"ऋग्वेदः सूक्तं १.१८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
पञ्चमेऽनुवाके षट् सूक्तानि । तत्र ‘ सोमानम्' इत्यादिकं नवर्चं प्रथमं सूक्तम् । ऋषिच्छन्दसी पूर्ववत् । देवताविशेषस्त्वेवमनुक्रम्यते -° सोमानमिति पञ्च ब्राह्मणस्पत्याश्चतुर्थ्यामिन्द्रश्च सोमश्च पञ्चम्यां दक्षिणा चान्याः सादसस्पत्या नाराशंसी वान्त्या' इति । सूक्तगता आद्याः पञ्चर्चो ब्रह्मणस्पतिदेवताकाः । तासां मध्ये “ स घा वीरः' इत्येतस्याश्चतुर्थ्या ऋचो ब्रह्मणस्पतिरिन्द्रश्च सोमश्चेति तिस्रो देवताः । त्वं तम्' इत्येतस्याः पञ्चम्या दक्षिणया सह पूर्वोक्तास्तिस्रो देवताः । षष्ठीमारभ्य तिसृणां सदसस्पतिर्देवता । ‘ नाराशंसम्' इत्येतस्या नवम्याः सदसस्पतिर्नराशंसो वा विकल्प्यते। विनियोगस्तु पूर्ववत् ॥
 
 
सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।
Line ४३ ⟶ ४५:
 
कक्षीवन्तम् । यः । औशिजः ॥१
 
हे "ब्रह्मणस्पते एतन्नामकदेव “सोमानम् अभिषवस्य कर्तारं "स्वरणं देवेषु प्रकाशनवन्तं “कृणुहि कुरु । अत्र दृष्टान्तः । “कक्षीवन्तम् एतन्नामकमृषिम् । इवशब्दोऽत्राध्याहर्तव्यः । कक्षीवान् यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । “यः कक्षीवानृषिः “औशिजः उशिजः पुत्रः। तमिवेति पूर्वत्र योजना। कक्षीवतोऽनुष्ठातृषु मुनिषु प्रसिद्धिस्तैत्तिरीयैराम्नायते - एतं वै पर आट्णारः कक्षीवाँ औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत ' ( तै. सं. ५. ६. ५. ३) इति । ऋगन्तरेऽपि ऋषित्वकथनेनानुष्ठातृत्वप्रसिद्धिः सूच्यते - अहं कक्षीवाँ ऋषिरस्मि विप्रः ' ( ऋ. सं. ४. २६. १ ) इति । तस्मात् अस्यानुष्ठातारं प्रति दृष्टान्तत्वं युक्तम् । सोऽयं मन्त्रो यास्केनैवं व्याख्यातः - सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः । कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कान्तिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मा प्रकाशनवन्तं कुरु ब्रह्मणस्पते ' ( निरु. ६. १० ) इति । अस्मिन् मन्त्रे सोमानमिति पादेन कृणुहि ब्रह्मण इति पादेन सूचितं तात्पर्यं तैत्तिरीया आमनन्ति - सोमानं स्वरणमित्याह सोमपीथमेवाव रुन्धे । कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुन्धे ' ( तै. सं. १. ५. ८. ४ ) इति ॥ सोमानम् । सुनोतीति । षुञ् अभिषवे । । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नित्त्वेऽपि नाद्युदात्तत्वं किंतु प्रत्ययस्वर एव । उञ्छादिषु (पा. सू. ६. १. १६० ) वा सोमञ्शब्दो द्रष्टव्यः बहुलग्रहणात् औणादिको वा मनिर्द्रष्टव्यः । स्वरणं प्रख्यातम् । स्वृ शब्दोपतापयोः । ‘ कृत्यल्युटो बहुलम् ' (पा. सू. ३. ३. ११३) इति कर्मणि ल्युट्। ' लिति' इति अकार उदात्तः । कृणुहि । ‘ कृवि हिंसाकरणयोश्च । इदितो नुम् धातोः' (पा. सू. ७. १. ५८ ) इति नुम् । लोटः सिपो हिः । शपि प्राप्ते ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । तस्य ' अतो लोपः' इति लोपः । तस्य स्थानिवद्भावात् न पूर्वस्य लघूपधगुणः । हेर्ङित्त्वात् उकारस्य न गुणः । ‘ उतश्च प्रत्ययाच्छन्दोवावचनम् ( पा. सू. ६. ४. १०६. १ ) इति हेर्लुक् न ।' सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ' इति वचनात् हेरेव प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वात् न निघातः । ब्रह्मणः । ‘ षष्ठ्याः पतिपुत्र ! ( पा. सू. ८. ३. ५३ ) इत्यादिना संहितायां विसर्जनीयस्य सकारः। सुबामन्त्रितपराङ्गवद्भावात् पदद्वयस्य आमन्त्रितनिघातः । कक्षीवन्तम् । कक्षे भवा कक्ष्या अश्वोदरसंबन्धिनी रज्जुः । ‘ भवे छन्दसि ' ( पा. सू. ४. ४. ११० ) इति यप्रत्ययः । सो अस्यास्तीत्यर्थे ' आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्° ' ( पा. सू. ८. २. १२) इति ऋषिविशेषनाम कक्षीवच्छब्दो निपातितः । ‘ छन्दसीरः ' इति वत्वम् । यप्रत्ययस्वरेण तदादेशो निपातित ईकार उदात्तः । मतुप्सुपौ पित्त्वादनुदात्तौ । औशिजः । ‘ वश कान्तौ । ' इजि ' ( उ. सू. २. २२८ ) इत्यनुवृत्तौ ‘वशेः किच्च ' ( उ. सू. २. २२९ ) इति इजिप्रत्ययः । तस्य कित्त्वात् ' ग्रहिज्या ' ( पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणं, परपूर्वत्वे गुणाभावः। तस्यापत्यम्' (पा. सू. ४. १. ९२ ) इति ‘ प्राग्दीव्यतोऽण् ' ( पा. सू. ४. १. ८३ )। आदिवृद्धिः । प्रत्ययस्वरेणान्तोदात्तत्वम् ॥
 
 
Line ५६ ⟶ ६०:
 
सः । नः । सिसक्तु । यः । तुरः ॥२
 
यः ब्रह्मणस्पतिः “रेवान् धनवान् “यः च अमीवहा रोगाणां हन्ता “वसुवित् धनलब्धा “पुष्टिवर्धनः पुष्टेर्वर्धयिता “यः च “तुरः त्वरोपेतः शीघ्रफलदः “सः ब्रह्मणस्पतिः “नः अस्मान् “सिषक्तु सेवताम् । परिगृह्यानुगृह्णात्वित्यर्थः । अत्र सिषक्तुशब्दस्य सेवार्थत्वं यास्क आह - सिषक्तु सचत इति सेवमानस्य' (निरु. ३. २१) इति। प्रत्यायकौ शब्दाविति शेषः ।। रेवान् । रयिरस्यास्तीति मतुप् । ‘ रयेर्मतौ बहुलम् ' ( पा. सू. ६. १. ३७. ६ ) इति यकारस्य संप्रसारणं परपूर्वत्वम् । छन्दसीरः ' इति वत्वम् । “आद्गुणः। ननु वत्वस्य असिद्धत्वात् बहिरङ्गत्वाच्च प्रागेव गुणे कृते इवर्णाभावान्न वत्वम् । न च ' अन्तादिवच्च' ( पा. सू. ६. १. ८५) इति आदिवद्भावेन इवर्णसंपादनं, वर्णाश्रयविधौ तत्प्रतिषेधात् । अन्यथा खट्वाभिः इत्यत्र सवर्णदीर्घस्य अन्तवद्भावेन अकारत्वात् ‘ अतो भिस ऐस्' ( पा. सू. ७. १. ९ ) इति ऐसादेशः स्यात् । न च निरवकाशत्वेन वत्वस्य अनवकाशत्वम् । अग्निवान्वै दर्भस्तम्बः ' ( तै. ब्रा. २. २. १. ५ ), ‘ उप ब्रह्माणि हरिवः ' ( ऋ. सं. १०. १०४. ६ ) इत्यादौ अवकाशलाभात् । सत्यम् । अत्र गुणप्रवृत्तेः प्राक् इकारात्परो मतुप् । कदाचित् इवर्णात्परस्य मतुपः पश्चात् एकारादेशेन इवर्णाभावेऽपि भवति वत्वमिति ‘छन्दसीरः' इति सूत्रकृता विवक्षितम् । अमुनैवाभिप्रायेण • हरिवः' इत्यादिकमुदाहृत्यापि अन्ते वृत्तिकृता “ आरेवान्' (का. ८. २. १५) इत्यप्युदाहृतम् । “ ह्रस्वनुड्भ्याम्' इत्यत्र आरेशब्दात् मतुप इत्युदात्तत्वं वक्तव्यम् ? ( पा. सू. ६. १. १७६. १ ) इत्यत्र आरेशब्दो रेशब्दस्याप्युपलक्षणम् । अत एव हि ' रेवाँ इन्द्र' इत्यादौ । मतुप उदात्तत्वं दृष्टम् । अथवा “ ह्रस्वनुड्भ्याम् ' इत्यत्रापि कदाचित् ह्रस्वात्परस्य मतुप उदात्तत्वमित्येव व्याख्येयम् । एवं च संप्रसारणपरपूर्वत्वयोः कृतयोर्गुणात् प्राक् ह्रस्वात्परो मतुप् इति रेवान् आरेवान् इत्यादौ सर्वत्रोदात्तत्वं सिध्यति । अयमेव सूत्रकृतोऽभिप्रायो वार्तिककृता व्याख्यात इति । अमीवहा । ' अम रोगे' इत्येतस्मात् वन्प्रत्ययेन अमीवशब्दो निपातितः । तं हन्तीति • बहुलं छन्दसि ' ( पा. सू. ३. २. ८८ ) इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वसुवित् । वसु विन्दतीति वसुवित् । ‘ क्विप् च ' इति क्विप् । उत्तरपदप्रकृतिस्वरत्वम् । पुष्टिवर्धनः । वर्धयतेः नन्द्यादित्वात् ( पा. सू. ३. १. १३४ ) ल्युः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पुष्टेर्वर्धन इति कर्मणि षष्ठ्या समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सिषक्तु । ‘षच समवाये । लोटि ‘ बहुलं छन्दसि ' ( पा. सू. २. ४. ७६ ) इति शपः श्लुः । “श्लौ ' इति द्वित्वे हलादिशेषे' बहुलं छन्दसि ' (पा. सू. ७. ४. ७८) इत्यभ्यासस्य अकारस्य इकारः । तुरः । ‘ तुर त्वरणे ' । ‘इगुपधज्ञाप्रीकिरः कः' । प्रत्ययस्वरः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८" इत्यस्माद् प्रतिप्राप्तम्