"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
' ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम् -'--- ‘ ऋषभमृषभोऋषभमऋषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति; प्रयाणसमये ' ' ' प्रयाणसमये.......जपेत् । सूत्रितं च --' ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ.[https://sa.wikisource.org/s/t6o २. ६. १३]) इति ।।
 
 
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
Line ३५ ⟶ ३७:
 
हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥१
 
१.हे सपत्ननाशनाभिमानिन्निन्द्र "मा मां "समानानां सदृशानामस्मत्कुलीनानां मध्ये ऋषभम्“ऋषभम् ऋषभवत्प्रशस्तं "कृधि कुरु ।कुरु। तथा सपत्नानां“स पत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु ।कुरु। येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः । अपि च "शत्रूणाम् अन्येषामपि शातयितॄणां वैरिणां हन्तारं हिंसितारं "कृधि कुरु । तथा "विराजं विशेषेण राजमानं गोपतिं“गोपतिं गोस्वामिनं च मां कुरु । न केवलमेकस्या एव गोः पतिम् अपि तु सर्वासामित्याह गवाम्“गवाम् इति ।।
 
 
Line ४८ ⟶ ५२:
 
अधः । सऽपत्नाः । मे । पदोः । इमे । सर्वे । अभिऽस्थिताः ॥२
 
"अहं "सपत्नहा सपत्नानां शत्रूणां हन्ता "अस्मि भवामि। “इन्द्रइव इन्द्रो यथा केनाप्यहिंसितो भवति तथाहमपि "अरिष्टः अहिंसितः "अक्षतः अव्रणश्च भवामि । "इमे दृश्यमानाः "सर्वे “सपत्नाः "मे मम “पदोः पादयोः "अधः अधस्तात "अभिष्ठिताः आक्रान्ता भवन्तु ॥
 
 
Line ६१ ⟶ ६७:
 
वाचः । पते । नि । सेध । इमान् । यथा । मत् । अधरम् । वदान् ॥३
 
हे सपत्ना यत्र देशे यूयं निवसथ "अत्रैव अस्मिन्नेव देशे “वः युष्मान् "अपि “नह्यामि अपिनद्धान् पाशैर्बद्धान् करोमि "ज्यया मौर्व्या उभे आर्त्नीइव । यथा द्वे धनुषः कोटी दृढं बध्येते तथेत्यर्थः । हे “वाचस्पते वाचः शब्दस्य पालयितर्देव “इमान् सपत्नान् "नि “षेध प्रतिषेध। "यथा येन प्रकारेण "मत् मत्तः "अधरं निकृष्टतरं "वदान् वदन्ति तथा निरुद्धवाचः कुर्वित्यर्थः ॥
 
 
Line ७४ ⟶ ८२:
 
आ । वः । चित्तम् । आ । वः । व्रतम् । आ । वः । अहम् । सम्ऽइतिम् । ददे ॥४
 
हे सपत्नाः "अभिभूः अभिभविता "अहं "विश्वकर्मेण सर्वकर्मक्षमेण “धाम्ना धारकेण तेजसा बलेन वा सार्धम् "आगमम् आगतवानस्मि । अतः "वः युष्माकं "चित्तं मनः “आ “ददे गृह्णामि । मनोगतं धैर्यं हरामीत्यर्थः। “वः युष्माकं “व्रतं कर्म चाहम् "आ ददे। “वः युष्मदीयः यः समितिः संग्रामः तं च "अहम् "आ ददे अपहरामि ॥
 
 
Line ८८ ⟶ ९८:
अधःऽपदात् । मे । उत् । वदत । मण्डूकाःऽइव । उदकात् । मण्डूकाः । उदकात्ऽइव ॥५
 
हे सपत्नाः "वः युष्माकं "योगक्षेमम् । अप्राप्तस्य धनस्य प्राप्तिर्योगः । प्राप्तस्य रक्षणं क्षेमः । तदुभयम् "आदाय युष्मत्तो गृहीत्वा "अहम् “उत्तमः श्रेष्ठः "भूयासम् । ततः "वः युष्माकं "मूर्धानं शिरः “आ “अक्रमीम् आक्रमिषम् । पादेनाधितिष्ठामि ॥ क्रमेर्लुङि अमो मश् (पा. सू. ७.१.४०)। ‘ इट ईटि ' (पा. सू. ८. २. २८) इति सिचो लोपः ।। अनन्तरं “मे मम “अधस्पदात् पादस्याधस्ताद्वर्तमाना यूयम् "उद्वदत उच्चैराक्रोशत। “उदकात् वृष्टाज्जलादधःप्रदेशे वर्तमानाः "मण्डूकाइव । यथा ते भृशमाक्रोशन्ति तथोद्वदतेत्यर्थः । “मण्डूका “उदकादिव इति पुनरुक्तिरादरार्था ॥ ॥२४॥
}}
 
}}
==सायणभाष्यम् ==
' ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' ऋषभमृषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति; प्रयाणसमये ' ' ' जपेत् । सूत्रितं च--' ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ.[https://sa.wikisource.org/s/t6o २.६.१३]) इति ।।
 
१.हे सपत्ननाशनाभिमानिन्निन्द्र मां समानानां सदृशानामस्मत्कुलीनानां मध्ये ऋषभम् ऋषभवत्प्रशस्तं कृधि कुरु । तथा सपत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु । येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः । अपि च शत्रूणाम् अन्येषामपि शातयितॄणां वैरिणां हन्तारं हिंसितारं कृधि कुरु । तथा विराजं विशेषेण राजमानं गोपतिं गोस्वामिनं च मां कुरु । न केवलमेकस्या एव गोः पतिम् अपि तु सर्वासामित्याह गवाम् इति ।।
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्