"ऋग्वेदः सूक्तं १०.१६५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
' देवाः ' इति पञ्चर्चं चतुर्दशं सूक्तं निर्ऋतिपुत्रस्य कपोताख्यस्यार्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तं - ' देवा नैर्ऋतः कपोतः कपोतोपहतौ प्रायश्चित्तं वैश्वदेवम् ' इति । कपोतो यदि गृहं प्रविशेत् तदानेन सूक्तेन होतव्यम् । सूत्र्यते हि -' कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत इति प्रत्यृचं जुहुयाज्जपेद्वा ' ( आश्व. गृ. ३.७.७) इति ।।
 
 
देवाः॑ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑ ।
Line ३६ ⟶ ३८:
 
तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥१
 
हे "देवाः "इषितः प्राप्तः निर्ऋत्याः पापदेवतायाः "दूतः अनुचरः "कपोतः "यत् बाधनम् "इच्छन् अभिलषन् "इदम् अस्मदीयं गृहम् "आजगाम प्राप्नोत् "तस्मै बाधनाय तद्बाधननिवृत्त्यर्थम् "अर्चाम । युष्मान् हविषा पूजयाम । ततः "निष्कृतिं कपोतप्रवेशजन्यस्य दोषस्य परिहृतिं "कृणवाम । अनेन हविर्दानेन करवाम । अतः "नः अस्माकं "द्विपदे पुत्राय "शं सुखम् "अस्तु "चतुष्पदे गवाश्वप्रभृतये च "शं सुखमस्तु ।।
 
 
Line ४९ ⟶ ५३:
 
अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥२
 
हे “देवाः "नः अस्माकं "गृहेषु “इषितः गतः कपोताख्यः “शकुनः पक्षी “शिवः सुखकरः “अनागाः अपापहेतुश्च “अस्तु । "हि यस्मात् "विप्रः मेधावी "अग्निः “नः अस्माकं “हविः युष्मभ्यं परिकल्पितं "जुषतां जुषते अतो युष्मत्प्रसादात् "पक्षिणी पक्षोपेता "हेतिः हननहेतुः कपोतः “नः अस्मान् "परि "वृणक्तु अस्मान् परित्यजतु । मा बाधितामित्यर्थः ॥
 
 
Line ६२ ⟶ ६८:
 
शम् । नः । गोभ्यः । च । पुरुषेभ्यः । च । अस्तु । मा । नः । हिंसीत् । इह । देवाः । कपोतः ॥३
 
“पक्षिणी पक्षोपेता "हॆतिः हननहेतुः कपोतः "अस्मान् “न “दभाति न हिनस्तु । “आष्ट्र्यां व्याप्तायामरण्यान्याम् "अग्निधाने अग्निर्निधीयतेऽस्मिन्नित्यग्निसहिते प्रदेशे “पदं स्थानं "कृणुते करोति । तत्रैव प्रदेशे निवसत्वित्यर्थः । यद्वा । अश्नन्त्यस्मिन्नित्याष्ट्री पचनशाला । तस्याम् । अग्निधाने यत्र पचनाग्निर्निधीयते तस्मिन् प्रदेशे पदं पादनिधानं कृणुते करोति । तद्धेतुको बाधो नोऽस्माकं न भवत्वित्यर्थः । अपि च "नः अस्माकं “गोभ्यश्च “पुरुषेभ्यश्च “शं सुख शंसनीयानां दोषाणां शान्तिर्वा “अस्तु भवतु । हे "देवाः “इह अस्मिन् गृहे "कपोतः "नः अस्मान् "मा “हिंसीत् । युष्मदनुग्रहात् मा बाधताम् ।।
 
 
Line ७५ ⟶ ८३:
 
यस्य । दूतः । प्रऽहितः । एषः । एतत् । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥४
 
“उलूकः घूकसंज्ञः पक्षी "यत् अशोभनं "वदति ब्रवीति आत्मीयेन शब्देन सूचयति “एतत् “मोघं निष्फलमस्तु । "कपोतः च "अग्नौ अग्निमति गृहमध्ये “यत् "पदं "कृणोति करोति एतदपि मोघं निर्वीर्यमस्तु । “प्रहितः प्रेषितः "एषः कपोतः “यस्य स्वामिनः “दूतः अनुचरो भवति "तस्मै नाम “मृत्यवै मारयित्रे "यमाय “एतत् "नमः प्रणामः "अस्तु भवतु ॥
 
 
Line ८८ ⟶ ९८:
 
सम्ऽयोपयन्तः । दुःऽइतानि । विश्वा । हित्वा । नः । ऊर्जम् । प्र । पतात् । पतिष्ठः ॥५
 
हे देवाः “ऋचा मन्त्रेण स्तूयमानाः सन्तो यूयं "प्रणोदं प्रकर्षेण नोदनीयं बहिष्कर्तव्यं "कपोतं पक्षिणं "नुदत अस्माद्गृहात् प्रेरयत निर्गमयत । तथा "मदन्तः अस्माभिर्दत्तैर्हविर्भिर्माद्यन्तः “इषम् अन्नं “गां च “परि “णयध्वं परितोऽस्मभ्यं प्रापयत । किं कुर्वन्तः । "विश्वा विश्वानि सर्वाणि “दुरितानि कपोतोपहतिजन्यानि दोषजातानि "संयोपयन्तः अदृश्यानि कुर्वन्तः । अपि च “पतिष्ठः अतिशयेन पतिता शीघ्रोत्पातकः१ कपोतः “नः अस्माकम् "ऊर्जम् अन्नं "हित्वा परित्यज्य “प्र “पतात् प्रकर्षेण पततु । पक्षाभ्यामुत्पततु ॥ ॥२३॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६५" इत्यस्माद् प्रतिप्राप्तम्