"ऋग्वेदः सूक्तं १.३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘प्र यदित्था' इति दशर्चं चतुर्थं सूक्तम् । घोरपुत्रस्य कण्वस्यार्षं मरुद्देवताकम् । युजः सतोबृहत्यः । अयुजो बृहत्यः । ‘ प्र यद्दश प्रागाथं तु ' इत्यनुक्रमणिका । गतो विनियोगः ॥
 
 
प्र यदि॒त्था प॑रा॒वत॑ः शो॒चिर्न मान॒मस्य॑थ ।
Line ४५ ⟶ ४७:
 
कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः ॥१
 
हे “धूतयः स्थावरादीनां कम्पनकारिणः "मरुतः “यत् यदा "मानं मननीयं युष्मद्बलं “परावतः दूरात् । ‘ आरे परावतः ' ( नि. ३. २६. ५) इति दूरनामसु पाठात् । “इत्था अस्मादन्तरिक्षात् “प्र "अस्यथ भूमौ प्रक्षिपथ। तत्र दृष्टान्तः । “शोचिर्न तेज इव । यथा सूर्यस्य तेजोऽन्तरिक्षात् भूमौ प्रक्षिप्यते तद्वत् । तदानीं यूयं “कस्य यजमानस्य “क्रत्वा क्रतुना संगच्छध्वे इति शेषः। तथा “कस्य यजमानस्य “वर्पसा स्तोत्रेण संगच्छध्वे । “कं यजमानमुद्दिश्य “याथ देवयजनदेशे गच्छथ। "कं “ह कं खलु यजमानमनुगृह्णीथेति शेषः ॥ इत्था । ' था हेतौ च च्छन्दसि' (पा. सू. ५, ३. २६) इति इदंशब्दात् प्रकारवचने थाप्रत्ययः । यदि तत्र इदंशब्दस्य नानुवृत्तिः तर्हि थमुप्रत्ययान्तात् इदंशब्दादुत्तरस्या विभक्तेर्व्यत्ययेन • सुपां सुलुक्' इति डादेशः । प्रथमपक्षे प्रत्ययस्वरः। द्वितीयपक्षे तु उदात्तनिवृत्तिस्वरः । अस्यथ । 'असु क्षेपणे । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् ( पा. सू. ७. ३. १०९. १ ) इति नाभावस्य विकल्पितत्वादभावः । वर्पसा । ‘ वृङ् संभक्तौ । ‘वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुक्च' ( उ. सू. ४. ६४० ) इति असुन्; तत्संनियोगेन पुगागमश्च । नित्त्वादाद्युदात्तत्वम् । अत्र रूपाभिधायिना वर्पस्शब्देन देवतास्वरूपप्रकाशकं स्तोत्रं लक्ष्यते क्रतुना साहचर्यात् ॥
 
 
Line ५८ ⟶ ६२:
 
युष्माकम् । अस्तु । तविषी । पनीयसी । मा । मर्त्यस्य । मायिनः ॥२
 
हे मरुतः “वः “आयुधा युष्माकमायुधानि “पराणुदे शत्रूणामपनोदनाय “स्थिरा "सन्तु स्थिराणि भवन्तु । “उत अपि च "प्रतिष्कभे शत्रूणां प्रतिबन्धाय “वीळु सन्तु दृढानि सन्तु । “युष्माकं “तविषी बलं “पनीयसी अतिशयेन स्तोतव्यं भवतु । “मायिनः अस्मासु छद्मचारिणः “मर्त्यस्य मनुष्यस्य शत्रोः
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३९" इत्यस्माद् प्रतिप्राप्तम्