"ऋग्वेदः सूक्तं १०.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
' अपेहि ' इति पञ्चर्चं त्रयोदशं सूक्तमाङ्गिरसस्य प्रचेतस आर्षम् । तृतीया त्रिष्टुप् पञ्चमी पङ्क्तिः । दुःस्वप्ननाशनं देवता । तथा चानुक्रान्तम्-अपेहि पञ्च प्रचेता दुःस्वप्नघ्नं पङ्य्त् न्तं त्रिष्टुम्मध्यम् ' इति । लैङ्गिको विनियोगः ।।
 
 
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
Line ३६ ⟶ ३८:
 
परः । निःऽऋत्यै । आ । चक्ष्व । बहुधा । जीवतः । मनः ॥१
 
हे “मनसस्यते स्वप्नावस्थस्य मनसः स्वामिन् दुःस्वप्नाधिदेव “अपेहि अपगच्छ । स्वप्नावस्थावतो मत्तो निर्गच्छ । निर्गत्य च “अप “क्राम । देशान्तरं गन्तुं पादौ विक्षिप । दूरदेशं गच्छेत्यर्थः । अपक्रम्य च “परः परस्ताद्विप्रकृष्टे देशे “चर यथेच्छं वर्तस्व । अपि च “निर्ऋत्यै पापदेवतायै “परः परस्ताद्वर्तमानायै “आ “चक्ष्व । वयं न बाधनीया इति प्रब्रूहि । “जीवतः मम “मनः “बहुधा बहुप्रकारं भवति । भोक्तव्येषु बहुषु विषयेषूत्सुकं सत् वर्तते । अतस्तद्विनाशकं दुःस्वप्नदर्शनं नश्यत्वित्यर्थः ।।
 
 
Line ४९ ⟶ ५३:
 
भद्रम् । वैवस्वते । चक्षुः । बहुऽत्रा । जीवतः । मनः ॥२
 
“भद्रं “वै शोभनमेव “वरं वरणीयं दुःस्वप्नविनाशरूपं फलं “वृणते सर्वे जनाः प्रार्थयन्ते । “दक्षिणं प्रवृद्धं “भद्रं शोभनं तत्फलं युञ्जन्ति प्राप्नुवन्ति च । “वैवस्वते विवस्वतः पुत्रे यमे विषये “भद्रं शोभनमेव “चक्षुः दर्शनमहं प्रार्थये । दुःस्वप्नाधिदेवो वैवस्वतोऽस्मान्मा वाधताम् । भद्रमेव दर्शनमिह लोकेऽवस्थानलक्षणं करोत्वित्यर्थः । “बहुत्रा बहुषु हि विषयेषु “जीवतः मम “मनः वर्तते ।।
 
 
Line ६२ ⟶ ६८:
 
अग्निः । विश्वानि । अप । दुःऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥३
 
“यत् दुष्कृतम् “आशसा आशंसनेनाभिलाषेण “जाग्रतः जागरणावस्थायां वर्तमाना वयम् “उपारिम उपगतवन्तः स्म “यत् च “स्वपन्तः स्वप्नावस्थां प्राप्ता उपगतवन्तः स्म । तथा “निःशसा निःशंसनेन निर्गताभिलाषेण “अभिशसा अभिगताभिलाषेण च कारणेनावस्थाद्वये यद्दुष्कृतमुपागच्छेम । तानि “विश्वानि सर्वाणि “अजुष्टानि असेव्यान्यप्रियाणि वा “दुष्कृतानि दुष्कर्माणि “अग्निः “अस्मत् “आरे अस्मत्तो दूरदेशे “अप “दधातु अपकृष्य स्थापयतु ।।
 
 
Line ७५ ⟶ ८३:
 
प्रऽचेताः । नः । आङ्गिरसः । द्विषताम् । पातु । अंहसः ॥४
 
हे "इन्द्र हे "ब्रह्मणस्पते युवयोर्विषये "यत् "अभिद्रोहम् अभितो द्रोहकं पापं दुःस्वप्नकारणं "चरामसि आचरामः कुर्मः तस्मादभिद्रोहादस्मात् रक्षतमिति शेषः । अपि च "आङ्गिरसः अङ्गिरोभिः स्तोतृभिः सबान्धवः "प्रचेताः प्रकृष्टज्ञानो वरुणश्च "द्विषतां द्वेष्टॄणाम् "अंहसः तत्कर्तृकादस्मद्विषयात्पापात् "नः अस्मान् "पातु रक्षतु । यद्वा । विभक्तिव्यत्ययः । आङ्गिरसमङ्गिरोगोत्रं प्रचेतसमृषिं नः । वचनव्यत्ययः । मां द्विषतामंहसः पातु । प्रकृतत्वादिन्द्र इति गम्यते ।।
 
 
Line ८८ ⟶ ९८:
 
जाग्रत्ऽस्वप्नः । सम्ऽकल्पः । पापः । यम् । द्विष्मः । तम् । सः । ऋच्छतु । यः । नः । द्वेष्टि । तम् । ऋच्छतु ॥५
 
"अद्य अस्मिन् काले "अजैष्म । जेतव्यानि सर्वाणि जितवन्तोऽभूम दुःस्वप्नस्य नष्टत्वात्। तदनन्तरम् "असनाम "च संभक्तव्यानि च समभजाम । तथा "वयम् "अनागसः अनपराधाश्च "अभूम । जाग्रत्स्वप्नावस्थयोः संबन्धी "पापः पापफलरूपः "सः "संकल्पः दुःस्वप्नाध्यवसायः "यं शत्रुं वयं "द्विष्मः "तम् "ऋच्छतु प्राप्नोतु । "यः च "नः अस्मान् "द्वेष्टि "तमृच्छतु प्राप्नोतु ।।।।२२ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६४" इत्यस्माद् प्रतिप्राप्तम्