तै. ब्रा. ३. १२.९.२ ) इत्याम्नानात् । ईदृशम् “अर्कम् अर्चनीयं सूर्यं “देवाः दीप्यमानाः स्वरश्मयः “विदुः विविदुः लेभिरे प्रापुः तदा “दिधिषाणाः लोकधारणशीलास्ते “दिवः द्युलोकस्य संबन्धि “पयः उदकम् “अवेषन् व्याप्तवन्तः । ववर्षुरित्यर्थः ॥ दिवस्पय इत्यत्र 'षष्ठ्याः पतिपुत्र ' इति सत्वम् । दिधिषाणाः । ‘धिष धारणे ' । चानश् । शपः श्लुः ।। यद्वा । ‘ धि धारणे । सनन्तस्य चानश् । 'अज्झनगमां सनि ' इति दीर्घाभावश्छान्दसः । यद्वा । समन्तौ संगतौ घर्मौ स्वयं दीप्यमानौ जीवेश्वरौ त्रिवृतं सत्त्वरजस्तमोगुणात्मिकां मायां व्यापतुः । नियन्तृनियन्तव्यभावेन मातरिश्वा परमात्मा तयोर्जुष्टिं संभोक्तव्यपदार्थैः संजातां प्रीतिं जगाम । गतवान् । तं परमात्मानं वेदमयमिमं सूर्यमिति देवा जानन्ति ॥
 
 
Line ५९ ⟶ ६३:
 
तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥२
 
“निर्ऋतीः । पृथिवीनामैतत् । अनेनेतरलोकावुपलक्ष्येते । तत्राधिष्ठिताः “तिस्रः अग्न्यादिदेवताः “देष्ट्राय हविषां प्रदानाय “उपासते। यजमाना उपासनं कुर्वते । ततः “दीर्घश्रुतः प्रभूतकीर्तयः “वह्नयः जगतः प्रापिकास्ता देवताः “वि “जानन्ति । एतैः कृतामुपासनां मन्वत एव । यद्वा ।
निर्ऋतीः । निःशेषेण ऋच्छन्ति गच्छन्तीति निर्ऋतयः । तास्तिस्रः सृष्टिस्थितिसंहृतीः देष्ट्रायात्मनः कर्मभोगदानायोपासते ते दीर्घश्रुतो दीर्घं संसारे शृण्वन्तो मन्तव्यदृश्यादिपदार्थं जानन्तः । मन्त्रदृष्ट्यादिरूपमजानन्त इत्यर्थः । अत एव वह्नयः संसारस्य वोढारस्ता न जानन्ति । “कवयः क्रान्तदर्शिनस्तु “तासां सृष्ट्यादीनामन्यादीनां वा “निदानं मूलकारणं परमात्मानं “नि “चिक्युः नितरां चिन्वन्ति जानन्ति। “परेषु उत्कृष्टेषु वा “गुह्येषु वा गोप्तव्येषु कर्मसु यमनियमादिषु “व्रतेषु “याः प्रवृत्तयः सन्ति तासां निदानं नि चिक्युः जानन्ति ॥ ‘ चिञ् चयने । लिटि ‘ विभाषाञ्चेः° " इत्यभ्यासादुत्तरस्य कवर्णादेशः । यद्वा । चायतेर्लिटि ' चायः की ' (पा. सू. ६. १. ३५) इति छन्दसि की इत्यादेशः ॥
 
 
Line ७२ ⟶ ७९:
 
तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥३
 
“चतुष्कपर्दा चतुष्कोणा "युवतिः स्त्रीरूपा “सुपेशाः शोभनालंकारा “घृतप्रतीका घृतप्रमुखहविष्का एतादृशी वेदिः “वयुनानि ज्ञातव्यानि पदार्थजातानि कर्माणि स्तोत्राणि वा “वस्ते आच्छादयति । “तस्यां वेद्यां “वृषणा वृषणौ हविषां वर्षितारौ “सुपर्णा सुपर्णौ सुपतनौ जायापती यजमानब्रह्माणौ वा “नि “षेदतुः निषण्णौ भवतः। “यत्र यस्यां वेद्यां “देवाः अग्न्यादयः “भागधेयम् । स्वार्थिको धेयप्रत्ययः । स्वस्वभागं हविः “दधिरे धारयन्ति । यद्वा। चतुष्कपर्दा नामाख्यातोपसर्गनिपाताश्चत्वारः कपर्दस्थानीय यस्याः सा युवतिस्तरुणी नित्या घृतप्रतीका दीप्यमानवर्णावयवैषौपनिषदी वाग्वयुनानि ज्ञानानि वस्ते आच्छादयति । तस्यां वाचि सुपर्णा सुपर्णौ जीवपरमात्मानौ निषण्णौ भवतः । यत्र। ' इतराभ्योऽपि दृश्यन्ते ' इति तृतीयार्थे त्रल्प्रत्ययः । यया वाचा देवा भागं धारयन्ति ।
 
 
Line ८५ ⟶ ९४:
 
तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊं इति । रेळ्हि । मातरम् ॥४
 
“एकः सर्वकार्येष्वसहायः “सुपर्णः सुपतनो मध्यमस्थानो देवः “समुद्रम् अन्तरिक्षम् “आ “विवेश आविशति । आविश्य च “स “इदं “विश्वं सर्वं “भुवनं भूतजातं “वि “चष्टे । अनुग्राह्यतयाभिपश्यति । “तम् एवंरूपं देवं “पाकेन परिपक्वेन “मनसा “अन्तितः समीपेऽहम् “अपश्यम् अदर्शम् । किंच "माता उदकानां निर्मात्री माध्यमिका वाक् तां “रेळिह आस्वादयति । उपजीवनमात्रमत्र लक्ष्यते । “स “उ स खलु “मातरं वाचं “रेळिह लेढि। तामेवोपजीवति। ‘ लिह आस्वादने । यद्वा । सुपर्णः पक्षवान्निराधारसंचार्येकः प्राणवायुः परमात्मा वा समुद्रम् । समुद्र््वन्ति आपोऽस्मादिति समुद्रमन्तरिक्षम् । यद्वा । समुद्द्रवणं सर्वतो गमनम्। तच्छीलं प्रपञ्चजातमाविष्टवान् । ‘ तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८, ६ ) इति श्रुतेः । वायुपक्षे वाय्वादिरूपेण आ विवेश । स इदं विश्वं सर्वं लोकं वि चष्टे विशेषेण ख्यापयति । सति हि प्राणे परमात्मनि वा जीवन्तः पुरुषा लोकं विख्यातं कुर्वन्ति । तं देवमुपासकोऽहं पाकेन परिपक्वज्ञानेन मनसा अन्तितः ॥ अन्तिकशब्दात्तसिः । अन्तिकस्य तसि कादिलोपो भवत्याद्युदात्तत्वं च ( पा. सू. ६. ४. १४९. ८) इति कादिलोपः ॥ अन्तिके समीपे स्वहृदयेऽपश्यम् । तं प्राणं माता वाक् रेळिह । वाक् प्राणेऽन्तर्भवतीत्यर्थः । स्वापे हि वाग्व्यापारो न दृश्यते प्राणव्यापारस्तु दृश्यत इति ॥
 
 
Line ९८ ⟶ १०९:
 
छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥५
 
“विप्राः मेधाविनः “कवयः क्रान्तप्रज्ञा मनुष्याः “सुपर्णं सुपतनम् “एकं “सन्तं परमात्मानं “वचोभिः स्तुतिलक्षणैर्वचनैः “बहुधा बहुप्रकारं कल्पयन्ति कुर्वन्ति । किंच त एव कवयः “अध्वरेषु यज्ञेषु “छन्दांसि गायत्र्यादीनि सप्त छन्दांसि “दधतः स्तोत्रशस्त्रादिना धारयन्तो द्वादशसंख्याकान् “सोमस्य “ग्रहान् ग्रहणसाधनानि पात्राण्युपांश्वन्तर्यामादीनि “मिमते निर्मिमते ॥ ग्रहान् । गृह्यत एभिरिति ग्रहाः । ‘ ग्रहवृदृनिश्चिगमश्च ' इति करणेऽप्प्रत्ययः । सोमस्येति कर्मणि षष्ठी । द्वादश इत्यत्र ‘संख्या ' (पा. सू. ६, २. ३५) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १६ ॥
 
 
Line १११ ⟶ १२४:
 
यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥६
 
पूर्वं सामान्येन यज्ञग्रहानुक्त्वेदानीं सर्वग्रहादिपूर्वको यज्ञोऽभिधीयते । “षट्त्रिंशान् । द्वावुपांश्वन्तर्यामौ । ऐन्द्रवायवादयस्त्रयो द्विदेवस्यग्रहाः । द्वौ शुक्रामन्थिनौ । आग्रयण उक्थ्यो ध्रुवश्चेति त्रयः । ऋतुग्रहा द्वादश । ऐन्द्राग्नो वैश्वदेवश्च द्वौ । त्रयो मरुत्वतीयाः । एको माहेन्द्रः । आदित्यसावित्रौ द्वौ । वैश्वदेवः पात्नीवतो हारियोजन इति त्रयो ग्रहाः । एवं षट्त्रिंशद्भवन्ति । अत्यग्निष्टोमे पूर्वे षट्त्रिंशद्ग्रहा द्वावंश्वदाभ्यौ दधिग्रहः षोडशीति चेति चत्वारः । एतांश्चत्वारिंशत्संख्याकान् ग्रहान् “कल्पयन्तः सोमेन पूरयन्तः। किंच “आद्वादशम् ॥ ‘ आङ् मर्यादाभिविध्योः' (पा. सू. २. १. १३) इत्यव्ययीभावसमासः । तस्य स्वरः ॥ द्वादशसंख्याकप्रउगादिशस्त्रसमाप्तिपर्यन्तं “छन्दांसि गायत्र्यादीनि “दधतः स्तुतशस्त्रादिरूपेण धारयन्तः “कवयो “मनीषा । तृतीयाद्या आकारः । मनीषया बुद्ध्या एवं “यज्ञं “विमाय निर्माय “रथम् । रमन्त्यत्रेति रथो यज्ञः । तं “रथं यज्ञम् “ऋक्सामाभ्यां “प्र “वर्तयन्ति प्रकर्षेण संपादयन्ति ।। चतुर इत्यत्र ‘ चतुरः शसि ' ( पा. सू. ६. १.१६७ ) इत्यन्तोदात्तत्वम् ॥
 
 
Line १२४ ⟶ १३९:
 
आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥७
 
“अस्य यज्ञरूपस्य परमात्मनः “अन्ये “चतुर्दश चतुर्दशसंख्याकाः “महिमानः विभूतयो भवन्ति । “तं यज्ञं “सप्त सप्तसंख्याकाः “धीराः धीमन्तो होत्रादयः “वाचा शस्त्ररूपया “प्र “णयन्ति प्रकर्षेण नयन्ति । “आप्नानम् ॥ ‘ आप्लृ व्याप्तौ ' । ताच्छीलिके चानशि व्यत्ययेन विकरणस्य व्यत्ययः॥ व्यापनशीलं “तीर्थं पापोत्तारणसमर्थं चात्वालोत्करमध्यदेशम् “इह अस्मिन् यज्ञे “कः “प्र “वोचत् को वक्ति । न कोऽपीत्यर्थः । “येन “पथा येन यज्ञमार्गेण “सुतस्य अभिषुतं सोमं “प्रपिबन्ते देवा अतिशयेन पिबन्ति ॥ ‘पा पाने । पाघ्रा इत्यादिना पिबादेशः । व्यत्ययेन आत्मनेपदम्। उपसर्गेण समासः । यद्योगादनिघाते ‘तिङि चोदात्तवति' इति गतेर्निघातः ॥
 
 
Line १३७ ⟶ १५४:
 
सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥८
 
“सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु “पञ्चदशानि । चक्षुः श्रोत्रं मनो वाक् प्राण इत्येतानि पञ्च। तदाधारत्वेन मातापित्रोः सकाशादागतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि मिलितानि दश । एवं पञ्चदशसंख्याकानि “उक्था उक्थान्युत्कृष्टान्यङ्गानि विद्यन्ते प्राणिदेहेषु जातेषु । “द्यावापृथिवी ॥ षष्ठीद्विवचनस्य ‘ सुपां सुलुक् । इति पूर्वसवर्णदीर्घः ॥ द्यावापृथिव्योः “यावत् यत्परिमाणमस्ति “तावदित् तत्परिमाणमेवात्माधिष्ठितं प्राणिदेहजातं भवति । यावत्तावच्छब्दयोः ‘ यत्तदेतेभ्यः परिमाणे वतुपि ' ( पा. सू.५.२.३९ ) ‘आ सर्वनाम्नः' ( पा. सू. ६.३.९१ ) इति दीर्घः ॥ किंच “सहस्रधा सहस्रसंख्याकेषु “सहस्रं “महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा भवन्ति । प्रतिविषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहारनिष्पत्तेः । सहस्रधेत्यत्र विधार्थे धाप्रत्ययः । “ब्रह्म जगत्कारणं वस्तु “यावत् नानाविधप्राणिदेहरूपेण यावत्परिमाणं भूत्वा “विष्ठितं विशेषेण स्थितं “वाक् “तावती तत्परिमाणा भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्