"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
' यो यज्ञः ' इति सप्तर्चं द्वितीयं सूक्तं प्रजापतिपुत्रस्य यज्ञाख्यस्यार्षम् । आद्या जगती शिष्टास्त्रिष्टुभः । अत्रापि यज्ञादीनां केषांचिद्भावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः सैव देवता । तत्कर्ता प्रजापतिरेव देवता । तथा चानुक्रान्तं -' यो यज्ञो यज्ञः प्राजापत्यो
जगत्याद्या ' इति । गतो विनियोगः ।।
 
 
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।
Line ४० ⟶ ४३:
 
इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥१
 
“तन्तुभिः तनितृभिर्विस्तारयितृभिर्वियदादिभूतैः “यः सर्गात्मकः “यज्ञः “विश्वतः सर्वतः “ततः विस्तृतः । तथा “एकशतम् । एकं च शतं चैकशतम् । ' संख्या ' इति पूर्वपदप्रकृतिस्वरत्वम् । एकोत्तरशतमित्यर्थः । ब्रह्मा येषु शतसंख्येषु आत्मीयसंवत्सरेषु जीवति तदभिप्रायेणात्र शतसंख्या । जीवता तेन प्रजापतिना सार्धमेकशतमित्युच्यते । यथा ' शतायुर्वै पुरुषः शतवीर्यं आत्मैकशतः ' ( तै. ब्रा. १ .७. ६४) इति । अत्यन्तसंयोगे द्वितीया । ब्रह्मणः शतसंवत्सरपर्यन्तं “देवकर्मेभिः देवानुद्दिश्य भोक्तृभिः कृतैः कर्मभिः “आयतः दीर्घीभूतः । तावत्कालावस्थायी । एवमायामविस्तारवान् यः उक्तः सर्गात्मको यक्षस्तं यज्ञम् “इमे “पितरः पालकाः प्रजापतेः प्राणभूता विश्वसृजो देवाः “वयन्ति निर्मिमते । “ये देवाः “आययुः स्रष्टव्यं सर्वं जगत् सर्जनेन व्यापुः । अपि च “प्र “वयाप “वयेति । प्रवाणं नाम प्रकृष्टस्य चेतनस्य भोक्तृप्रपञ्चस्य सर्जनम् । अपवानं नाम अपकृष्टस्य निकृष्टस्य अचेतनस्य भोग्यप्रपञ्चस्य सर्जनम् । ' वेञ् तन्तुसंताने ' । ' समुच्चयेऽन्यतरस्याम् ' ( पा. सू ३.४. ३) इति लोट् । तस्य ' लोटो हिस्वौ' ' इत्यनुवृत्तेर्हिरादेशः । शब्गुणायादेशाः । ' अतो हेः ' इति लुक् । प्र वयाप वयेति वयन्तः प्रवाणमपवानं च कुर्वन्त इत्यर्थः । एवंभूताः सन्तस्ते विश्वसृजः “तते विस्तृते सत्यलोके “आसते प्राणरूपेण प्रजापतिमुपासते । यद्वा ज्योतिष्टोमादिर्यज्ञ एवंरूपकत्वेन पटात्मना वर्ण्यते । यो यज्ञो ज्योतिष्टोमादिस्तन्तुभिः तन्तुस्थानीयैः अग्निष्टोमात्यग्निष्टोमादिसंस्थाभेदैः
सप्तभिश्छन्दोभिर्वा विश्वतः सर्वतस्ततो विस्तृतः ।' तथैकशतम् । तृतीयार्थे प्रथमा । एकाधिकेनाग्निचयनेन युक्तैः देवकर्मेभिः' गवामयनप्रभृतिकैः विश्वसृजामयनान्तैः एकाहादिसत्रात्मकैर्वा आयतो दीर्घीभूत् एवमायामविस्तारवान् यज्ञात्मकोऽयं पटः प्रजापतिना सृष्टः । तं पटं पितरोऽस्माकं पितृभूता इमेऽङ्गिरसो वयन्ति । तस्य पटस्य प्राचीनतन्तुस्थानीयानि स्तुतशस्त्राणि प्र वय त्वं कुरु अप वय तिरश्चीनतन्तुस्थानीयानि यजूंषि त्वं कुरु इत्येवं परस्परं नियुञ्जाना आसते नियुञ्जन्ति।।
एवं विरुतस्य यज्ञस्य प्रजापतेः सकाशादुत्पत्तिरुत्तरया प्रतिपाद्यते ।।
 
 
Line ५३ ⟶ ६०:
 
इमे । मयूखाः । उप । सेदुः । ऊं इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥२
 
“पुमान् पुरुष आदिपुरुषः प्रजापतिः “एनं यज्ञं “तनुते विस्तारयति । सृष्टवानित्यर्थः । तथा च ब्राह्मणं - ' स प्रजापतिर्यज्ञमतनुत तमाहरत्तेनायजत ' ( ऐ. ब्रा. ५.३.२) इति ' प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् ' ( ऐ- ब्रा. ७-१९) इति च । स एव पुमान् सृष्टं तं यज्ञम् “उत्कृणत्ति उद्वेष्टयति । ' कृती वेष्टने ' । रौधादिकः । रा एव “पुमान् प्रजापतिः “अस्मिन् भूलोके “नाके । अकं दुःखं नास्त्यस्मिन्निति नाकः स्वर्गलोकः । ' नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । तत्र च “वि “तत्ने इमं यज्ञं विस्तारयति । अधिः सप्तम्यर्थानुवादी । तनोतेर्लिटि ' तनिपत्योश्छन्दसि ' इत्युपधालोपः । तस्य स्थानिवद्भावात् द्विर्वचनम् । “मयूखाः रश्मिभूतास्तस्य प्रजापतेः प्राणात्मकाः “इमे विश्वसृजो देवाः “सदः सदनं देवयजनस्थानम् “उप “सेदुः । विश्वसर्जनहेतुभूतं विश्वसृजामयनाख्यं यज्ञं कर्तुमुपसीदन्ति । उपसद्य च “सामानि रथन्तरादीनि “ओतवे वयनाय यज्ञाख्यं वस्त्रमोतुं “तसराणि तिर्यक्सराणि तिरश्चीनसूत्राणि “चक्रुः ।।
 
 
Line ६६ ⟶ ७५:
 
छन्दः । किम् । आसीत् । प्रउगम् । किम् । उक्थम् । यत् । देवाः । देवम् । अयजन्त । विश्वे ॥३
 
विश्वसर्जनोपायत्वेन प्रजापतिना सृष्टे यज्ञे विश्वस्य स्रष्टारो विश्वसृजो देवा विश्वसर्जनाय तं यज्ञमन्वतिष्ठन् । तस्मिन् समये जगतोऽनुत्पत्तेर्जगदन्त:पातिनो यागोपकरणभूताः पदार्थाः कथमासन्नित्यनया प्रश्नः क्रियते । “यत् यदा “विश्वे सर्वे साध्याः “देवाः “देवं प्रजापतिम् “अयजन्तु तदानीं तस्य यज्ञस्य “प्रमा प्रमाणम् इयत्ता “का कथंभूता “आसीत् । तथा “प्रतिमा । हविष्प्रतियोगित्वेन मीयते निर्मीयत इति प्रतिमा देवता । सा च तस्य यज्ञस्य कासीत् । तथा “निदानम् आदिकारणं यागेऽप्रवृत्तस्य प्रवर्तकं फलं “किम् आसीत् । तथा “आज्यं घृतमेतदुपलक्षितं हविर्वा तस्य यज्ञस्य “किमासीत् । तथा “परिधिः । परितो धीयन्त इति त्रयः परिधयो बाहुमात्राः पलाशादिवृक्षजन्याः । परिपूर्वात् दधातेः उपसर्गे धोः किः' ( पा. सू. ३, ३.९२) इति कित्ययः । सामान्यापेक्षमेकवचनम् । परिधयः क आसन्नित्यर्थः । तथा तस्य यज्ञस्य गायत्र्यादिकं “छन्दः “किमासीत् । तथा “प्रउगम् “उक्थम् । उपलक्षणमेतत् ! आज्यप्रउगादीन्युक्थानि शस्त्राणि वा कान्यासन् । एतेषु प्रश्नेषु त्रयाणामुत्तरं द्वृचेनाह ॥
 
 
Line ७९ ⟶ ९०:
 
अनुऽस्तुभा । सोमः । उक्थैः । महस्वान् । बृहस्पतेः । बृहती । वाचम् । आवत् ॥४
 
“सयुग्वा सहयुक्ता “अग्नेः सहायभूता “गायत्र्यभवत् । यष्टव्यात् प्रजापतेर्मुखादजायत । देवतासु मध्येऽग्निः छन्दःसु गायत्री च उभावप्यजायेतामित्यर्थः । तथा च तैत्तिरीयकं - ‘ प्रजापतिरकामयत प्र जायेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्वसृज्यत गायत्री छन्दः ( तै. सं. ७. १. १. ४ ) इति । “उष्णिहया उष्णिक्छन्दसा सह “सविता देवः “सं “बभूव तस्मात् प्रजापते र्जज्ञे । ‘ टापं चापि हलन्तानाम् इति वचनादुष्णिहशब्दात टाप् । तथा “महस्वान् तेजस्वी “सोमः “उक्थैः स्तुतशस्रैःाप “अनुष्टुभा अनुष्टुप्छन्दसा च सार्धं तस्मादेव प्रजापतेरजायत । तथा “बृहस्पतेः देवस्य “वाचं वाक्यं “बृहती छन्दः “आवत् अरक्षत् अच्छद्वा । बृहत्या सार्धं बृहस्पतिरपि तस्मात् प्रजापतेर्जज्ञ इत्यर्थः ॥
 
 
Line ९२ ⟶ १०५:
 
विश्वान् । देवान् । जगती । आ । विवेश । तेन । चाकॢप्रे । ऋषयः । मनुष्याः ॥५
 
अपि च “मित्रावरुणयोः देवयोः “विराट् छन्दः “अभिश्रीः अभिश्रिता आश्रितासीत् । विराजा सह मित्रावरुणावपि प्रजापतेः सकाशादजायेतामित्यर्थः । “इह अस्मिन् यज्ञे “अह्नः सवनत्रयरूपस्य “भागः मध्यंदिनसवनाख्यः अंशः “त्रिष्टुप् छन्दश्च इन्द्रस्य अभिश्रयणीयौ आस्ताम् । ताविन्द्रश्च प्रजापतेः सकाशादजायन्तेत्यर्थः । तथा च तैत्तिरीयकम् -- उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो बृहत्साम ' ( तै. सं. ७,१.१.४ ) इति । तथा “विश्वान् सर्वान् “देवान् “जगती छन्दः “आ “विवेश प्रविष्टवती । विश्वे देवा जगती व प्रजापतेरजायन्तेत्यर्थः । तथा च तैत्तिरीयकं -- तं विश्वे देवा देवता अन्वसृज्यन्त जगती छन्दो वैरूपं साम ' ( तै. सं. ७. १. १, ५) इति । उक्तेन प्रकारेण प्रतिमा कासीत् छन्दः किमासीत् प्रउगं किमुक्थमिति त्रयाणामुत्तरं जातम् । आज्यं किमासीत् परिधिः क आसीदित्यनयोरुत्तरं पुरुषसूक्ते द्रष्टव्यम् । तत्र इहेवमाम्नायते---- देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः' ‘ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ' ( क्र. सं. १०, ९०, ६; १५ ) इति । अयमर्थः । सर्वरसोत्पादको वसन्तः तस्य जगत्सर्जनसाधनस्य यज्ञस्याज्यमासीत् । आज्यदध्यादिभी रसैः सार्धं तादृशो वसन्तोऽजायतेत्यर्थः । सर्वरसानां शोषको ग्रीष्म ऋतुरिध्म आसीत् । शुष्कैः काष्ठैः सार्धं ग्रीष्मोऽजायतेत्यर्थः । पच्यमानव्रीहियुक्तः शरदृतुस्तस्य यज्ञस्य हविरासीत् । सप्त छन्दांसि त्रिः सप्तैकविंशतिधा भूत्वा अष्टादश समिधस्त्रयः परिधयश्चासन् । कासीत् प्रमा प्रतिमा किं निदानमित्यनयोरपि प्रश्नयोरप्येवमुत्तरं ‘ पूर्वे विश्वसृजोऽमृताः शतं वर्षसहस्राणि दीक्षिताः सत्रमासत ' इति ‘ एतेन वै विश्वसृज इदं विश्वमसृजन्त ' ( तै, ब्रा. ३. १२. ९. २; ८) इति च तैत्तिरीयके समाम्नायते । अतस्तस्य यज्ञस्य सहस्रसंवत्सरपरिमितः कालः प्रमाणम् । विश्वस्य जगतः सर्जनमादिकारणं प्रवर्तकं फलमित्यर्थः । एतदुक्तं भवति । यदा विश्वसृजो देवा देवं प्रजापतिं विश्वसृजामयनाख्येन यागेनायजन् तदोक्ताः सर्वयागोपकरणाः प्रजापतेः सकाशादजायन्तेति । यतोऽग्न्यादिदेवताभिः सह गायत्र्यादीनि सप्त छन्दांसि जातानि अतो हेतोस्तेषां छन्दसामग्न्यादयो देवता इति । छन्दोविचितौ सूत्रितं च -- अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वे देवा देवताः । (पि. सू. ३.६३ ) इति । एवं प्राजापत्यो यज्ञोऽनुष्ठितः । “तेन यज्ञेन “ऋषयः “मनुष्याः च “चाक्लृप्रे चक्लृपिरे । क्लृप्ताः सृष्टा आसन् ॥ कृपेः कर्मणि लिटि • इरयोः० ' इति रेआदेशः । ‘ कृपो रो लः ' ( पा. सू.८.२.१८) इति लत्वम् । तुजादित्वात् अभ्यासदीर्घः । तेनैव यज्ञेन सर्वं जगदसृजन्नित्यर्थः ॥
 
 
Line १०५ ⟶ १२०:
 
पश्यन् । मन्ये । मनसा । चक्षसा । तान् । ये । इमम् । यज्ञम् । अयजन्त । पूर्वे ॥६
 
“पुराणे चिरंतने अस्मिन् “यज्ञे “जाते विश्वसृड्भिर्देवैः सम्यगनुष्ठिते सति “तेन यज्ञेन “ऋषयो “मनुष्याः “नः अस्माकं “पितरः पूर्वपुरुषाश्च “चाक्लृप्रे अकल्प्यन्त । असृज्यन्त । “इमम् ईदृशं “यज्ञं “ये “पूर्वे साध्या देवाः प्रजापतेः प्राणभूताः “अयजन्त अन्वतिष्ठन् “तान् देवान् प्राणात्मना सर्वत्र वर्तमानान् “चक्षसा दर्शनहेतुना “मनसा “पश्यन् जानन् “मन्ये । तानेव विश्वस्रष्टॄन् देवान् स्तौमि । मन्यतिरर्चतिकर्मा ।।
 
 
Line ११९ ⟶ १३६:
पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥७
 
स्तोमैः त्रिवृत्पञ्चदशादिभिः सह वर्तमानाः “सहस्तोमाः “सहछन्दसः गायत्र्यादिभिः छन्दोभिः सह वर्तमानाः “आवृतः आवर्तमानाः “सहप्रमाः । प्रमितिः प्रमा यज्ञस्येद्यत्तापरिज्ञानम् । तेन सह वर्तमानाः “दैब्याः देवस्य प्रजापतेः संबन्धिनः यद्वा देवानां यष्टव्यानां संबन्धिनः “ऋषयः द्रष्टारः सप्तसंख्याकाः शीर्षण्याः । यद्वा । मरीचिप्रमुखाः सप्तर्षयो होत्रादयः सप्त वषट्कर्तारो वा । एवंविधा एते “पूर्वेषां पूर्वपुरुषाणामङ्गिरःप्रभृतीनां विश्वसृजां देवानां वा “पन्थां पन्थानमनुष्ठानमार्गम् “अनुदृश्य क्रमेण ज्ञात्वा “धीराः धीमन्तः सन्तः “अन्वालेभिरे अनुक्रमेण आरब्धवन्तः । यागानुष्ठाने प्रवृत्ता इत्यर्थः । “रथ्यो “न यथा रथिनो रथेन युक्ता रथस्य नेतारः सूताः “रश्मीन् अश्वनियोजनार्थान् प्रग्रहान् सम्यग्रथस्य नयनाय हस्तेनान्वारभन्ते । अन्वारभ्य च सम्यक् तं रथं प्रवर्तयन्ति एवमेतेऽप्यनुष्ठानमार्गं श्रुतितोऽवगम्य सम्यगन्वतिष्ठन्नित्यर्थः ।। ।।३ ८।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्