"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५५:
सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥८
 
“सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिस्तम्बपर्यन्तेषु देहेषु “पञ्चदशानि । चक्षुः श्रोत्रं मनो वाक् प्राण इत्येतानि पञ्च। तदाधारत्वेन मातापित्रोः सकाशादागतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि मिलितानि दश । एवं पञ्चदशसंख्याकानि “उक्था उक्थान्युत्कृष्टान्यङ्गानि विद्यन्ते प्राणिदेहेषु जातेषु । “द्यावापृथिवी ॥ षष्ठीद्विवचनस्य ‘ सुपां सुलुक् । इति पूर्वसवर्णदीर्घः ॥ द्यावापृथिव्योः “यावत् यत्परिमाणमस्ति “तावदित् तत्परिमाणमेवात्माधिष्ठितं प्राणिदेहजातं भवति । यावत्तावच्छब्दयोः ‘ यत्तदेतेभ्यः परिमाणे वतुपि ' ( पा. सू.५.२.३९ ) ‘आ सर्वनाम्नः' ( पा. सू. ६.३.९१ ) इति दीर्घः ॥ किंच “सहस्रधा सहस्रसंख्याकेषु “सहस्रं “महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा भवन्ति । प्रतिविषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहारनिष्पत्तेः । सहस्रधेत्यत्र विधार्थे धाप्रत्ययः । “ब्रह्म जगत्कारणं वस्तु “यावत् नानाविधप्राणिदेहरूपेण यावत्परिमाणं भूत्वा “विष्ठितं विशेषेण स्थितं “वाक् “तावती तत्परिमाणा भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् । अन्यत्रापि श्रूयते -- सर्वाणि रूपाणि विचिन्त्य धीरो नामानि कृत्वाभिवदन्यदास्ते '(तै. आ.३.१२.७) इति । सहस्रधा पञ्चदशान्युक्थेति पञ्च हि दशतो भवन्ति ' (ऐ. आ. १. ३. ८) इत्यादिकमारण्यकमत्रानुसंधेयम् ।।
 
 
पङ्क्तिः १६९:
 
कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥९
 
“धीरः धीमान् “कः मानुषः “छन्दसां गायत्र्यादीनां “योगं स्तुतशस्त्रात्मना नियोगम् “आ “वेद आजानाति । “कः वा “धिष्ण्यम् । धिष्ण्यानि होत्रादीनां सप्त स्थानानि । तदर्हां “वाचं “प्रति “पपाद प्रतिपादयति । करोति । किंच “ऋत्विजां होत्रादीनां सप्तानाम् “अष्टमम् अष्टसंख्यापूरकं “शूरं स्वतन्त्रं “कम् “आहुः वदन्ति । “कः “स्वित् कः खलु “इन्द्रस्य “हरी ऋक्सामरूपौ द्वावश्वौ । ‘ ऋक्सामे व इन्द्रस्य हरी' (तै. सं. ६,७,९.२ ) इत्याम्नायते । तादृशौ हरी “नि “चिकाय नितरां पूजयति । जानाति । वेदिता प्रतिपादयिताष्टसंख्यापूरकस्य देवस्य ज्ञाता वा परमात्मनोऽन्यो नास्तीत्यर्थः ।।
 
 
Line १८२ ⟶ १८४:
 
श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥१०
 
“एके केचन सप्ताश्वाः “भूम्याः पृथिव्याः । अनेन द्युलोकोऽप्युपलक्ष्यते । द्यलोकस्य च "अन्तं पर्यन्तं “परि “चरन्ति । तदानीं सर्वत आगच्छन्ति । तदा च तेऽश्वाः “रथस्य “धूर्षु युगादिभारेषु “युक्तासः युक्ताः सन्तः “अस्थुः तिष्ठन्ति । “एभ्यः अश्वेभ्यः “श्रमस्य “दायम् ॥ ‘ दो अवखण्डने । घञ् ।' कर्षात्वतः०' इत्यन्तोदात्तत्वम् ॥ श्रमस्य नाशकं घासादिकं “वि “भजन्ति देवाः प्रयच्छन्ति । “यदा यस्मिन् काले “यमः नियन्ता सूर्यः '“हर्येति हर्य् स्थानीये रथे “हितः निहितः भवति । तदैते भजन्तीत्यर्थः ॥ ॥ १७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्