"ऋग्वेदः सूक्तं १०.१६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
' अक्षीभ्याम् ' इति षडृचं द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः । यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम् । अनुक्रान्तं च -अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नम् ' इति । लैङ्गिको विनियोगः ।।
 
 
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
Line ३७ ⟶ ३९:
 
यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥१
 
हे यक्ष्मगृहीत “ते तव “अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं “वि “वृहामि उद्धारयामि । विश्लेषयामीत्यर्थः ।। ' ई च द्विवचने ' ( पा. सू ७.१. ७७) इत्यक्षिशब्दस्येकारान्तादेशः । स चोदात्तः ।। तथा “नासिकाभ्यां घ्राणेन्द्रियाच्च “कर्णाभ्यां श्रोत्राभ्यां च “छुबुकात् चुबुकादोष्ठस्याधःप्रदेशाच्च ।
अधिरनर्थकः । अपि च “शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः । ' भवे छन्दसि ' इति यत् । ' ये च तद्धिते ' ( पा. सू. ६. १. ६१) इति शिरसः शीर्षन्नादेशः । ' ये चाभावकर्मणोः ' ( पा. सू. ६.४.१६८) इति प्रकृतिभावः ।। ईदृशं “यक्ष्मं रोगं “ते तव “मस्तिष्कात् । शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः । तस्मात् “जिह्वायाः रसनायाश्च सकाशाद्वि वृहामि उद्धारयामि । पृथक्करोमीत्यर्थः । ' वृहू उद्यमने ' इति धातुः ।।
 
 
Line ५० ⟶ ५५:
 
यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥२
 
हे व्याधिगृहीत “उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यः “ग्रीवाभ्यः गलगताभ्यो धमनीभ्यः “ते तव “यक्ष्मं “वि “वृहामि । तथा “कीकसाभ्यः अस्थिभ्यः “अनूक्यात् अस्थिसंधेश्च यक्ष्मं वि वृहामि । ' उच समवाये ' । अनूच्यते समवेयत इत्यस्थ्नः संधिरनूक्यः । ऋहलोर्ण्यत् । ' चजोः कु धिण्ण्यतोः ' इति कुत्वम् । तित्स्वरितः । अपि च दोष्णोर्भवं “दोषण्यम् । पूर्ववद्यति ' पद्दन्' इत्यादिना दोःशब्दस्य दोषन्नादेशः । पूर्ववत्प्रकृतिभावः । तमपि यक्ष्मं रोगं “ते तव “अंसाभ्यां “बाहुभ्यां च वि वृहामि । हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू ।।
 
 
Line ६३ ⟶ ७०:
 
यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥३
 
हे यक्ष्माभिभूत “ते तव “आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम् । तत्संबन्धिभ्यः स्नायुभ्यः “गुदाभ्यः याभिर्नाडीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो नाडीभ्यश्च सकाशात् यक्ष्मं वि वृहामि । तथा “वनिष्ठोः स्थविरान्त्रात् “हृदयादधि हृदयपुण्डरीकाच्च यक्ष्मं वि वृहामि । अपि च “ते तव “मतस्नाभ्याम् । मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ । ताभ्यां “यक्नः। हृदयसमीपे वर्तमानः कालमांसविशेषो यकृत् । तस्माच्च । ' पद्दन् ' इत्यादिना यकृच्छब्दस्य यकन्नादेशः । “प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यश्च मांसेभ्यश्च “यक्ष्मं रोगं “वि “वृहामि उत्क्षिपामि ।।
 
 
Line ७६ ⟶ ८५:
 
यक्ष्मम् । श्रोणिऽभ्याम् । भासदात् । भंससः । वि । वृहामि । ते ॥४
 
हे रुग्ण “ते तव “ऊरुभ्याम् “अष्ठीवद्भ्यां जानुभ्यां च “यक्ष्मं “वि “वृहामि । तथा “पार्ष्णिभ्यां पादस्यापरभागाभ्यां “प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि । अपि च “श्रोणिभ्यां जघनाभ्यां च यक्ष्मं वि वृहामि । तथा “भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् “भससः भासमानात् पायोः “ते तव यक्ष्मं वि वृहामि ।।
 
 
Line ८९ ⟶ १००:
 
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥५
 
“वनंकरणात् । वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनंकरणम् । तस्मात् “मेहनात् मेढ्रात् “ते तव “लोमभ्यः “नखेभ्यः च “यक्ष्मं “वि “वृहामि । किं बहुना । “इदम् इदानीं “तं यक्ष्मं “सर्वस्मादात्मनः कृत्स्नादेव “ते तव शरीरात् वि वृहामि ।।
 
 
Line १०२ ⟶ ११५:
 
यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥६
 
“अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यः “लोम्नोलोम्नः सर्वेभ्यो लोमभ्यश्च “पर्वणिपर्वणि अवयवानां संधौ “जातम् उत्पन्नं “यक्ष्मं “वि “वृहामि । अन्यद्गतम् ।। ।। २१ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६३" इत्यस्माद् प्रतिप्राप्तम्