"ऋग्वेदः सूक्तं १०.१६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘वातस्य' इति चतुर्ऋचं सप्तदशं सूक्तं वातगोत्रस्यानिलाख्यस्यार्षं त्रैष्टुभं वायुदेवताकम् । तथा चानुक्रान्तं -- वातस्यानिलो वातायनो वायव्यम् ' इति । गतो विनियोगः ॥
 
 
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोषः॑ ।
Line ३३ ⟶ ३५:
 
दिविऽस्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन् ॥१
 
“वातस्य वायोः "रथस्य रंहणशीलस्य "महिमानं माहात्म्यं नु क्षिप्रं प्रब्रवीमि । "अस्य वायोः “घोषः शब्दः “स्तनयन् गिरिगह्वरादिषु विविधं शब्दमुत्पादयन् "रुजन् सर्वं स्थावरजङ्गमजातं भञ्जन् “एति गच्छति । स च वायुः "दिविस्पृक् दिवमाकाशं स्पृशन् व्याप्नुवन् "अरुणानि अरूणवर्णानि विकृतरूपाणि दिगन्तराणि "कृण्वन् कुर्वन् “याति प्राप्नोति । “उतो अपि च “पृथिव्या भूमेः "रेणुं पांसुम् "अस्यन् गृहीत्वा सर्वत्र विक्षिपन् "एति गच्छति । अत एव अरुणानि कृण्वन् इत्युक्तम् ॥
 
 
Line ४६ ⟶ ५०:
 
ताभिः । सऽयुक् । सऽरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥२
 
“विष्ठाः विशेषणावस्थिताः पर्वताद्याः “वातस्य वायोरनुगुणं “सं "प्रेरते संप्रगच्छन्ति । यदभिमुखो वायुर्वर्तते तदभिमुखाः प्रकम्पन्त इत्यर्थः । “समनं “न संग्राममिव “एनं वायुं “योषाः अश्वयोषितो वडवाः “आ “गच्छन्ति । “ताभिः वडवाभिः "स्वयुक् स्वयमेव युज्यमानं "सरथं समानमेकं रथमारुह्य “देवः दीप्यमानः वायुः “ईयते गच्छति । ' ईङ् गतौ ' । “अस्य “विश्वस्य सर्वस्य “भुवनस्य द्वितीयविकारभाजो भूतजातस्य “राजा स्वामी भवति । यद्वा । समनं धृष्टं पुरुषं योषाः कामिन्य इव एवं वायुं तरुगुल्मादिरूपाः स्त्रियोऽभिगच्छन्ति । ताभिः सरथं सहरथं देव ईयत इति ।।
 
 
Line ५९ ⟶ ६५:
 
अपाम् । सखा । प्रथमऽजाः । ऋतऽवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥३
 
“अन्तरिक्षे नभसि विद्यमानैः “पथिभिः मार्गैः “ईयमानः गच्छन् वायुः “कतमच्चनाहः एकमपि दिनं “न “नि “विशते नोपविशति । किंतु सर्वदैव गच्छति । ' नेर्विशः ' ( पा. सू. १. ३. १७) इत्यात्मनेपदम् । अपि च “अपाम् उदकानां “सखा । ' वायुर्वै वृष्ट्या ईशे ' ( तै. सं. २ .४. ९. १) इति श्रुतेः । “प्रथमजाः सर्वेभ्यः प्राणिभ्यः पूर्वोत्पन्न एव “ऋतावा सत्यवान् यज्ञवान् वा एवंभूतो वायुः “क्व “स्वित् कुत्र खलु देशे “जातः उत्पन्नः “कुतः कस्माच्च देशान्निष्क्रम्य “आ “बभूव इदं सर्वं जगद्व्याप्नोत् । सर्वदा सर्वत्र वर्तमानत्वादस्योत्पत्तिर्व्याप्तिप्रकारश्च न केनापि ज्ञातुं शक्यत इत्यर्थः ।।
 
 
Line ७३ ⟶ ८१:
घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम ॥४
 
अयं वायुः “देवानाम् इन्द्रादीनामपि “आत्मा जीवरूपेण तेष्ववस्थानात् “भुवनस्य अपि भूतजातस्य “गर्भः गर्भवत्प्राणरूपेणान्तर्वर्तमानः “एषः ईदृशः “देवः “यथावशं यथाकामं यथेच्छं “चरति वर्तते । अनिवारितगतिः सन् क्वचिच्छीघ्रं गच्छति क्वचिच्छनैर्गच्छति कुतश्चिच्छरीरान्निष्क्रामति अन्यच्च शरीरं प्रविशतीत्येवं यथेच्छं वर्तत इत्यर्थः । “अस्य वायोरागच्छतः “घोषा “इत् शब्दा एव “शृण्विरे श्रूयन्ते । “रूपं स्वरूपं तु “न दृश्यते नीरूपत्वात् । अदृग्विषयत्वेन शब्देनैवानुमीयत इत्यर्थः । “तस्मै “वाताय वायवे “हविषा चरुपुरोडाशादिलक्षणेन “विधेम परिचरेम ।। ।। २६ ।।
 
}}
 
== ==
१०.१६८.१ स च वायुः दिविस्पृक् दिवमाकाशं स्पृशन् व्याप्नुवन् अरुणानि अरुणवर्णानि विकृतरूपाणि दिगन्तराणि कृण्वन् कुर्वन् याति प्राप्नोति। उतो अपि च पृथिव्या भूमेः रेणुं पांसुम् अस्यन् गृहीत्वा सर्वत्र विक्षिपन् एति गच्छति।
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६८" इत्यस्माद् प्रतिप्राप्तम्