"ऋग्वेदः सूक्तं १०.१५४" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २४:
{{सायणभाष्यम्|
सोमः ' इति पञ्चर्चं तृतीयं सूक्तमानुष्टुभम् । विवस्वतो दुहिता यम्यृषिः । म्रियमाणानां यजमानादीनां वर्तनमत्र प्रतिपाद्यते । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तं -- सोमो यमी भाववृत्तमानुष्टुभं तु ' इति । प्रेतोपस्थान एतत्सूक्तम् । सूत्रितं च - ‘ सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ ' ( आश्व. श्रौ. ६. १०) इति ॥
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
Line ३५ ⟶ ३८:
येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥१
“एकेभ्यः केभ्यश्चित् पितृभ्यः "सोमः "पवते । उपभोगाय कुल्यारूपेण प्रवहति । एषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते । श्रूयते हि -- यत्सामानि सोम एभ्यः पवते ' (तै. आ. २. १० ) इति । “एके अन्ये पितरः “घृतम् आज्यम् “उपासते उपगच्छन्ति । उपभुञ्जत इत्यर्थः । एषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते । श्रुतिश्च भवति – 'यद्यजूंषि घृतस्य कुल्या ' इति । "येभ्यः पितृभ्यः । तादर्थ्ये चतुथीं । उपभोगार्थं "मधु क्षौद्रं "प्रधावति प्रवाहरूपेण शीघ्रं गच्छति । य अथर्वणान् मन्त्रान् ब्रह्मयज्ञार्थमधीयते तेषां पितॄन् मधुकुल्या प्रवहति । तथा चाम्नायते-- यदाथर्वणाङ्गिरसो मधोः कुल्या ' इति । "तांश्चिदेव तान् पूर्वोक्तान् सर्वानेव हे प्रेत त्वं "अपि "गच्छतात् अपिगच्छ प्राप्नुहि ।।
Line ४८ ⟶ ५३:
तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥२
“ये जनाः "तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तः "अनाधृष्याः पापैरप्रधृष्या भवन्ति । “ये च "तपसा यागादिरूपेण साधनेन "स्वर्ययुः स्वर्गं यान्ति प्राप्नुवन्ति । "ये च "महः महत् “तपः अन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा “चक्रिरे कुर्वन्ति एतेषु प्रवर्तन्ते तेषु लोकेषु । “तांश्चित् तानेव तपस्विनो हे प्रेत अपिगच्छ ।।
Line ६१ ⟶ ६८:
ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥३
“प्रधनेषु । प्रकीर्णान्यस्मिन् धनानि भवन्तीति प्रधनाः संग्रामाः । तेषु “शूरासः शौर्यवन्तः “ये “युध्यन्ते शत्रून् संप्रहरन्ति । “ये च “तनूत्यजः शरीराणां तत्र त्यक्तारो भवन्ति । “ये “वा ये च “सहस्रदक्षिणाः सहस्रदक्षिणान् क्रतून् अनुष्ठितवन्तः । “तान् सर्वान् “एव त्वमपिगच्छ । येषूत्तमेषु
लोकेषु ते निवसन्ति तं लोकं प्राप्नुहीत्यर्थः ।।
Line ७४ ⟶ ८४:
पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥४
“ये “चित् ये च “पूर्वे पूर्वपुरुषाः “ऋतसापः ऋतं सत्यं यज्ञं वा स्पृशन्तः अत एव “ऋतावानः ऋतेन युक्ताः “ऋतावृधः ऋतस्य वर्धकाश्च भवन्ति “तपस्वतः तपसा युक्तान् तान् “एव पितॄन् हे “यम नियत त्वमपिगच्छ ।।
Line ८८ ⟶ १००:
ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥५
“सहस्रनीथाः सहस्रनयनाः “कवयः क्रान्तदर्शिनः “ये “सूर्यम् अमुमादित्यं “गोपायन्ति रक्षन्ति “तपस्वतः तपसा युक्तान् “तपोजान् तपसः सकाशादेवोत्पन्नान् तान् “ऋषीन् हे “यम नियत त्वमपिगच्छ ।। ।। १२ ।।
|