"ऋग्वेदः सूक्तं १०.१३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
' ईजानम् ' इति सप्तर्चं चतुर्थं सूक्तं नृमेधपुत्रस्य शकपूतस्यार्षं मित्रावरुणदेवताकम् । आद्या तु लिङ्गोक्तद्युभूम्यश्विदेवताका न्यङ्कुसारिणी द्वितीयद्वादशकत्र्यष्टकवती । द्वितीयाषष्ठ्यौ प्रस्तारपङ्क्ती द्विद्वादशकद्व्यष्टकवती । सप्तमी महासतोबृहती त्र्यष्टकद्विद्वादशकवती । शिष्टास्तिस्रो विराड्रूपा एकादशिनस्त्रयोऽष्टकश्चेति लक्षणलक्षिताः । तथा चानुक्रान्तम् -' ईजानं शकपूतो नार्मेधो मैत्रावरुणं न्यङ्कुसारिण्याद्या लिङ्गोक्तदेवतान्त्या महासतोबृहत्युपाद्योपान्त्ये प्रस्तारपङ्क्ती शेषा विराड्रूपाः ' हति । गतो विनियोगः ।।
 
 
ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ ।
Line ३९ ⟶ ४१:
 
ईजानम् । देवौ । अश्विनौ । अभि । सुम्नैः । अवर्धताम् ॥१
 
“गूर्तवसुः । गूर्तमुद्यतं स्तोतृभ्यो दानाय हस्ते धृतं वसु धनं यस्याः सा तथोक्ता ।। 'गुरी उद्यमने ' । निष्ठा । ' श्वीदितो निष्ठायाम् ' इतीट्प्रतिषेधः । ' नसत्तनिषत्त० ' इत्यादिना निपातनान्निष्ठानत्वाभावः । ' अंन्येषामपि० इति सांहितिको दीर्घः । बहुव्रीहौ पूर्वंपदप्रकृतिस्वरत्वम् ।। ईदृशी “द्यौः द्युलोकाभिमानिनी देवता “ईजानम् “इत् यज्ञैः इष्टवन्तमेव पुरुषमभिवर्धयति । यजेलिटः कानच् । ' वचिस्वपि' इति संप्रसारणे द्विर्वचनम् । तथा “भूमिः च “प्रभूषणि प्रभवने यद्वा प्रकृष्टभूषणे अलंकारे निमित्तभूते सति “ईजानम् अभिवर्धयति । अपि च “देवौ दानादिगुणणयुक्तौ “अश्विनौ “ईजानम् इष्टवन्तं पुरुषं “सुम्नैः धनैः “अभि “अवर्धताम् अभिवर्धयतः । वृधेरन्तर्भावितण्यर्थात् छान्दसो लङ् ।।
 
 
Line ५२ ⟶ ५६:
 
युवोः । क्राणाय । सख्यैः । अभि । स्याम । रक्षसः ॥२
 
हे “मित्रावरुणा मित्रावरुणौ “धारयत्क्षिती ध्रियमाणभूमिकौ । यद्वा क्षितिरिति मनुहयनाम । हवींषि धारयन्तः क्षितयो मनुष्या ययोः स्वभूतास्तथाविधौ । “सुषुम्ना सुषुम्नौ सुधनौ सुसुखौ वा “ता तौ “वां युवाम् “इषितत्वता इषितत्वेन । तृतीयैकवचने छान्दसस्तकारोपजनः । यद्वा । भावप्रत्ययान्तात् पुनरपि भावप्रत्ययो विकरणद्वयवत् । इषितव्यत्वेन प्राप्तव्यत्वेन । हेतौ तृतीया । यतो युवां देवेषु मध्ये प्राप्तव्यौ ततो हेतोः “यजामसि हविर्भिर्यजामः । इदन्तो मसि' इति मस इकारागमः । एवं च “युवोः युवयोः “सख्यैः सखित्वैः । सख्युर्यः । “क्राणाय कुर्वते यजमानाय । करोतेः शानचि छान्दसो विकरणस्य लुक् । तादर्थ्ये चतुर्थी । यजमानार्थं “रक्षसः यज्ञस्य बाधकान् राक्षसान् “अभि “ष्याम अभिभवेम । ' उपसर्गप्रादुर्भ्याम् (पा. सू. ८. ३. ८७ ) इत्यस्तेः सकारस्य षत्वम् ॥
 
 
Line ६५ ⟶ ७१:
 
दद्वान् । वा । यत् । पुष्यति । रेक्णः । सम् । ऊं इति । आरन् । नकिः । अस्य । मघानि ॥३
 
हे मित्रावरुणौ “वां युवाभ्यां युवयोरर्थं “यत् यदा “दिधिषामहे हवींषि धारयामः । यद्वा । ‘ धिष शब्दे । वां युवां स्तुमहे । “अधा “चित् अनन्तरमेव “नु क्षिप्रं “प्रियम् अभीष्टं “रेक्णः । धननामैतत् । धनम् “अभि “पत्यमानाः अभिपतन्तोऽभिप्राप्नुवन्तो भवामः । “दद्वान् ददिवान् । ददातेर्लिटः क्वसुः । छन्दस्युभयथा ' इति वसोः सार्वधातुकत्वात् श्नाभ्यस्तयोरातः' इत्याकारलोपः। अत एवेडभावश्च । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम्। ‘ आतोऽटि नित्यम् ' । इति सानुनासिक आकारः । वाशब्दश्चार्थे । हवींषि दत्तवांश्च “यत् यो यजमानः “रेक्णः धनं “पुष्यति वर्धयति “अस्य दत्तवतो यजमानस्य “मघानि धनानि “नकिः “सम् “आरन नैवापगच्छन्ति । किंतु तमेव सर्वदा भजन्ते । समित्येतत् अपेत्येतस्यार्थे । “उ इति पूरणः । अर्तेश्छान्दसे लुङि ‘सर्तिशास्त्यर्तिभ्यश्च ' इति च्लेरादेशः । ‘ ऋदृशोऽङि गुणः' ( पा. सू. ७. ४.१६ )।
 
 
Line ७८ ⟶ ८६:
 
मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकऽध्रुक् ॥४
 
हे “असुर तमसः क्षेपक । यद्वा असवः प्राणाः । तान् ददाति मनुष्येभ्यः स्वोदयेन प्रयच्छतीत्यसुरः । ईदृश हे मित्र “द्यौः द्युलोको देवनशीलादितिर्वा “अन्यः । ‘ सुपां सुलुक्' इति द्वितीयायाः स्वादेशः । वरुणापेक्षया अन्यम् “असौ अमुं नभसि दृश्यमानं त्वां “सूयत असूत ॥ 'षूङ् प्राणिप्रसवे'। छान्दसोऽडभावः ।। हे “वरुण “त्वं च “विश्वेषां सर्वेषां प्राणिनां “राजा “असि ईश्वरो भवसि । तादृशयोर्युवयोः “रथस्य “मूर्धा शिरः “चाकन् अस्मद्यज्ञं कामयते । यद्वा । रथस्य रंहणशीलस्य यज्ञस्य मूर्धा न मूर्धेव प्रधानः सोमश्चाकन् युवां कामयते ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसो लङ् ।। यत एवमतः कारणात् “अन्तकध्रुकु अन्तकस्य हननशीलस्य राक्षसादेर्यमस्यैव वा द्रोग्धा । 'द्रुह जिघांसायाम् ' । ‘ सत्सूद्विष इत्यादिना क्विप् । 'वा द्रुहमुहष्णुहष्णिहाम्' (पा. सू. ८. २. ३३ ) इति घत्वम् । भष्भावः । ईदृशः स यज्ञः “एतावता “एनसा इयत्परिमाणेनापि पापलेशेनापि “न युज्यते ॥
 
 
Line ९१ ⟶ १०१:
 
अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु । यज्ञियासु । अर्वा ॥५
 
योऽयं शकपूताख्य ऋषिः “अस्मिन् “शकपूते स्थितम् “एतत् “एनः पापं शत्रूणां पापकरमायुधं वा “मित्रे देवे “हिते हिताचरणपरेऽनुकूले सति “निगतान् निगन्तव्यान् हननार्थं नियमेन प्राप्तव्यान् “वीरान् शत्रोः पुत्रादीन् “सु सुष्ठु “हन्ति हिनस्ति । अस्मिन्नृषौ समवेतं यत्पापं तन्मित्रस्य
प्रसादेन तदीयेषु शत्रुषु स्वकार्यं दुःखं जनयतीत्यर्थः । निगतान् । निपूर्वाद्गमेः कर्मणि निष्ठा । ' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । कदेत्यत आह । “अवोः हविर्भिस्तर्पयितुः । अवतेरौणादिक उप्रत्ययः । तस्य यजमानस्य “यज्ञियासु यज्ञार्हासु क्रियासु “तनूषु शरीरेषु “अर्वा अभिगन्ता मित्रो वरुणो वा “यत् यदा “अवः रक्षणं “धात् दधाति निदधाति स्थापयति । यद्वा । यदा अर्वा अभिगन्ता स ऋषिः अवितुः रक्षितुर्मित्रस्य वरुणस्य वा यागार्हासु प्रियासु तनूषु शरीरेषु अवो हविर्लक्षणमन्नं धात् धारयति । तदानीं मित्रे वरुणे चानुकूले सति तदेनो वीरान् हन्तीत्यर्थः ।।
 
 
Line १०४ ⟶ ११७:
 
अव । प्रिया । दिदिष्टन । सूरः । निनिक्त । रश्मिऽभिः ॥६
 
हे “विचेतसा विशिष्टज्ञानौ मित्रावरुणौ “युवोर्हि युवयोः खलु “माता जननी “अदितिः अदीना अखण्डनीया वा भवति । सैव भूमिः । ' इयं वा अदितिः' (तै. सं २.२.६.१) इति श्रुतेः । “द्यौर्न यथा द्युलोकः “पयसा वृष्ट्युदकेन सर्वं जगत् पुनाति एवमेषा सा “भूमिः पयसा आत्मीयेन रसेन हविरात्मना परिणतेन पुपूतनि परिपवने यजमानानां पापस्य शोधने हेतुर्भवतीत्यर्थः ।। पूतशब्दादाचारे क्विबन्तादौणादिकः कनिप्रत्ययः। छान्दसं द्विर्वचनम् । तौ युवामतिदिश्य यूयं “प्रिया प्रियाणि धनानि “अव “दिदिष्टन अवाङ्मुखमस्मदभिमुखं दिशत दत्त ।। ' दिश अतिसर्जने ' । अस्माल्लोटि छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तशब्दस्य तनादेशः ।। अपि च “सूरः सूर्यस्य “रश्मिभिः किरणैः “निनिक्त अस्मान् शोधयत पोषयत वा । ' णिजिर् शौचपोषणयोः' । जौहोत्यादिकः । ' संज्ञापूर्वको विधिरनित्यः ' इति ' निजां त्रयाणां' ( पा. सू ७.४.७५) इत्यभ्यासस्य गुणो न क्रियते ।।
 
 
Line ११८ ⟶ १३३:
ताः । नः । कणूकऽयन्तीः । नृऽमेधः । तत्रे । अंहसः । सुऽमेधः । तत्रे । अंहसः ॥७
 
हे मित्रावरुणौ “युवं “हि युवां खलु “अप्नराजौ अप्नसा कर्मण प्रवर्षणप्रकाशनादिना राजमानौ दीप्यमानौ सन्तौ असीदतं स्वकीये स्थाने निषीदथः आसाथे ।। अप्न इति कर्मनाम । ' आपः
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३२" इत्यस्माद् प्रतिप्राप्तम्