"ऋग्वेदः सूक्तं १०.१८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
' प्रथः ' इति तृचं त्रिंशं सूक्तं वैश्वदेवं त्रैष्टुभम् । वासिष्ठः प्रथसंज्ञ ऋषिः प्रथमायाः । भारद्वाजः सप्रथाख्य ऋषिर्द्वितीयायाः । सूर्यपुत्रो घर्म ऋषिस्तृतीयायाः । तथा चानुक्रान्तं-' प्रथश्चैकर्चाः प्रथो वासिष्ठः सप्रथो भारद्वाजो घर्मः सौर्यो वैश्वदेवम् ' इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्रितं च-- ' गणानां त्वा प्रथश्च यस्य ' ( आश्व. श्रौ. ४.६) हति ।।
 
 
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।
Line ३१ ⟶ ३३:
 
धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥१
 
“यस्य वसिष्ठस्य “प्रथः “नाम पुत्रो यस्य भरद्वाजस्य “सप्रथः नाम पुत्रः तयोर्मध्ये “वसिष्ठः “आनुष्टुभस्य अनुष्टुप्छन्दसा युक्तस्य “हविषः घर्माख्यस्य “यत् “हविः हविष्ट्वापादकं “रथन्तरम् । रथरंहःसाधनं साम तद्रथन्तरम् । “धातुः धातृसंज्ञाद्देवात् “द्युतानात् द्योतमानात् “सवितुश्च “विष्णोः च “आ “जभार आजहार । हृतवान् ।। ' हृग्रहोर्भः ' हति भत्वम् । रथशब्दोपपदात्तरतेः संज्ञायां ' भृतॄवृजि० ' इति खच् । ' अरुर्द्विषदजन्तस्य इति मुमागमः ।।
 
 
Line ४४ ⟶ ४८:
 
धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥२
 
“ते धात्रादयः तत् “अविन्दन् अलभन्त “यत् बृहत्सामाख्यं घर्मस्य हविषः संस्कारकम् “अतिहितं तिरोहितम् “आसीत् । “यत् च बृहत्साम “यज्ञस्य ज्योतिष्टोमादेः “परमम् उत्कृष्टं “धाम धारकं शरीरभूतं वा “गुहा गुहायामस्मदादिविषये निहितमासीत् तत्ते धात्रादयोऽलभन्त । तेभ्यः “अग्नेः “च सकाशात्तत् “बृहत् साम “भरद्वाजः ऋषिः “आ “चक्रे आभिमुख्येन कृतवान् । आहृतवानित्यर्थः ।।
 
 
Line ५८ ⟶ ६४:
धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥३
 
“ते धात्रादयः “दीध्यानाः दीप्यमानाः सन्तः “मनसा बुद्ध्या “अविन्दन् अलभन्त । किं तत् । “यजुः यागसाधनं “स्कन्नं स्कन्दनीयमासेचनीयं प्रवृञ्जनसाधनं “प्रथमं मुख्यं “देवयानं देवानां प्राप्तिसाधनं “घर्मम् । एवं धात्रादिभिः प्रथममुपलब्धं तं घर्मं “धातुः द्योतमानात् “सवितुः “विष्णोः “सूर्यात् “च “एते ऋत्विजः “आ “अभरन् आहरन् । आनीतवन्त इत्यर्थः ।। ।। ३९ ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८१" इत्यस्माद् प्रतिप्राप्तम्