"ऋग्वेदः सूक्तं १.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९७:
द्रप्साः । मध्वः । चमूऽसदः ॥४
 
हे इन्द्रादिदेवाः "वः युष्मदर्थम् “इन्दवः सोमाः “प्र “भ्रियन्ते प्रकर्षेण संपाद्यन्ते । कीदृशाः । “मत्सराः तृप्तिकराः । ‘ मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः' ( निरु. २. ५) इति यास्कः । “मादयिष्णवः हर्षहेतवः “द्रप्साः बिन्दुरूपाः "मध्वः मधुराः 'चमूषदः चमूषु चमसादिपात्रेष्व्यवस्थिताः। प्र। 'व्यवहिताश्च ( पा. सू. १. ४. ८२ ) इति व्यवहितप्रयोगः । भ्रियन्ते । भृञो यकि ‘ रिङशयग्लिङ्लक्षु' (पा. सू. ७. ४. २८) इति रिङादेशः । हृञो वा । 'हृग्रहोर्भश्छन्दसि ' ( पा. सू. ८. २. ३२. १ ) इति हकमस्यहकारस्य भकारः । इन्दवः ।' उन्दी क्लेदने । उन्दन्ति पात्राणीति । ‘ नित् । इत्यनुवृत्तौ ‘ उन्देरिच्चादेः ' (पा. सू. १. १२) इति उप्रत्ययः आदेः इकारश्च । नित्त्वादाद्युदात्तः। मत्सराः । ‘ मद तृप्तियोगे'। न्चित्' इत्यनुवृत्तौ ‘कृधूमदिभ्यः कित्' ( उ. सू. ३. ३५३ ) इति सरप्रत्ययः । ‘ तितुत्रतथसिसुसरकसेषु च ' ( पा. सू. ७. २. ९ ) इति इट्प्रतिषेधः । चित्त्वादन्तोदात्तः । मादयिष्णवः । ‘ मदी हर्षग्लेपनयोः । मदेर्ण्यन्तात् “ णेश्छन्दसि' (पा. सू. ३. २. १३७ ) इति इष्णुच् । णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपे प्राप्ते ‘अयामन्ताल्वाय्येल्विष्णुषु । (पा. सू. ६. ४. ५५ ) इति अयादेशः । चित्त्वादन्तोदात्तः । मध्वः । मधुशब्द आद्युदात्त उक्तः । मधुशव्दस्य व्यत्ययेन पुंलिङ्गत्वम्। संज्ञापूर्वको विधिरनित्यः' इति ‘जसि च ' (पा. सू. ७. ३.१०९) इति गुणो न भवति । चमूषदः । ‘ चमु छमु जमु झमु अदने । चम्यते भक्ष्यते येषु चमसेषु ते चम्वः । ‘ कृषिचमिकृपिचमि° ' ( उ. सू. १. ८१ ) इत्यादिना ऊः । तत्र सीदन्तीति चमूषदः । ‘ सत्सूद्विष० (पा.सू.. . ३. २. ६१) इत्यादिना क्विप् । सुषमादेः आकृतिगणत्वात् षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम्॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४" इत्यस्माद् प्रतिप्राप्तम्