"ऋग्वेदः सूक्तं १०.१८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
‘ विष्णुः' इति तृचं त्रयस्त्रिशं सूक्तमानुष्टुभम् । गर्भाणां कर्ता त्वष्टा नामर्षिः प्रजापतिपुत्रो विष्णुर्वा । लिङ्गोक्ता विष्णुत्वष्टृप्रजापतिसिनीवालीसरस्वत्यश्विन इति देवताः । तथा चानुक्रान्तं - विष्णुस्त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिङ्गोक्तदैवतमानुष्टुभम् ' इति । लैङ्गिको विनियोगः ॥
 
 
विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु ।
Line ३२ ⟶ ३४:
 
आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥१
 
विष्णुः व्यापको देवः "योनिं गर्भाधानस्थानं "कल्पयतु करोतु । “त्वष्टा तनुकर्ता एतत्संज्ञको देवश्च “रूपाणि निरूपकाणि स्त्रीत्वपुंस्त्वाभिव्यञ्जकानि चिह्नानि “पिंशतु अवयवीकरोतु ॥ ‘ पिश अवयवे । मुचादित्वान्नुम् ॥ एवं प्रक्लृप्तायां योन्यां प्रजापतिः रेतः “आ “सिञ्चतु निषिञ्चतु । विसृजत्वित्यर्थः । “धाता धारको देवो हे जाये "ते तव “गर्भं गर्भरूपेण परिणतं तद्रेतः "दधातु ।। तत्रैव धारयतु । स्रावपातापप्रसवा मा भूवन्नित्यर्थः ॥
 
 
Line ४५ ⟶ ४९:
 
गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्करऽस्रजा ॥२
 
हे “सिनीवालि एतत्संज्ञे देवि “गर्भं “धेहि । निषिक्तं गर्भं धारय । हे “सरस्वति त्वं च निषिक्तं गर्भं धारय । हि जाये “पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणौ “अश्विनौ देव "ते तव "गर्भम् “ “धत्ता प्रक्षिपताम् । कुरुतामित्यर्थः ॥
 
 
Line ५८ ⟶ ६४:
 
तम् । ते । गर्भम् । हवामहे । दशमे । मासि । सूतवे ॥३
 
“हिरण्ययी हिरण्मय्यौ "अरणी "यं गर्भमुद्दिश्य "अश्विना अश्विनौ देवौ "निर्मन्थतः निर्मथितवन्तौ हे जाये "ते तुभ्यं त्वदर्थं “तं “गर्भं "हवामहे आह्वयामहे । “दशमे "मासि "सूतवे प्रसोतुम् ॥ पद्दन् इत्यादिना मासशब्दस्य मास्भावः । सूते: “तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः ॥ ॥४२॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८४" इत्यस्माद् प्रतिप्राप्तम्