"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
गाय॑न्ति । त्वा॒ । गा॒य॒त्रिणः॑ । अर्च॑न्ति । अ॒र्कम् । अ॒र्किणः॑ ।
 
ब्र॒ह्माणः॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । उत् । वं॒शम्ऽइ॑व । ये॒मि॒रे॒ ॥१
 
गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः ।
 
ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥१
 
हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां गायत्रिणः उद्गातारः "गायन्ति स्तुवन्ति । "अर्किणः अर्चनहेतुमन्त्रयुक्ता होतारः "अर्कम् अर्चनीयमिन्द्रम् "अर्चन्ति शस्त्रगतैर्मन्त्रैः प्रशंसन्ति । "ब्रह्माणः ब्रह्मप्रभृतय इतरे ब्राह्मणाः त्वाम् "उत् "येमिरे उन्नतिं प्रापयन्ति । तत्र दृष्टान्तः। "वंशमिव । यथा वंशाग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशमुन्नतं कुर्वन्ति । यथा वा सन्मार्गवर्तिनः स्वकीयं कुलमुन्नतं कुर्वन्ति तद्वत् । एतामृचं यास्क एवं व्याचष्ट-’गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति वननाच्छ्रूयत इति वा ' (निरु. ५. ५) इति । अर्कशब्दं च बहुधा व्याचष्टे- अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदेनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति स वृतः कटुकिम्ना' (निरु. ५. ४ ) इति ॥ गायन्ति । शप्तिङौ पित्त्वात् लसार्वधातुकत्वाच्च अनुदात्तौ । धातुरुदात्तः । गायत्रिणः । गायत्रं साम येषामुद्गातॄणामस्ति ते । ‘अत इनिठनौ'। प्रत्ययस्वरेण इकार उदात्तः । अर्चन्ति । ‘अर्च पूजायाम्' । भौवादिकः । शप्तिङौ अनुदात्तौ । धातुस्वर एव । पादादित्वात् न निघातः । अर्कम् । अर्चन्त्येभिरिति अर्का मन्त्राः । तैरर्चनीयतया तदात्मक इन्द्रोऽपि लक्षणया अर्कः । ‘पुसि संज्ञायां घः प्रायेण ' ( पा. सू. ३. ३. ११८ ) इति करणे घः । 'चजोः कु घिण्ण्यतोः' ( पा. सू. ७. ३. ५२ ) इति चकारस्य कुत्वं ककारः । प्रत्ययस्वरेणान्तोदात्तः । अर्का मन्त्रा एषां सन्तीत्यर्किणो होतारः । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ' ( पा. म. ५. २. ११५. १ ) इति कृदन्तात् इनिठनौ यद्यपि प्रतिषिद्धौ तथाप्यत्र व्यत्ययात् इनिः । प्रत्ययस्वरेण इकार उदात्तः । ब्रह्माणः । प्रातिपदिकस्वरेणान्तोदात्तः । शतक्रतो । निघातः । संहितायाम् अवादेशे ‘लोपः शाकल्यस्य' (पा. सू. ८. ३. १९) इति वकारलोपः । वंशशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘इवेन विभवत्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति स एव शिष्यते । येमिरे । यम उपरमे'। तिङ्ङतिङः' इति निघातः ॥
पङ्क्तिः ६७:
यत् । सानोः॑ । सानु॑म् । आ । अरु॑हत् । भूरि॑ । अस्प॑ष्ट । कर्त्व॑म् ।
 
तत् । इन्द्रः॑ । अर्थ॑म् । चे॒त॒ति॒ । यू॒थेन॑ । वृ॒ष्णिः । ए॒ज॒ति॒ ॥२
 
यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् ।
 
तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥२
 
"यत् यदा "सानोः "सानुम् "आरुहत् यजमानः सोमवल्लीसमिदाद्याहरणाय एकस्मात् पर्वतभागात् अपरं पर्वतभागम् आरूढवान् तथा "भूरि प्रभूतं "कर्त्वं कर्म सोमयागरूपम् "अस्पष्ट स्पृष्टवान् । उपक्रान्तवानित्यर्थः। "तत् तदानीम् "इन्द्रः "अर्थं यजमानस्य प्रयोजनं "चेतति जानाति । ज्ञात्वा च "वृष्णिः कामानां वर्षिता सन् "यूथेन मरुद्रणेन सह "एजति कम्पते। स्वस्थानात् यज्ञभूमिमागन्तुमुद्युङ्क्ते इत्यर्थः॥ सानोः। ‘षणु दाने' । सनोति ददाति निवसतामवकाशमिति सानुः । ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' (उ. सू. १.३)। णित्त्वात् उपधाया वृद्धिः; ञित्त्वादाद्युदात्तत्वं च । अरुहत्। रुहेर्लङि तिपि शपि ‘संज्ञापूर्वको विधिरनित्यः' (परिभा. ९३.१) इति लघूपधगुणो न भवति । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः'। सति शिष्टत्वात् स एव शिष्यते। निपातैर्यद्यदिहन्त०' (पा. सू. ८. १. ३०) इति निषेधात् निघातो न भवति । भूरि । 'अदिशदिभूशुभिभ्यः क्रिन' ( उ. सू. ४. ५०५)। कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । अस्पष्ट। ‘स्पश बाधनस्पर्शनयोः । ‘स्वरितञितः°' (पा. सू. १. ३. ७२ ) इत्यात्मनेपदम् । लङः प्रथमपुरुषैकवचनं त । ‘बहुलं छन्दसि' इति शपो लुक् । व्रश्चादिषत्वष्टुत्वे (पा. सू. ८. २. ३६; ८. ४. ४१ )। ‘लुङ्लङ्लुङ्क्ष्वडुदात्तः' इति अडागम उदात्तः। स एव शिष्यते । अनुषङ्गेण यच्छब्दयोगात् निधाताभावः । कर्त्वम्। ‘डुकृञ् करणे'। अन्येभ्योऽपि दृश्यन्ते'
पङ्क्तिः ८३:
यु॒क्ष्व । हि । के॒शिना॑ । हरी॒ इति॑ । वृष॑णा । क॒क्ष्य॒ऽप्रा ।
 
अथ॑ । नः॒ । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ । गि॒राम् । उप॑ऽश्रुतिम् । च॒र॒ ॥३
 
युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्यऽप्रा ।
 
अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥३
 
हे "सोमपाः सोमपानयुक्त "इन्द्र हरी त्वदीयावश्वौ "युक्ष्वा "हि सर्वथा संयोजय । "अथ अनन्तरं "नः अस्मदीयानां "गिरां स्तुतीनाम् "उपश्रुतिं समीपे श्रवणमुद्दिश्य "चर तत्प्रदेशं गच्छ । कीदृशौ हरी । "केशिनी स्कन्धप्रदेशे लम्बमानकेशयुक्तौ "वृषणा सेचनसमर्थौ युवानौ ।"कक्ष्यप्रा । अश्वस्योदरबन्धनरज्जुः कक्ष्या तस्याः पूरकौ पुष्टाङ्गावित्यर्थः ॥ युक्ष्व । श्नमो लोपश्छान्दसः । सति शिष्टत्वेन प्रत्ययस्वरः शिष्यते ।' द्व्यचोऽतस्तिङः ' ( पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम्। केशिना । प्रशस्ताः केशा अनयोः सन्तीति मत्वर्थीय इनिः । प्रत्ययस्वरः । ‘सुपां सुलुक्' (पा. सू. ७. १. ३९ ) इत्यादिना द्विवचनस्य आकारादेशः । वृषणा। ‘पृषु वृषु मृषु सेचने '।' कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' ( उ. सू. १. १५४ ) इति कनिन् । ' नित्यादिर्नित्यम्' इत्याद्युदात्तः । ‘वा षपूर्वस्य निगमे ' ( पा. सू. ६. ४. ९) इति उपधायाः पक्षे दीर्घाभावः । पूर्ववदाकारः । कक्ष्यप्रा । कक्षयोर्भवं कक्ष्यं सूत्रम् । तत् प्रातः पूरयतः पुष्टत्वादिति कक्ष्यप्रौ। ‘प्रा पूरणे'। ‘आतोऽनुपसर्गे कः ( पा. सू. ३, २. ३ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । आकारः पूर्ववत् । अथ। ' निपातस्य ' ( पा. सू. ६. ३. १३६ ) इति संहितायां दीर्घः । नः । ‘अनुदात्तं सर्वमपादादौ ' ( पा. सू. ८. १. १८) इत्यनुवृत्तौ ‘बहुवचनस्य वरनसौ ' (पा. सू. ८. १. २१) इति नसादेशोऽनुदात्तः । इन्द्र सोमपाः । उभौ ' आमन्त्रितस्य च ' ( पा. सू. ८. १. १९) इति सर्वानुदात्तौ । गिराम् । 'सावेकाचस्तृतीयादिर्विभक्तिः ' ( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता। उपशब्दो निपातत्वादाद्युदात्तः । श्रुतिशब्देन प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ तादौ च निति कृत्यतौ ' ( पा. सू. ६. २. ५०) इति तुवर्जिततादिपरत्वात् गतेः प्रकृतिस्वरः । चर । निघातः ॥
पङ्क्तिः १००:
आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ ।
 
ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥४
 
आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव ।
 
ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥४
 
हे "वसो निवासकारणभूत "इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च "स्तोमान् उद्गातृप्रयुक्तानि स्तोत्राणि "अभि स्वर अभिलक्ष्य प्रशंसारूपं शब्दं कुरु। तथा आध्वर्यवमभिलक्ष्य "गृणीहि शब्दं कुरु । तथा होतृप्रयुक्तानि शस्त्राण्यालक्ष्य "रुव शब्दं कुरु । परितोषेण सर्वानृत्विजः प्रशंसेत्यर्थः । तत ऊर्ध्वं "नः अस्माकं "ब्रह्म "च अन्नं च "यज्ञ च अनुष्ठीयमानं कर्म च "सचा सह "वर्धय । साङ्गत्वसंपादनेन यज्ञ वर्धयित्वा तत्फलमन्नं च प्रवृद्धं कुरु ।' अन्धः' इत्यादिष्वष्टाविंशत्यन्ननामसु ' ब्रह्म वर्चः ' (नि. २. ७. २५) इति पठितम् ॥ इहि । ‘इण् गतौ । सेर्हिः । हेरपित्त्वेन ङित्त्वात् गुणाभावः । निघातः । आङा सह गुणः ‘एकादेश उदात्तेनोदात्तः' इत्युदात्तः । स्तोमान् ।' अर्तिस्तुसु° ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । उत्तरपदेन संहितायां नकारस्य दीर्घदटि समानपादे' ( पा. सू. ८. ३. ९) इति रुत्वम् । ‘आतोऽटि नित्यम् ' (पा. सू. ८. ३. ३ ) इति आकारस्यानुनासिकः । ‘भोभगोअघोअपूर्वस्य योऽशि' (पा. सू. ८. ३. १७ ) इति यत्वम् । तस्य लोपः शाकल्यस्य ' ( पा. सू. ८. ३. १९ ) इति लोपः। तस्यासिद्धत्वात् स्वरसंधिर्न भवति । अभि । एवमादीनामन्तः ' ( फि. सू. ८२ ) इत्यन्तोदात्तः । स्वर ।' स्वृ शब्दोपतापयोः '। निघातः । अभि । गतम् । गृणीहि । ‘गॄ शब्दे । ‘सेर्ह्यपिच्च' (पा. सू. ३. ४. ८७ ) इति हिः । ‘क्र्यादिभ्यः श्ना'। ‘ई हल्यघोः' (पा. सू. ६. ४. ११३ ) इति ईत्वम् ।' प्वादीनां ह्रस्वः' ( पा. सू. ७. ३. ८०) इति ऋकारस्य ऋकारः । ‘ऋवर्णाच्चेति वक्तव्यम् ' ( का. ८. ४. १. १) इति णत्वम् । ‘तिङ्ङतिङः' इति निघातः । रुव । ‘रु शब्दे । सेर्ह्यपिच्च । शपि प्राप्ते व्यत्ययेन शः। तस्य ङित्त्वेन गुणाभावात् उवङादेशः । ‘अतो हेः ' ( पा. सू. ६. ४. १०५) इति हेर्लुक् ।' तिङ्ङतिङः' इति निघातः । ब्रह्म । तृहि बृहि वृद्धौ'। ‘मनिन् ' इत्यनुवृत्तौ ‘बृहेरम् नलोपश्च' ? ( उ. सू. ४.५८५) इति मनिन् । तत्संनियोगेन नलोपः अमागमश्च । ‘मिदचोऽन्त्यात्परः ' ( पा. सू. १. १. ४७ ) इति ऋकारात्परः । यणादेशः । मनिनो नित्त्वादाद्युदात्तत्वम् । वसो । आमन्त्रितनिघातः । यज्ञम् ।' यजयाच° ! ( पा. सू. ३. ३. ९० ) इत्यादिना नङ् । प्रत्ययस्वरः । वर्धय । निघातः । अत्र चकारद्वयश्रवणात् इयमेव तिङ्विभक्तिः पूर्ववाक्येष्वनुषज्यते । अतोऽनुषक्तैव प्रथमा न श्रुता इति अश्रुतायाः ‘चवायोगे प्रथमा ' ( पा. सू. ८. १. ५९ ) इति निघातनिषेधो न भवति ॥
पङ्क्तिः ११७:
उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । वर्ध॑नम् । पु॒रु॒निः॒ऽसिधे॑ ।
 
श॒क्रः । यथा॑ । सु॒तेषु॑ । नः॒ । र॒रण॑त् । स॒ख्येषु॑ । च॒ ॥५
 
उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरुनिःऽसिधे ।
 
शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥५
 
"इन्द्राय इन्द्रार्थं "वर्धनं वृद्धिसाधनम् "उक्थं शस्त्रं "शंस्यम् अस्माभिः शंसनीयम्। कीदृशायेन्द्राय। "पुरुनिष्षिधे बहूनां शत्रूणां निषेधकारिणे । "शक्रः इन्द्रः "नः अस्मदीयेषु "सुतेषु पुत्रेषु "सख्येषु "च सखित्वेष्वपि "यथा येन प्रकारेण "रारणत् अतिशयेन शब्दं कुर्यात् तथा शंस्यमिति पूर्वत्रान्वयः । अस्मदीयेन शस्त्रेण परितुष्ट इन्द्रोऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः ॥ उक्थम् । वचेस्थक्प्रत्यय उक्तः ( उ. सू. २. १६४) । प्रत्ययस्वरः । शंस्यम् । ‘शंसु स्तुतौ' । ण्यन्तात् ‘अचो यत्' । ‘णेरनिटि ' (पा. सू. ६. ४. ५१ ) इति णिलोपः। तित्स्वरिते प्राप्ते ' यतोऽनावः' इत्याद्युदात्तत्वम् । वधनम् । ‘करणाधिकरणयोश्च ' (पा. सू. ३. ३. ११७ ) इति करणे ल्युट् । ‘लिति' इति प्रत्ययपूर्वस्य उदात्तत्वम् । पुरुनिष्षिधे बहूनां शत्रूणां निषेधकाय । 'षिध गत्याम् । ‘धात्वादेः षः सः'। अत्र निरित्युपसर्गस्य निशब्द समानार्थस्य प्राक्प्रयोगः। ‘क्विप् च ' इति क्विप् । क्विपः सर्वापहारी लोपः । ‘कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासः । निसः सकारेण इणो व्यवधानं छान्दसत्वादनादृत्य उपसर्गात्सुनोति° ' ( पा. सू. ८. ३.६५) इत्यादिना धातुसकारस्य षत्वम् । निसः सकारस्य ‘ष्टुना ष्टुः ' ( पा. सू. ८. ४. ४१ ) इति षत्वम् । पुरुशब्देन कर्मणि षष्ठ्यन्तेन समासः । षिधो धातुस्वरेणोदात्तत्वम् । निष्धिधे इति प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। कृद्ब्रहणे गतिकारकपूर्वस्यापि ग्रहणात् पुनः कारकसमासेऽपि स एव स्वरः । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि° ' ( उ. सु. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । यथा । ‘प्रकारवचने थाल् ' ( पा. सू. ५. ३. २३ ) । लित्स्वरेण प्रत्ययात् पूर्वोऽकार उदात्तः । सुप्तेषु । क्तः प्रत्ययस्वरेणोदात्तः । नसो नकारस्य ‘नश्च धातुस्थोरुषुभ्यः' (पा. सू. ८. ४. २७ ) इति संहितायां णत्वम् । रारणत् ।' रण शब्दार्थः । ‘धातोरेकाचः ' ( पा. सू. ३. १. २२) इति यङ् । ‘यङोऽचि च' (पा. सू. २. ४. ७४ ) इति लुक् । प्रत्ययलक्षणेन द्विर्भावः (पा. सू. ६. १. ९) । हलादिशेषः । दीर्घोऽकितः ' (पा. सू. ७.४.८३) इति दीर्घः । प्रत्ययलक्षणेन ‘सनाद्यन्ता धातवः' ( पा. सू. ३. १. ३२ ) इति धातुसंज्ञायां • लिङर्थे लेट् ' ( पा. सू. ३. ४. ७ ) इति हेतुहेतुमद्भावलक्षणे लिङर्थे ( पा. सू. ३. ३. १५६ ) लेट् । अत्र हि इन्द्रकर्तृकं रारणनम् उक्थशंसनस्य कर्तव्यत्वे हेतुः । लेटस्तिप् । इतश्च लोपः परस्मैपदेषु ' ( पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽङाटौ' (. सू. ३. ४. ९४ ) इति अडागमः । कर्तरि शप् । तस्य चर्करीतं परस्मैपदम् अदादिवच्च द्रष्टव्यम् इति अदादिवद्भावात् ‘अदिप्रभृतिभ्यः शपः' इति प्राप्तो लुक् ‘बहुलं छन्दसि' इति निषिध्यते । शपोऽनुदात्तत्वात् धातोः अन्तोदात्त एव शिष्यते । शपा लसार्वधातुकस्य व्यवधानात् तत्र परतो विधीयमानम् ‘अभ्यस्तानामादिः' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वं न भवति । न च ' तिङ्ङतिङः' इति निघातः । अत्र यथाशब्दयोगेन ‘यावद्यथाभ्याम् ' (पा. सू. ८. १. ३६) इति निषेधात् । ‘चवायोगे प्रथमा' इति वात्र निघातो न भविष्यति । अत्र ह्युत्तरवाक्ये सख्येषु च इति चानुकृष्टविभक्त्यपेक्षया इयं प्रथमा तिङ्विभक्तिः। सख्येषु । सख्युः कर्माणि सख्यानि तेषु । ‘कर्मणि च' (पा. सू. ५. १. १२४ ) इत्यनुवृत्तौ ‘सख्युर्थः ' ( पा. सू. ५. १. १२६ ) इति सखिशब्दात् यप्रत्ययः । तत्र भसंज्ञायां ‘ यस्येति च ' (पा. सू. ६. ४. १४८) इति इकारलोपः । प्रत्ययस्वरः ॥
पङ्क्तिः १३२:
तम् । इत् । स॒खि॒ऽत्वे । ई॒म॒हे॒ । तम् । रा॒ये । तम् । सु॒ऽवीर्ये॑ ।
 
सः । श॒क्रः । उ॒त । नः॒ । श॒क॒त् । इन्द्रः॑ । वसु॑ । दय॑मानः ॥६
 
तम् । इत् । सखिऽत्वे । ईमहे । तम् । राये । तम् । सुऽवीर्ये ।
 
सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥६
 
"सखित्वे निमित्तभूते सति "तमित् तमेवेन्द्रम् "ईमहे प्राप्नुमः । तथा "राये धनार्थं "तम् ईमहे । तथा "सुवीर्ये शोभनसामर्थ्यनिमित्तं "तम् ईमहे । "उत अपि च "शक्रः शक्तिमान् "सः इन्द्रः "नः अस्मभ्यं "वसु धनं "दयमानः प्रयच्छन् "शकत् अस्मदीयरक्षणे शक्तोऽभूत् । सप्तदश याञ्चाकर्मसु ‘ईमहे यामि’ (नि.३.१९.१) इति पठितम् । तदनुसारेण इन्द्रं याचामहे इति व्याख्येयम् ॥ सख्युर्भावः सखित्वम् । तस्य भावस्त्वतलौ' (पा. सू. ५. १. ११९) इति त्वः । प्रत्ययस्वरेणोदात्तः । ईमहे । ‘ईङ् गतौ' । ङित्वात् आत्मनेपदम् (पा. सू. १. ३. १२)। दिवादिभ्यः श्यन् । ‘बहुलं छन्दसि' इति श्यनो लुक् । ‘तिङ्ङतिङः' इति निघातः । राये । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । सुवीर्ये । शोभनं वीर्यं यस्यासौ सुवीर्यः । भवितृवाचिनानेन भावो लक्ष्यते। सुवीर्यत्वे इत्यर्थः । ‘बहुव्रीहौ' (पा. सू. ६. २. १०६) इत्यनुवृत्तौ ‘वीरवीर्यौ च'(पा. सू. ६. २. १२०) इत्युत्तरपदाद्युदात्तत्वम् । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकि' (उ. सू. २. १७० ) इत्यादिना रक् । प्रत्ययस्वरः । शकत्। ‘शक्लृ शक्तौ। धातुसंबन्धाधिकारे ‘छन्दसि लुङ्लङ्लिटः' (पा. सू. ३.४.६) इति लुङ्। यतः शक्नोति अतस्तमीमहे इति धातुसंबन्धः । लुङस्तिप्। ‘पुषादिद्युताद्यलृदितः परस्मैपदेषु' ( पा. सू. ३. १. ५५ ) इति च्लेरङादेशः । ‘बहुलं छन्दसि°' (पा. सू. ६. ४. ७५) इत्यडागमाभावः । तिङ्ङतिङः' इति निघातः । वसु । ‘नित्' इत्यनुवृतौ (उ.सू. १.९) वसेः उप्रत्ययः (उ. सू. १. १०) । नित्त्वादाद्युदात्तत्वम् । दयमानः । ‘दय दानगतिरक्षणहिंसादानेषु'। अनुदात्तेत्त्वात् आत्मनेपदम् । लटः शानजादेशः (पा.सू.३.२.१२४)। शपः पित्त्वादनुदात्तस्वम् । शानचः ‘चितः' इत्यन्तोदात्तत्वं बाधित्वा अदुपदेशात् शप उत्तरत्वेन परत्वात् लसार्वधातुकत्वानुदात्तत्वम्। धातुस्वर एव शिष्यते ॥ ॥१९॥
पङ्क्तिः १४७:
सु॒ऽवि॒वृत॑म् । सु॒निः॒ऽअज॑म् । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ।
 
गवा॑म् । अप॑ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ॥७
 
सुऽविवृतम् । सुनिःऽअजम् । इन्द्र । त्वाऽदातम् । इत् । यशः ।
 
गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥७
 
हे "इन्द्र "यशः अन्नं कर्मफलभूतं "सुविवृतं सुष्ठु सर्वत्र प्रसृतं "सुनिरजं सुखेन निःशेषं प्राप्तुं शक्यं "त्वादातमित् त्वया शोधितं च संपन्नमिति शेषः । इतः परं क्षीरादिरसलाभार्थं "गवां "व्रजं निवासस्थानम् "अप "वृधि अपवृतमुद्घाटितद्वारं कुरु । हे "अद्रिवः पर्वतोपलक्षितवज्रयुक्तेन्द्र "राधः । धनं "कृणुष्व संपादय ॥ सुविवृतम् । वृञ् वरणे'। कर्मणि क्तप्रत्ययः । विशब्देन प्रादिसमासः । विवृतमित्यत्र कृदुत्तरपदप्रकृतिस्वरं बाधित्वा कर्मवाचिनि क्तान्ते परतः ‘गतिरनन्तरः' (पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति ऋकार उदात्तः । पुनः सुशब्देन समासे कृदुत्तरपदप्रकृतिस्वरेण स एव ऋकार उदात्तः। ननु वृतमित्येव कृदन्तं न तु विवृतमिति, ‘प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ' ( परिभा. २३ ) इति वचनात् । सुविवृतमित्यत्र च समासे वृतमित्येतावन्मानं नोत्तरपदं किंतु विवृतमिति । तत् कथं कृदुत्तरपदप्रकृतिस्वरत्वमिति चेत् उच्यते-प्रत्ययग्रहणपरिभाषापवादेन ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ' (परिभा. २८) इत्यनेन विवृतमित्यस्यापि कृदन्तव्यपदेशोपपत्तेः । ननु विवृतमित्यस्य यथा कृदन्तव्यपदेशः एवं क्तान्तव्यपदेशोऽप्यस्ति तयैव परिभाषया । तथा च कर्मणि क्तान्त उत्तरपदे परतः ' गतिरनन्तरः' इति सुशब्दस्य प्रकृतिस्वरः प्राप्नोति । न चात्रापि ‘परादिश्छन्दसि बहुलम्' इत्येवं नास्ति विस्तारः । तथा हि सति सुविवृतमित्यत्र विवृतमित्येवोत्तरपदमिति तदादिः इकार एव उदात्तः स्यात् । विवृतमिति समासे यद्यपि ऋकारः पदादिर्भवति तथापि सुविवृतमिति समासस्य सति शिष्टत्वेन बलीयस्त्वात् तत्रत्ये एव उत्तरपदादौ इकारे एव उदात्तस्वरेण भवितव्यमिति । उच्यते ' गतिरनन्तरः' इत्यत्र क्तानुवृत्तेः क्तग्रहणे कृद्ग्रहणपरिभाषा नाश्रीयते । तदाश्रयणे व्यवहितगतावपि प्रकृतिस्वरे सति अनन्तरग्रहणमनर्थकं स्यात् । अनेनैव चाभिप्रायेण अनन्तरग्रहणस्य प्रयोजनम् ' अभ्युद्धृतम्' इत्यत्र व्यवहितस्य अभिशब्दस्य मा भूदिति प्रत्युदाहृतम् । तस्मात् सुविवृतमिति ऋकार एव उदात्त इति स्थितम् । सुनिरजम् । अनायासेन निरवशेषं प्राप्यम् । ‘अज गतिक्षेपणयोः' । सुनिसोरुपसर्गयोः प्राक्प्रयोगः । ‘ईषद्दुःसुषु कृछ्राकृछ्रार्थेषु खल् (पा. सू. ३. ३. १२६ )। न चात्र सुशब्दस्य निसा व्यवधानं शङ्कनीयम् । सुशब्दस्य ह्युपपदमात्रं खलो निमित्तं नानन्तर्यम् । अत एव सुपरिहरं दुष्परिहरमित्यादयः प्रयोगा इति । पूर्ववत् गतिसमासे ‘लिति' इति प्रत्ययात् पूर्वमुदात्तमिति धात्वकार उदात्तः । निसा समासे कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । पुनः सुशब्देन समासे ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (परिभा. २८) इति परिभाषया कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । त्वादातम् । त्वया शोधनेन विशदीकृतम् । “दैप् शोधने '।' आदेच उपदेशेऽशिति' (पा. सू. ६. १. ४५) इति आत्वम् । सत्यपि हि पकारे ‘नानुबन्धकृतमनेजन्तवम् ' ( परिभा. ७) इति एजन्त एवायम् । निष्ठा ' (पा. सू. ३.२.१०२) इति कर्मणि क्तः । ‘दाधा ध्वदाप्' (पा. सू. १. १. २०) इत्यत्र अदाप् इति प्रतिषेधेन घुसंज्ञाया अभावात् ' दो दद्धोः' (पा. सू. ७. ४. ४६ ) इति ददादेशो न भवति । ननु ‘दाप् लवने' इति प्रतिपदोक्तस्यैव दीपः तत्र ‘अदाप्' इति निषेधः, न पुनर्लाक्षणिकस्य दैपः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्य (परिभा. १०५) इति नियमात् इति चेत् , न । ‘गामादाग्रहणेष्वविशेषः ' ( परिभा. १०६ ) इति प्रतिप्रसवात् । युमच्छब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इति डादेशः । त्वमावेकवचने ' (पा. सू. ७. २. ९७) इति मपर्यन्तस्य त्वादेशः । अतो गुणे' (पा. सू. ६. १. ९७) इति पररूपत्वम् । भसंज्ञायां ‘ टेः' (पा. सू. ६. ४. १४३ ) इति अदशब्दस्य लोपः । उदात्तनिवृत्तिस्वरेण आकार उदात्तः । कर्तृकरणे कृता बहुलम् ' ( पा. सू. २. १. ३२) इति तृतीयासमासः । तत्पुरुषे कृति बहुलम् ' (पा. सू. ६. ३. १४ ) इति तृतीयाया अपि अलुक् । कृदुत्तरपदप्रकृतिस्वरे प्राप्ते ‘तृतीया कर्मणि ' (पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यशः । अशू व्याप्तौ ।' अशेर्युट् च ' (उ. सू. ४. ६. ३० ) इति असुन् । तत्संनियोगेन धातोर्युडागमः । नित्त्वादाद्युदात्तत्वम् । गवाम् । प्रातिपदिकस्वरः। ‘सावेकाचः' इति विभक्तेरुदात्तत्वं प्राप्तं ‘न गोश्वन्साववर्ण' (पा. सू. ६. १. १८२) इति निषिध्यते । वृधि । वृञ् वरणे' । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि' ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति श्नोरपि लुक् । निघातः । कृणुष्व । ‘कृवि हिंसाकरणयोश्च । इदितो नुम् । व्यत्ययेनात्मनेपदम् । लोटस्थास् ( पा. सू. ३. ४. ७८ )। ‘थासः से' ( पा. सू. ३. ४. ८०)।' सवाभ्यां वामौ ' ( पा. सू. ३. ४. ९१ )। कर्तरि शपि ( पा. सू. ३. १. ६८ ) प्राप्ते ‘धिन्विकृण्व्योर च ' (पा. सू. ३. १. ८०) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । तस्य ‘अतो लोपः ' ( पा. सू. ६. ४. ४८ ) इति लोपः । ‘अचः परस्मिन्पूर्वविधौ' (पा. सू. १. १. ५७ ) इति अकारलोपस्य स्थानिवद्भावात् लघूपधगुणो न भवति । अत्र ‘ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति सति शिष्टमपि विकरणस्वरं बाधित्वा तिङ एव प्रत्ययाद्युदात्तत्वम् ।
पङ्क्तिः १६३:
न॒हि । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । ऋ॒घा॒यमा॑णम् । इन्व॑तः ।
 
जेषः॑ । स्वः॑ऽवतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य॑म् । धू॒नु॒हि॒ ॥८
 
नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः ।
 
जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥८
 
हे इन्द्र "ऋघायमाणं शत्रुवधं कुर्वाणं त्वां "रोदसी "उभे द्यावापृथिव्यावपि त्वदीयं महिमानं "नहि "इन्वतः व्याप्तुं न समर्थे इत्यर्थः। तादृशस्त्वं "स्वर्वतीः स्वर्लोकयुक्ता "अपः वृष्टिरूपाः "जेषः जयेः प्रेरय इत्यर्थः । अपां स्वर्गसंबन्धश्चान्यत्र ‘दिवो वृष्टिं च्यावयति' (तै. सं. ३. ३. ४. १ ) इति श्रुतम्। किं च वृष्टिप्रदानात् अन्नसंपत्तेरूर्ध्वम् अस्मभ्यं क्षीरादिरसप्रदाः "गाः "सं "धूनुहि सम्यक् प्रेरय ।। नहि। नञो हिशब्देन 'सह सुपा ' ( पा. सू. २. १. ४ ) इति समासः । समासत्वादन्तोदात्तत्वम् । त्वा। ‘अनुदात्तं सर्वम्' इत्यनुवृत्तौ ' त्वामौ द्वितीयायाः' (पा. सू. ८. १. २३) इति त्वादेशः । रोदसी । रुदेः असुन्। नित्वादाद्युदात्तः । उगितश्च' (पा. सू. ४.१. ६) इति ङीप् । उभे । प्रातिपदिकस्वरेणान्तोदात्तः। श्या सहकादेश उदात्तः । ऋघायमाणम् । नॄन् हन्तीति ऋघा । अन्येभ्योऽपि दृश्यन्ते' (पा. सू. ३. २. ७५ ) इति विच् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नकारलोपो हकारस्य च घकारः । अनृघा ऋघा भवतीत्यभूततद्भावे ‘लोहितादिडाज्भ्यः क्यष्' (पा. सू. ३. १. १३) इति क्यष्प्रत्ययो भवति । स ह्याकृतिगणः । ‘°लोपश्च हलः' ( पा. ३. १. १२) इत्यनुवृत्तेर्नकारलोपश्च। ‘वा क्यषः' (पा. सू. १. ३. ९० ) इत्यात्मनेपदम् । लटः शानच्। शपोऽदुपदेशात् परात् शानचो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम्। क्यषः प्रत्ययस्वरः । एकादेशस्योदात्तत्वम् । इन्वतः । ‘इवि व्याप्तौ । ‘इदितो नुम् धातोः' इति नुम् । शपः पित्त्वादनुदात्तत्वम् । लडादेशस्य तसश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते। ' हि च । (पा. सू. ८. १. ३४ ) इति निषेधात् ‘तिङ्ङतिङः' इति निघातो न भवति । जेषः । जेः प्रार्थनायां लिङर्थे लेट्। तस्य मध्यमपुरुषैकवचनं सिप्। ‘इतश्चलोपः परस्मैपदेषु' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । कर्तरि शपि प्राप्ते तदपवादः ‘सिब्बहुलं लेटि' (पा. सू. ३. १. ३४) इति सिप् । अडोंगमस्य अनुदात्तत्वात् धातुस्वर एव शिष्यते । स्वरासामस्तीति स्वर्वत्यः। ‘न्यङ्स्वरौ स्वरितौ ' ( फि. सू. ७४ ) इति स्वर्शब्दः स्वरितः । मतुब्ङीपौ पित्त्वादनुदात्तौ । संहितायां ‘स्वरितोत्संहितायामनुदात्तानाम् ' (पा. सू. १. २. ३९ ) इत्येकश्रुतिः । स्वरित एव शिष्यते । अपः । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । धूनुहि। ‘धूञ् कम्पने'। लोट् । ‘सेर्ह्यपिच्च'। ‘स्वादिभ्यः श्नुः । उतश्च प्रत्ययादसंयोगपूर्वात्' (पा. सू. ६. ४. १०६) इति प्राप्तस्य लुकः छान्दसत्वादभावः ॥
पङ्क्तिः १८०:
आश्रु॑त्ऽकर्ण । श्रु॒धि । हव॑म् । नु । चि॒त् । द॒धि॒ष्व॒ । मे॒ । गिरः॑ ।
 
इन्द्र॑ । स्तोम॑म् । इ॒मम् । मम॑ । कृ॒ष्व । यु॒जः । चि॒त् । अन्त॑रम् ॥९
 
आश्रुत्ऽकर्ण । श्रुधि । हवम् । नु । चित् । दधिष्व । मे । गिरः ।
 
इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥९
 
हे "आश्रुत्कर्ण सर्वतः श्रोतारौ कर्णौ यस्य तादृक् "इन्द्र "हवम् अस्मदीयमाह्वानं "नु क्षिप्रं "श्रुधि शृणु । "मे मम होतुः "गिरः "चित् स्तुतीरपि "दधिष्व चित्ते धारय । किंच "मम मदीयं "इमं "स्तोमं स्तोत्ररूपं वाक्समूहं "युजश्चित् स्वकीयसख्युरपि "अन्तरं "कृष्व आसन्नं कुरु । यथा वचनं तस्य प्रियं मन्यसे तद्वदस्मदीयस्तुतिष्वपि प्रीतिं कुरु इत्यर्थः ॥ आश्रुत्कर्ण । आ समन्तात् शृणुत इति आश्रुत्। क्विप् । ह्रस्वस्य तुक् (पा. सू. ६. १. ७१ )। तादृशौ कर्णौ यस्य ।' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । श्रुधी । ' श्रु श्रवणे' । लोटो हिः । श्रुवः शृ च ' ( पा. सू. ३. १. ७४ ) इति विहितश्नोः ‘बहुलं छन्दसि ' (पा. सू. २. ४. ७३) इति लुक् । तत्संनियोगशिष्टत्वात् शृभावोऽपि निवर्तते । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' (पा. सू. ६. ४. १०२) इति हेर्धिरादेशः । सति शिष्टत्वात् प्रत्ययस्वरः । आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १. ७२ ) इत्यविद्यमानत्त्वेन पदादपरत्वात् ‘तिङ्ङतिङः ' इति निघातो न भवति । संहितायाम् ‘अन्येषामपि दृश्यते' (पा. सू. ६. ३. १३७ ) इति दीर्घः । हवम् । 'ह्वेञ् स्पर्धायां शब्दे च ' । 'बहुलं छन्छसि । ( पा. सू. ६. १. ३४ ) इति अमनैमित्तिके संप्रसारणे कृते पश्चात् उकारान्तरत्वेन ‘ऋदोरप्' (पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । अपः पित्त्वात् धातुस्वरः । नु । संहितायाम् ‘ऋचि तुनुषमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३) इति दीर्घः। चित्। चादिः अनुदात्तः । दधिष्व। दधातेर्लोट्।‘थासः से'। ‘सवाभ्यां वामौ' (पा. सू. ३. ४.९१)। शपः श्लुः । अभ्यासस्य ह्रस्वत्वादि । ‘छन्दस्युभयथा' (पा. सू. ३. ४. ११७ ) इति आर्धधातुकस्यापि स्वीकारात् इडागमः। आकारलोपः। निघातः । तवममौ ङसि' (पा. सू. ७. २. ९६ ) इत्यनेन मपर्यन्तस्य ममादेशः । प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते ‘युष्मदस्मदोर्ङसि’ (पा. सू. ६. १. २११) इत्याद्युदात्तत्वम् । कृष्व । ‘डुकृञ् करणे'। लोट् ।' थासः से'।' सवाभ्यां वामौ '। शपो ‘बहुलं छन्दसि ' इति लुक् । सति शिष्टत्वात् प्रत्ययस्वरः । पादादित्वात् न निघातः । युजः। ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तेरुदात्त्वम्। अन्तरम् । वृषादित्वादाद्युदात्तः ॥
पङ्क्तिः १९५:
वि॒द्म । हि । त्वा॒ । वृष॑न्ऽतमम् । वाजे॑षु । ह॒व॒न॒ऽश्रुत॑म् ।
 
वृष॑न्ऽतमस्य । हू॒म॒हे॒ । ऊ॒तिम् । स॒ह॒स्र॒ऽसात॑माम् ॥१०
 
विद्म । हि । त्वा । वृषन्ऽतमम् । वाजेषु । हवनऽश्रुतम् ।
 
वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रऽसातमाम् ॥१०
 
हे इन्द्र त्वां "विद्म जानीमः। कीदृशं त्वाम् । "वृषन्तमं कामानामतिशयेन वर्षितारं "वाजेषु संग्रामेषु 'हवनश्रुतम् अस्मदीयस्याह्वानस्य श्रोतारम् । "वृषन्तमस्य अतिशयेन कामादीनां वर्षितुस्तव "ऊतिं रक्षामस्मद्विषयामुद्दिश्य "हूमहे त्वामाह्वयामः। कीदृशीमूतिम्। "सहस्रसातमाम् अतिशयेन धनसहस्राणां दात्रीम्॥ विद्म। ‘विदो लटो वा' (पा. सू. ३. ४.८३) इति मसो मादेशः । प्रत्ययस्वरेणान्तोदात्तः। ‘द्व्यचोऽतस्तिङः' (पा. सू. ६.३.१३५) इति संहितायां दीर्घः। वृषन्तमम्। ‘पृषु वृषु सृषु सेचने'। 'कनिन्युवृषितक्षिराजधन्विद्युप्रतिदिवः' (उ. सू. १. १५४) इति कनिन्। नित्त्वादाद्युदात्तः । तमपः पित्त्वात् स एव शिष्यते। ‘अयस्मयादीनि छन्दसि' (पा. सू. १. ४. २०) इति भत्वेन पदत्वाभावात् नलोपाभावः (पा. सू. ८. २.७)। वाजेषु । वाजशब्दो वृषादिः आद्युदात्तः । हवनश्रुतम्। ‘ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. ६. १. ३४) इति ल्युटि संप्रसारणम् । हवनं शृणोतीति क्विप्। तुगागमः । वृषन्तमस्य । उक्तम् । हूमहे। ‘ बहुलं छन्दसि ' इति संप्रसारणम्। ‘शपः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३) इति शपो लुक्। ऊतिम् । ऊतियूति' (पा. सू. ३. ३. ९७ ) इत्यादिना अन्तोदात्तो निपातितः । सहस्रसातमाम् । सहस्रं सनोतीति सहस्रसाः । ‘षणु दाने'। ‘जनसनखनक्रमगमो विट्’ (पा. सू. ३.२. ६७ )। ‘विड्वनोरनुनासिकस्यात् (पा. सू. ६. ४. ४१ ) इति आकारादेशः। कृदुत्तरपदप्रकृतिस्वरत्वं तमपः पित्वादेव शिष्यते ॥
पङ्क्तिः २१०:
आ । तु । नः॒ । इ॒न्द्र॒ । कौ॒शि॒क॒ । म॒न्द॒सा॒नः । सु॒तम् । पि॒ब॒ ।
 
नव्य॑म् । आयुः॑ । प्र । सु । ति॒र॒ । कृ॒धि । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥११
 
आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब ।
 
नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥११
 
हे "इन्द्र "तु क्षिप्रं "नः अस्मान् प्रति "आ गच्छतिशेषः । हे "कौशिक कुशिकस्य पुत्र इन्द्र "मन्दसानः हृष्टो भूत्वा "सुतम् अभिषुतं सोमं "पिब । यद्यपि विश्वामित्रः कुशिकस्य पुत्रस्तथापि तद्रूपेणेन्द्रस्यैवोत्पन्नत्वात् कुशिकपुत्रत्वमविरुद्धम् । अयं वृत्तान्तोऽनुक्रमणिकायामुक्तः-‘कुशिकस्त्वैषीरथिरिन्द्रतुल्यं पुत्रमिच्छन् ब्रह्मचर्यं चचार। तस्येन्द्र एव गाथी पुत्रो जज्ञे ' ( अनु. ऋ. सं. ३. १) इति । हे इन्द्र "नव्यं सर्वैर्देवैः स्तुत्यं कर्मानुष्ठानपरम् "आयुः जीवितं "प्र "सू "तिर प्रकर्षेण सुष्ठु वर्धय । ततो मां "सहस्रसां सहस्रसंख्याकलाभोपेतम् "ऋषिम् अतीन्द्रियद्रष्टारं "कृधि कुरु ॥ तु । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्' (पा. सू. ६. ३. १३३ ) इति दीर्घः। नः। संहितायाम् ‘उदात्तादनुदात्तस्य स्वरितः'। इन्द्र । आमन्त्रितनिघातः । कौशिक । निघातः । मन्दसानः हृष्यन् । “मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । ' असानच्' (उ. सू. २. २४३) इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' ( उ. सू. २. २४४ ) इति असानच् प्रत्ययः । चित्त्वादन्तोदात्तः । सुतम् । प्रत्ययस्वरः । नव्यम्। ‘णु स्तुतौ ।' अचो यत्' (पा. सू. ३. १. ९७ )। गुणः । ‘वान्तो यि प्रत्यये' (पा.सू. ६. १. ७९) इति अवादेशः । यतोऽनावः' इत्याद्युदातत्वम् । आयुः। ‘उसि, नित्' इत्यनुवृत्तौ ‘एतेर्णिच्च' (उ. सू. २. २७५) इति उसिप्रत्ययः । णित्त्वात् वृद्ध्यायादेशौ। नित्त्वादाद्युदात्तत्वम् । सु।' निपातस्य च ' इति संहितायां दीर्घत्वम् । तिर। तरतेर्व्यत्ययेन शः । ‘ऋत इद्धातोः' (पा. सू. ७. १. १००) इति इत्वम् । अतो हेः' (पा. सू. ६. ४. १०५) इति हेर्लुक्। कृधि ।' डुकृञ् करणे'। ‘बहुलं छन्दसि' इति शपो लुक् । “ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । सहस्रताम् । उक्तम् । ऋषिम् । 'ऋषी गतौ'। ‘इन्' इत्यनुवृत्तौ ‘इगुपधात्किञ्च' ( उ. सू.४. ५५९)। कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् ॥
पङ्क्तिः २२७:
परि॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इ॒माः । भ॒व॒न्तु॒ । वि॒श्वतः॑ ।
 
वृ॒द्धऽआ॑युम् । अनु॑ । वृद्ध॑यः । जुष्टाः॑ । भ॒व॒न्तु॒ । जुष्ट॑यः ॥१२
 
परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः ।
 
वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥१२
 
हे "गिर्वणः अस्मदीयस्तुतिभागिन्द्र "विश्वतः सर्वेषु कर्मसु प्रयुज्यमानाः "इमाः "गिरः अस्मदीयाः स्तुतयः "त्वा त्वां "परि "भवन्तु सर्वतः प्राप्नुवन्तु । कीदृश्यो गिरः । "वृद्धायुमनु प्रवृद्धेनायुष्येणोपेतं त्वामनुसृत्व "वृद्धयः वर्धमानाः । किं च एता गिरः "जुष्टाः त्वया सेविताः सत्यः "जुष्टयः अस्माकं प्रीतिहेतवः "भवन्तु ॥ गिर्वणः । गीर्भिर्वन्यत इति गिर्वणः । वन षण संभक्तौ । ‘सर्वधातुभ्योऽसुन्' । गिरः। उपधाया दीर्घाभावश्छन्दसः । आमन्त्रितनिघातः । विश्वतः । ‘लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम् । वृद्धायुम् । वृधु वृद्धौ' । क्तप्रत्ययः । ‘उदितो वा ' ( पा. सु. ७. २. ५६ ) इति इटः क्त्वाप्रत्यये विकल्पितत्वात् ' यस्य विभाषा' (पा. सू. ७. २. १५) इति निष्ठायाम् इडभावः । प्रत्ययस्वरः।' इण् गतौ । ‘छन्दसीणः ' ( उ. सू. १. २) इति उण् । णित्वात् वृद्धिः आयादेशश्च। वृद्धमायुर्यस्य। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृद्धयः । वृधेः क्तिनि ‘ तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडभावः । नित्त्वादाद्युदात्तत्वम् । जुष्टाः । श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४) इति इडभावः। ‘जुष्टार्पिते इत्यनुवृत्तौ ‘ नित्यं मन्त्रे' ( पा. सू. ६. १. २१०) इत्याद्युदात्तत्वम् । जुष्टयः । ‘जुषी प्रीतिसेवनयोः '। क्तिन् । 'तितुत्र' इति इडभावः । नित्त्वादाद्युदात्तः ॥ ॥ २० ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्