"ऋग्वेदः सूक्तं १०.१४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३५:
अग्ने॑ । अच्छ॑ । व॒द॒ । इ॒ह । नः॒ । प्र॒त्यङ् । नः॒ । सु॒ऽमनाः॑ । भ॒व॒ ।
 
प्र । नः॒ । य॒च्छ॒ । वि॒शः॒ । प॒ते॒ । ध॒न॒ऽदाः । अ॒सि॒ । नः॒ । त्वम् ॥१
 
अग्ने । अच्छ । वद । इह । नः । प्रत्यङ् । नः । सुऽमनाः । भव ।
 
प्र । नः । यच्छ । विशः । पते । धनऽदाः । असि । नः । त्वम् ॥१
 
हे “अग्ने “इह अस्मिन् देशे “नः अस्मान् “अच्छ “वद आभिमुख्येन प्रियं ब्रूहि । तथा “प्रत्यङ् “नः अस्मान् प्रत्यञ्चन् "सुमनाः शोभनमनस्को “भव । हे “विशस्पते यजमानलक्षणायाः प्रजायाः पालयितः “नः अस्मभ्यं “प्र “यच्छ धनानि प्रदेहि यतः “त्वं “नः अस्माकं “धनदाः “असि धनानां दाता भवसि ॥
पङ्क्तिः ५०:
प्र । नः॒ । य॒च्छ॒तु॒ । अ॒र्य॒मा । प्र । भगः॑ । प्र । बृह॒स्पतिः॑ ।
 
प्र । दे॒वाः । प्र । उ॒त । सू॒नृता॑ । रा॒यः । दे॒वी । द॒दा॒तु॒ । नः॒ ॥२
 
प्र । नः । यच्छतु । अर्यमा । प्र । भगः । प्र । बृहस्पतिः ।
 
प्र । देवाः । प्र । उत । सूनृता । रायः । देवी । ददातु । नः ॥२
 
“अर्यमा अरीणां नियन्ता अर्याणां निर्माता वैतत्संज्ञो देवः "नः अस्मभ्यं “प्र “यच्छतु धनम् । तथा “भगः एतत्संज्ञको देवश्च “प्र यच्छतु । “बृहस्पतिः च “प्र यच्छतु । सर्वे देवाः च “प्र यच्छन्तु । "उत अपि च "सूनृता प्रियसत्यवाग्रूपा “देवी देवनशीला सरस्वती “रायः धनानि “नः अस्मभ्यं “प्र “ददातु ॥ ‘ उडिदम्' इत्यादिना रायो विभक्तिरुदात्ता ।।
पङ्क्तिः ६५:
सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।
 
आ॒दि॒त्यान् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥३
 
सोमम् । राजानम् । अवसे । अग्निम् । गीःऽभिः । हवामहे ।
 
आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥३
 
“राजानं राजमानमीश्वरं वा “सोमम् “अग्निं च “गीर्भिः स्तुतिभिः “अवसे रक्षणार्थं “हवामहे आह्वयामहे । तथा “आदित्यान् अदितेः पुत्रान् मित्रादीन् “विष्णुं “सूर्यं “ब्रह्माणं प्रजापति “बृहस्पतिं “च रक्षणार्थमाह्वयामहे । ।
पङ्क्तिः ८०:
इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । सु॒ऽहवा॑ । इ॒ह । ह॒वा॒म॒हे॒ ।
 
यथा॑ । नः॒ । सर्वः॑ । इत् । जनः॑ । सम्ऽग॑त्याम् । सु॒ऽमनाः॑ । अस॑त् ॥४
 
इन्द्रवायू इति । बृहस्पतिम् । सुऽहवा । इह । हवामहे ।
 
यथा । नः । सर्वः । इत् । जनः । सम्ऽगत्याम् । सुऽमनाः । असत् ॥४
 
इन्द्रश्च वायुश्च “इन्द्रवायू । “ उभयत्र वायोः प्रतिषेधो वक्तव्यः' (पा. सू. ६. ३. २६. १) इत्यानङः प्रतिषेधः । ‘नोत्तरपदेऽनुदात्तादौ ' इति ‘देवताद्वन्द्वे च ' इति प्राप्तस्योभयपदप्रकृतिस्वरस्य निषेधः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । “बृहस्पतिं बृहतां देवानां पालकम् । तद्बृहतोः करपत्योः' ( पा. सू. ६. १. १५७ ) इति सुट्तलोपौ । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम् । “सुहवा सुहवौ सुह्वानौ इन्द्रवायू बृहस्पतिं च “इह अस्मिन् कर्मणि “हवामहे आह्वयामहे । “यथा “नः अस्माकं “सर्व “इत् सर्व एव “जनः “संगत्यां संगमने धनस्य प्राप्तौ “सुमनाः “असत् शोभनमनस्को भवेत् तथा आह्वयामह इत्यर्थः । अस्तेर्लेट्यडागमः ॥
पङ्क्तिः ९५:
अ॒र्य॒मण॑म् । बृह॒स्पति॑म् । इन्द्र॑म् । दाना॑य । चो॒द॒य॒ ।
 
वात॑म् । विष्णु॑म् । सर॑स्वतीम् । स॒वि॒तार॑म् । च॒ । वा॒जिन॑म् ॥५
 
अर्यमणम् । बृहस्पतिम् । इन्द्रम् । दानाय । चोदय ।
 
वातम् । विष्णुम् । सरस्वतीम् । सवितारम् । च । वाजिनम् ॥५
 
हे स्तोतः अर्यमादीन् देवान् “दानाय धनप्रदानाय “चोदय स्तुत्या प्रेरय । तथा “वातं वायुं “विष्णुं “सरस्वतीं “वाजिनम् अन्नवन्तं बलवन्तं वा “सवितारं “च दानाय प्रेरय ॥
पङ्क्तिः ११०:
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । ब्रह्म॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ।
 
त्वम् । नः॒ । दे॒वऽता॑तये । रा॒यः । दाना॑य । चो॒द॒य॒ ॥६
 
त्वम् । नः । अग्ने । अग्निऽभिः । ब्रह्म । यज्ञम् । च । वर्धय ।
 
त्वम् । नः । देवऽतातये । रायः । दानाय । चोदय ॥६
 
हे “अग्ने “त्वम् “अग्निभिः त्वद्विभूतिभूतैरन्यैरग्निभिः सार्धं “नः अस्माकं “ब्रह्म स्तोत्रं “यज्ञं “च “वर्धय । तथा “त्वं “नः अस्माकं “देवतातये । यज्ञनामैतत् । यागार्थं "रायः धनस्य “दानाय प्रदानाय “चोदय दातॄन् प्रेरय ॥ ॥ २९ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४१" इत्यस्माद् प्रतिप्राप्तम्