"ऋग्वेदः सूक्तं १०.१८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
{{सायणभाष्यम्|
‘वातः' इति तृचं पञ्चत्रिंशं सूक्तं वातगोत्रस्योलस्यार्षं गायत्रं वायुदेवताकम् । तथा चानुक्रान्तं -- वातो वातायन उलो वायव्यम् ' इति । गतो विनियोगः ॥
 
 
वात॒ आ वा॑तु भेष॒जं श॒म्भु म॑यो॒भु नो॑ हृ॒दे ।
 
Line ३० ⟶ ३३:
 
प्र । नः । आयूंषि । तारिषत् ॥१
 
“वातः वायुः “नः अस्माकं "हृदे हृदयाय “भेषजम् औषधमुदकं वा “आ “वातु आगमयतु । कीदृग्भूतम् । "शंभु रोगशमनस्य भावयितृ "मयोभु सुखस्य च भावयितृ । अपि च "नः अस्माकम् “आयूंषि “प्र “तारिषत् प्रवर्धयतु ।
 
 
Line ४३ ⟶ ४८:
 
सः । नः । जीवातवे । कृधि ॥२
 
“उत अपि च हे “वात त्वं “नः अस्माकं “पिता “असि उत्पादको भवसि । “उत अपि च “भ्राता भवसि । "उत अपि च “नः अस्माकं “सखा समानख्यानो मित्रभूतश्च भवसि । “सः त्वं “नः अस्मान् “जीवातवे जीवनहेतवे यागाय “कृधि कुरु ॥ करोतेश्छान्दसो विकरणस्य लुक् । ‘ श्रुशृणुपॄकृवृभ्यः” इति हेर्धिः ॥
 
 
Line ५७ ⟶ ६४:
ततः । नः । देहि । जीवसे ॥३
 
हे “वात वायो “ते तव “गृहे स्थाने “यददः योऽसौ “अमृतस्य अमरणस्य “निधिः निक्षेपः “हितः स्थापितो वर्तते “ततः तस्मान्निधेराहृत्यामृतत्वं “जीवसे “नः अस्माकं जीवनाय “देहि प्रयच्छ ॥ ॥ ४४ । ।
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८६" इत्यस्माद् प्रतिप्राप्तम्