"ऋग्वेदः सूक्तं १०.१५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
शिरिम्बिठस्य । सत्वऽभिः । तेभिः । त्वा । चातयामसि ॥१
 
हे “अरायि अदायिनि दानविरोधिनि हे “काणे कुत्सितशब्दकारिणि कुत्सितदर्शने वा हे “विकटे विकृतगमने विस्ताङ्गि वा हे सदान्वे सदानोनुवे सर्वदाक्रोशकारिणि दुर्भिक्षादिदेवते “गिरिं पर्वतं निर्जनं देशं “गच्छ । अस्मान् मा बाधिष्ठाः । “शिरिम्बिठस्य। पीपरिस्थिव्स्य । बिठमन्तरिक्षम् । शीर्यते विठेऽन्तरिक्ष इति शिरिम्बिठो मेघः । तस्य “सत्वभिः अन्तर्वर्तमानैरुदकैः “तेभिः तैः “त्वा त्वां “चातयामसि चातयामः विनाशयामः । यद्वा । शिरिम्बिठस्यैतत्संज्ञकस्य भरद्वाजपुत्रस्व तेभिस्तैः अनुष्ठितैः सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः । इतस्त्वमेव शीघ्रं गिरिं गच्छ ।।
 
 
च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा॑ भ्रू॒णान्या॒रुषी॑ ।
Line ५२ ⟶ ५३:
 
अराय्यम् । ब्रह्मणः । पते । तीक्ष्णऽशृङ्ग । उत्ऽऋषन् । इहि ॥२
 
सालक्ष्मीः “इतः अस्माल्लोकात् “चत्तः चत्तैवास्माभिर्नाशितैव “अमुतः अमुष्मादपि लोकात् “चत्ता हिंसिता भवतु । यालक्ष्मीः “सर्वा सर्वाणि “भ्रूणानि गर्भजातानि सर्वासामोषधीनामङ्कुराणि या दुर्भिक्षाधिदेवता “आरुषी आहन्त्री भवति “अराय्यम् अदात्रीं दानविरोधिनीं तां हे “ब्रह्मणस्पते मन्त्रस्य पालयितर्देव हे “तीक्ष्णशृङ्ग तीक्ष्णतेजस्क “उदृषन् अस्मात्स्थानादुद्गमयन् “इहि गच्छ ।।
 
 
Line ६६ ⟶ ६९:
तत् । आ । रभस्व । दुर्हनो इति दुःऽहनो । तेन । गच्छ । परःऽतरम् ॥३
 
“अदः विप्रकृष्टदेशे वर्तमानम् “अपूरुषं निर्मात्रा पुरुषेण रहितं “यद्दारु दारुमयं पुरुषोत्तमाख्यं देवताशरीरं “सिन्धोः “पारे समुद्रतीरे “प्लवते जलस्योपरि वर्तते “तत् दारू हे “दुर्हणो दुःखेन हननीय केनापि हन्तुमशक्य हे स्तोतः “आ “रभस्व आलम्बस्व । उपास्स्वेत्यर्थः । “तेन दारुमयेण
देवेनोपास्यमानेन “परस्तरम् अतिशयेन तरणीयमुत्कृष्टं वैष्णवं लोकं “गच्छ । अपर आह । हे दुर्हणो दुःखेन हननीये दुष्टहनुयुक्ते वा हे अलक्ष्मि सिन्धोः पारे समुद्रतीरप्रान्तेऽपूरुषं पुरुषैर्जनैर्वियुक्तमदोऽस्मत्तो दूरे देशे वर्तमानं यद्दारु दारुमयी नौः प्लवते तद्दारु आ रभस्व परिगृहाण । गृहीत्वा
च तेन दारुणा परस्तरमतिशयेन तरणीयं ब्रह्मणस्पतिना प्रेरिता सती द्वीपान्तरं गच्छ ।।
 
 
षष्ठेऽहनि तृतीयसवने ब्रह्मशस्त्रे ' यद्ध प्राचीः ' इत्येषा । सूत्रितं च - ' कपृन्नरो यद्ध प्राचीरजगन्तेति चैते ' ( आश्व. श्रौ. ८. ३) इति ।।
 
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।
Line ७८ ⟶ ८७:
 
हताः । इन्द्रस्य । शत्रवः । सर्वे । बुद्बुदऽयाशवः ॥४
 
हे “मण्डूरधाणिकीः मण्डूरवत् कुत्सितशब्दकारिण्यो मन्दनस्य धनस्य धारयित्र्यो वालक्ष्म्यः उरः ।। उर्वी हिंसार्थः । अस्मात्क्विपि ' राल्लोपः ' इति वलोपः । ततो जसि रूपमेतत् ।। हिंसित्र्यो यूयं “प्राची प्रकर्षेणाञ्चन्त्यः प्रकृष्टगमनाः सत्यो “यद्ध यदा खलु “अजगन्त अगच्छत ।। गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः । ' तप्तनप्तनथनाश्च ' इति तस्य तबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपो न भवति ।। तदानीमेव “सर्वे “इन्द्रस्य “शत्रवः “बुद्बुदयाशयः । यान्ति गच्छन्तीति याः । अश्नुवत इत्याशवः । याश्च त आशवश्च याशवः । बुद्बुदवद्यातारो व्यापनशीलाश्च सन्तः “हताः नष्टा आसन् ।।
 
 
Line ९१ ⟶ १०२:
 
देवेषु । अक्रत । श्रवः । कः । इमान् । आ । दधर्षति ॥५
 
“इमे विश्वे देवाः “गाम् । जात्यभिप्रायमेकवचनम् । पणिभिरपहृताः सर्वा देवगवीः “परि “अनेषत पर्यनयन् । यष्टॄनङ्गिरसः परिप्रापयन् । ततः “अग्निं च “परि “अहृषत परितो व्यहरन् । यागार्थं तत्र तत्र गार्हपत्यादिरूपेण स्थापितवन्त इत्यर्थः । एवं कृत्वा “देवेषु यष्टव्येष्विन्द्रादिषु “श्रवः अन्नम् “अक्रत अकृषत । “कः शत्रुरसुरादिः “इमान् विश्वान् देवान् “आ “दधर्षति अभिभवितुं शक्नोति । न कश्चिदित्यर्थः ।। ।। १३ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५५" इत्यस्माद् प्रतिप्राप्तम्