"ऋग्वेदः सूक्तं १.३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७०:
अस्मे इति । वृद्धाः । असन् । इह ॥१५
 
हे ऋत्विक्संघ “मारुतं मरुत्संबन्धिनं “गणं समूहं “वन्दस्व नमस्कुरु स्तुहि वा । कीदृशं गणम् । “त्वेषं दीप्तं “पनस्युं स्तुतियोग्यम् “अर्किणम् अर्चनोपेतम्। “अस्मे अस्माकम् “इह अस्मिन् कर्मणि "वृद्धा “असन् मरुतः प्रवृद्धा भवन्तु ॥ वन्दस्व । वदि अभिवादनस्तुत्योः' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । ‘पन च ' इति स्तुत्यर्थो धातुः । असुन्। पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् ।“क्याच्छन्दसि' इति उप्रत्ययः। अर्किणम् । ऋच स्तुतौ । ‘ पुंसि संज्ञायाम्' इति घः। अर्कोऽस्यास्तीति अर्की। ‘अत इनिठनौ'। असन् । ‘बहुलं छन्दसि इति शपो लुगभावः । ‘ इतश्च लोपः' इति इकारलोपः। तिङ्ङतिङः' इति निघातः ॥ ॥१७॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३८" इत्यस्माद् प्रतिप्राप्तम्