"जैमिनीयं ब्राह्मणम्/काण्डम् १/२६१-२७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
जगतीं गायति। श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति।
 
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तेव वाक्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव वाग् अपक्रामति। अवान्ये प्राणाः कामन्तिक्रामन्ति न प्राणः॥1.268॥