"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
 
{{सायणभाष्यम्|
न वा ' इति नवर्चं पञ्चमं सूक्तम् । भिक्षुर्नामाङ्गिरस ऋषिः । प्रथमाद्वितीये जगत्यौ शिष्टाः सप्त त्रिष्टुभः । अत्र धनस्यान्नस्य च दानं स्तूयते । अतस्तद्दैवत्यमिदम् । तथा चानुक्रान्तं -- न वा उ भिक्षुर्धनान्नदानप्रशंसाद्ये जगत्यौ ' इति । गतो विनियोगः ॥
 
 
न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ ।
 
उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥१
 
भिक्षुः प्रथमं व्यतिरेकमुखेनान्नदानं प्रशंसति । “देवाः “वै देवाः खलु सर्वेषां “क्षुधं “न “ददुः न प्रायच्छन् । किंतु “वधम् “इत् वधमेव दत्तवन्तः । एतादृशीं वधरूपां क्षुधमन्नदानेन यः शमयति स दाता खलु। उ इति पूरणः । योऽदत्त्वा भुङ्क्ते तम् “आशितं भुञ्जानं पुरुषमपि “मृत्यवः मरणानि “उप “गच्छन्ति समीपे यान्ति ॥ ‘ आशितः कर्ता ' (पा. सू. ६. १. २०७ ) इत्याद्युदात्तत्वम् ॥ क्षुधार्त्तानां भोक्तॄणां च मरणं समानम् । किं दानेन धननाशरूपेण । अत आह । “उतो । उतशब्दोऽप्यर्थे। “पृणतः प्रयच्छतः पुरुषस्य “रयिः धनं “नोप “दस्यति नोपक्षीयते । ‘ दसु उपक्षये । दैवादिकः । ‘ पृण दाने'। तौदादिकः । तस्य शत्रन्तस्य ‘ शतुरनुमो नद्यजादी इति विभक्तेराद्युदात्तत्वम् ॥ दानप्रसङ्गेनादातारं दूषयति । “अपृणन् अप्रयच्छन् पुरुषस्तु “मर्डितारम् आत्मनः सुखयितारं “न “विन्दते । न कुत्रापि लभते । इह बन्धवोऽप्रदानान्न सुखयन्ति देवा अपि हविष्प्रदानाभावात् ॥
 
 
 
स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते ॥२
 
“यः पुरुषः स्वयम् “अन्नवान् “सन् अपि “आध्राय । अधार्यतेऽसावित्याध्रो दुर्बलः । तस्मै “पित्वः पितूनन्नानि “चकमानाय कामयमानाय । चकमानः कान्तिकर्मा । “रफिताय । रफतिर्हिंसार्थः । दारिद्र्येण हिंसिताय “उपजग्मुषे गृहं प्रत्यागताय अतिथये “मनः आत्मीयमन्तःकरणम् अदाने “स्थिरं “कृणुते कुरुते । मनःस्थैर्थकरणेन तं क्लेशयतीत्यर्थः ॥ कृणुते । कृवि हिंसाकरणयोः'। धिन्विकृण्व्योरच्च' इत्युप्रत्ययः । करोतेर्वा व्यत्ययेन श्नुः । ‘ विकरणस्वरः सतिशिष्टोऽपि लसार्वधातुकस्वरं न बाधते ' (पा. म. ६. १. १५८, ११ ) इति लसार्वधातुकस्वरः । न केवलं क्लेशकरणम् अपि तु “पुरा तस्य पुरस्तादेव “सेवते भोगान् । “सः अपि “मर्डितारम् आत्मनः सुखयितारं “न “विन्दते । न कुत्रापि लभते ॥
 
 
 
अरम् । अस्मै । भवति । यामऽहूतौ । उत । अपरीषु । कृणुते । सखायम् ॥३
 
अन्वयमुखेन प्रशंसति । “स “इत् स एव “भोजः दाता खलु “यो “गृहवे ॥ ग्रहेर्मृगय्वादित्वात् कुप्रत्ययः ( उ. सू. १. ३८)॥ प्रतिग्रहीत्रे “अन्नकामाय अन्नं याचमानाय “चरते गृहमागतवते “कृशाय दारिद्र्येण एतादृशायातिथयेऽन्नं “ददाति प्रयच्छति ॥ ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ "यामहूतौ । यामा गन्तारो देवाः ॥ अत्र थातेः “ अर्तिस्तुसुहुसृ' ( उ. सू. १. १३९) इत्यादिना मन्प्रत्ययः ॥ त आहूयन्तेऽत्रेति यामहूतिर्यज्ञः । तस्मिन् “अस्मै दात्रे फलम् “अरम् अलं पर्याप्तं “भवति । कामप्रदानं भवतीत्यर्थः । “उत अपि च "अपरीषु ॥ ‘ केवलमामक° (पा. सू. ४.१.३०) इति ङीप् ॥ अन्यासु शात्रवीषु सेनासु “सखायं “कृणुते । तद्वदाचरतीत्यर्थः। तस्य सर्वे सखाय एव न शत्रव इत्यर्थः ॥
 
 
 
अप । अस्मात् । प्र । इयात् । न । तत् । ओकः । अस्ति । पृणन्तम् । अन्यम् । अरणम् । चित् । इच्छेत् ॥४
 
व्यतिरेकेण निन्दामाह । “सः पुरुषः “सखा “न भवति “यः पुरुषः “सचाभुवे सर्वदा सहभवनशीलाय “सचमानाय सेवमानायोपसर्जनीभूताय “सख्ये सखिजनाय “पित्वः पितूनन्नानि “न “ददाति न प्रयच्छति । स सुहृन्न भवतीत्यर्थः । “अस्मात् अदातुः सख्युः सः “अप “प्रेयात् अपगच्छेत् । यद्येनं परित्यज्य गच्छेत् ॥ ‘ इण् गतौ । लिङि यासुट् ॥ तर्हि “तदोकः निवासः सदनं “न “अस्ति न भवति । सदनं हि बन्धुभिः परिवृतम् । स गतः पुरुषः “पृणन्तम् अन्नादिकं प्रयच्छन्तम् “अन्यमरणं “चित् अर्यं स्वामिनमेव “इच्छेत् कामयेत ॥
 
 
 
ओ इति । हि । वर्तन्ते । रथ्याऽइव । चक्रा । अन्यम्ऽअन्यम् । उप । तिष्ठन्त । रायः ॥५
 
धनवन्तं पुरुषं दाने प्रेरयति । “तव्यान् तवीयान् धनैरतिशयेन प्रवृद्धः पुरुषः “नाधमानाय याचमानायातिथये “पृणीयादित् धनानि दद्यादेव ॥ ‘ पॄ पालनपूरणयोः ' । क्र्यादिः । प्वादीनां ह्रस्वः ॥ यदि दद्यात् "द्राघीयांसम् । दीर्घशब्दादीयसुनि ' प्रियस्थिर ' इत्यादिना द्राघीत्यादेशः॥ दीर्घतमं “पन्थां पन्थानं सुकृतमार्गम् “अनु “पश्येत अनुपश्येत् । व्यत्ययेनात्मनेपदम्। तत्र कारणमाह। “रायः धनानि “ओ “हि। आ उ। आ “वर्तन्ते एव खलु। एकत्र न तिष्ठन्तीत्यर्थः । तत्र दृष्टान्तः । “रथ्येव यथा रथ्यानि ॥ ‘ रथाद्यत् ' ( पा. सू. ४. ३. १२१ ) इति तस्येदम्' इत्यर्थे यत् ॥ रथसंबन्धीनि “चक्रा चक्राण्युपर्यधोभावेनावर्तन्ते तद्वदावृत्तिमेव दर्शयति । “अन्यमन्यं पुरुषं धनानि “उप “तिष्ठन्त उपतिष्ठन्ते । समवेतानि भवन्ति । उपाद्देवपूजासंगतिकरण ' (का. १. ३. २५. १) इत्यात्मनेपदम् ॥ तस्माद्धनानि देयानीति भावः ॥ ॥ २२ ॥
 
 
 
न । अर्यमणम् । पुष्यति । नो इति । सखायम् । केवलऽअघः । भवति । केवलऽआदी ॥६
 
अदातारं दूषयति । “अप्रचेताः अप्रकृष्टज्ञानः दाने चेतो मनो यस्य न भवति “सः “मोघं व्यर्थमेव “अन्नं “विन्दते लभते ॥ ‘ विद्लृ लाभे' । तौदादिकः । ‘शे मुचादीनाम्' इति नुमागमः ॥ इदं “सत्यं यथार्थमेवेति “ब्रवीमि । ऋषिरहं वदामि । न केवलं व्यर्थं किंतु “तस्य पुरुषस्य “सः “वध “इत् वध एवान्नं परामृशतः ॥ तच्छब्दस्य वधसामानाधिकरण्यात् पुँल्लिङ्गता । यथा “ णेरणौ° ( पा. सू. १. ३. ६७ ) इत्यत्र यत् कर्म स एव कर्तेति ॥ अथवा स निरर्थको वध एव यः पुरुषः “अर्यमणम् । उपलक्षणमिदम् । सर्वान् देवानर्यमादीन् “न “पुष्यति हविष्प्रदानेन न पोषयति “नो नापि “सखायं समानख्यानमभ्यागतमतिथिं मित्रवर्गं च न पोषयति ॥ ‘ पुष पुष्टौ ' । दैवादिकः । यच्छब्दाध्याहारादनिघातः ॥ अत एव “केवलादी ।। अदेः सुप्यजातौ' (पा. सू. ३. २. ७८) इति णिनिः । अत उपधालक्षणा वृद्धिः ।। केवलमसाक्षिकमन्नं भुञ्जानः सः “केवलाघो “भवति । केवलपापवान् भवति । अघमेव केवलं तस्य शिष्यते । नैहिकं नामुष्मिकमिति । तस्माद्यथाकथंचिद्दातव्यमित्यभिप्रायः ।।
 
 
 
वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात् ॥७
 
“कृषन् कृर्षि कुर्वन् “फालः “आशितं कर्षकं भोक्तारं “कृणोति करोति । तथा “अध्वानं मार्गं “यन् ।। इणः शतरि नुमागमः । गच्छन् पुरुषः “चरित्रैः आत्मीयैर्गमनैः “अप “वृङ्क्ते । स्वामिनो धनमावर्जयति ।। वृजी वर्जने' । आदादिकः । अनुदात्तेत् ॥ “वदन् शास्त्रार्थं ब्रुवाणः “ब्रह्मा ब्राह्मणः “अवदतः शास्त्रार्थमब्रुवाणाज्जनात् "वनीयान् संभक्तृतमः प्रियकरो भवति ।। वनतेस्तृजन्तस्येयसुनि “ तुरिष्ठेमेयःसु ' इति तृचो लोपः । ते यथा स्वकर्मणि प्रवर्तमानाः परेषामुपकारकाः तथा “पृणन् दाता पुरुषः “अपृणन्तम् अदातारं जनम् “अभि अभिलक्ष्य “आपिः “स्यात् बन्धुर्भवेत् ॥
 
 
 
चतुःऽपात् । एति । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तीः । उपऽतिष्ठमानः ॥८
 
अत्र पादशब्दो भागवचनः । “एकपात् एकभागधनः पुरुषः “द्विपदः द्विगुणधनस्य मार्गं “भूयः । तृतीयायाः सुः । भूयसा कालेन “वि “चक्रमे विविधं गच्छति ।। वेः पादविहरणे' (पा. सू. १. ३. ४१ ) इत्यात्मनेपदम् ।। तथा “द्विपात् पुरुषः “त्रिपादं त्रिभागधनं पुरुषं “पश्चात् “अभ्येति अभिगच्छति । “चतुष्पात् चतुर्भागधनस्तु “द्विपदाम् । बहुवचनादेकपादादय उपलक्ष्यन्ते । एकपादधनादीनां “पङ्क्तीः “अभिस्वरे अभिगमने “संपश्यन् सम्यगीक्षमाणः सन् “उपतिष्ठमानः “एति गच्छमानो भवति । अन्योन्यापेक्षया सर्वं उत्तमाधमाः । तस्मात्त्वम् अहमेव धनवानिति न मन्येः किंत्वतिथिभ्यो धनानि ददस्वेत्यर्थः ।।
 
 
 
यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः ॥९
 
अतिथिभ्यो धनमप्रयच्छन्नपि मम भ्राता दास्यतीति चेत् तत्र हेतुमाह। “समौ “चिद्धस्तौ समावपि “समं समानं “न “विविष्टः कार्यं न व्याप्नुतः ।। ‘ विष्लृ व्याप्तौ ' । जौहोत्यादिकः । संज्ञापूर्वकस्य विधेरनित्यत्वादभ्यासस्य गुणाभावः ।। तथा “संमातरा वत्सस्य मातरौ धेनू समे अपि “समं समानं पयः “न “दुहाते । 'यमयोश्चित् सहजातयोः पुत्रयोरपि “समा समानि “वीयाँणि ”न सन्ति । तस्मात् “ज्ञाती “चित् एकस्मिन् कुले “सन्तौ जातावपि “समं “न “पृणीतः न प्रयच्छतः। तस्माद्यस्य धनमस्ति स एव दद्यादित्यर्थः ।।।। २३ ।।
 
}}
३३,१२६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/202964" इत्यस्माद् प्रतिप्राप्तम्