"जैमिनीयं ब्राह्मणम्/काण्डम् २/१३१-१४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
 
- तस्माद् इन्द्राग्न्योः कुलायः। तद् आहुस् सत्रे तद् व्यतिषक्तं यत् त्रिवृत् - पञ्चदशम्। त्रिवृत् पञ्चदशम् इत्य् एवैतानि स्तोत्राणि व्यतिषक्तानि भवन्ति। षड् एव त्रिवृन्ति स्तोत्राणि स्युः, षट् पञ्चदशानीति। यान्य् एवार्वाञ्चि माध्यंदिनात् तान्य् एव त्रिवन्ति स्युर्, यान्य् ऊर्ध्वं तानि पञ्चदशानीति। पञ्चदशस् त्व् एव माध्यंदिन स्यात्, त्रिवद् धोतुः पृष्ठम्। तस्मिन् पञ्चदशे माध्यंदिने रथन्तरम् अवकल्पयन्ति। ब्रह्म वै रथन्तरं, क्षत्रं पञ्चदशः। ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। अथ यत् त्रिवृद् धोतुः पृष्ठं भवति - ब्रह्म वै त्रिवृत्, क्षत्रं बृहत् - क्षत्रम् एव तद् ब्रह्मन् प्रतिष्ठापयन्ति। ताव् एताव् एवम् अन्यो ऽन्यस्मिन् प्रतिष्ठाय श्रेष्ठताम् अगच्छताम्। तयोर् हैतयोर् अजय्यम् एव। अजय्यां ह वै कीर्तिम् अजय्यां श्रियम् अजय्यं स्वर्गं लोकं जयति य एवं वेद। यद् व् एवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो प्राणा वै स्तोमा, व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय। तस्मात् त्रिवृत्तपञ्चदशान्य् ऐवैतानिएवैतानि स्तोत्राणि व्यतिषक्तानि स्युर् इति। तस्यैन्द्राग्नं सामादिष्टसाम माध्यंदिने पवमाने भवति। इन्द्राग्न्योर् ह्य् एष यज्ञः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.133॥