"ऋग्वेदः सूक्तं १.४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १२९:
इमाम् । च । वाचम् । प्रतिऽहर्यथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत् ॥६
 
हे “देवाः ब्रह्मणस्पतिप्रभृतयः “तमित् तमेव इन्द्रादिसर्वदेवताप्रतिपादकं “मन्त्रं “विदथेषु यज्ञेषु “वोचेम वयमृत्विजो ब्रवाम । कीदृशम् । “शंभुवं सुखस्य भावयितारम् “अनेहसम् अहिंसनीयं दोषरहितम् । हे “नरः नेतारो देवाः “इमाम् अस्माभिरुच्यमानां मन्त्ररूपां “वाचं “प्रतिहर्यथ “च । यूयं कामयध्वे चेत् तर्हि "विश्वेत् सर्वापि “वामा वननीया वाक् “वः युष्मान् “अश्नवत् व्याप्नुयात् ॥ वोचेम । वच परिभाषणे ' । आशीर्लिङि ‘ लिङ्याशिष्यङ्' इति अङ् । ‘ वच उम्' इत्युमागमः । ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् “ लिङः सलोपोऽनन्त्यस्य ' इति यासुटः सकारस्य लोपः । ‘ अतो येयः' इति इयादेशः । आद्गुणः । तिङ्ङतिङः' इति निघातः । विदथेषु ।' विद् ज्ञाने । विद्यते फलसाधनत्वेन ज्ञायते इति विदथो यज्ञः । ‘ रुविदिभ्यां कित्' ( उ. सू. ३. ३९५ ) इति अथप्रत्ययः । शंभुवम् । भवतेः अन्तर्भावितण्यर्थात् ' क्विप् च ' इति क्विप् ।' ओः सुपि ' (पा. सू. ६. ४. ८३ ) इति यणादेशस्य ' न भूसुधियोः ' ( पा. सू. ६. ४. ८५ ) इति प्रतिषेधः । मन्त्रादयो गताः । प्रतिहर्यथ । ‘ हर्य गतिकान्त्योः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । इमां च इत्यत्र चशब्दश्चेदर्थः। चणिति निपातान्तरं न च समुच्चयाद्यर्थः। तेन • निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण° ' ( पा. सू. ८. १. ३० ) इति निघातप्रतिषेधः । अश्नवत् । ‘ अशू व्याप्तौ ' । लेटि अडागमः। व्यत्ययेन परस्मैपदम् । ‘इतश्च लोपः' इति इकारलोपः । ‘ इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन ' ( का. ६. ४. ७७ ) इति गुणः ॥
 
 
पङ्क्तिः १४३:
 
प्रऽप्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःऽवावत् । क्षयम् । दधे ॥७
 
“देवयन्तं देवान् कामयमानं “जनं "कः "अश्नवत् ब्रह्मणस्पतिव्यतिरिक्तः को नाम देवो व्याप्नुयात् । तथा “वृक्तबर्हिषम् अनुष्ठानाय छिन्नबर्हिषं यजमानं "कः नाम अन्यो देवोऽश्नवत् । “दाश्वान् हविर्दत्तवान् यजमानः "पस्त्याभिः मनुष्यैर्ऋत्विग्भिः सह "प्रप्र "अस्थित देवयजनदेशं प्रति प्रस्थितवान्। अन्तर्वावत् अन्तःस्थितबहुधनोपेतम् । यद्वा । अन्तःस्थितपुत्रपौत्रादिप्रयुक्तबहुविधवागुपेतं "क्षयं निवासस्थानं गृहं "दधे धृतवान् भवति ॥ देवयन्तम् इत्यादयो गताः । प्रप्र । ‘ प्रसमुपोदः पादपूरणे' (पा. सू. ८. १. ६) इति प्रशब्दस्य द्विर्भावः । ‘ अनुदात्तं च ' इत्याम्रेडितानुदात्तत्वम् । अस्थित ।' ष्ठा गतिनिवृत्तौ । लुङि • समवप्रविभ्यः स्थः ' ( पा. सू. १. ३. २२ ) इत्यात्मनेपदम् । स्थाध्वोरिच्च ' ( पा. सू. १. २. १७ ) इति धातुसिचोः इत् । कित्त्वे ‘ह्रस्वादङ्गात्' (पा.सू. ८. २. २७) इति सलोपः। अन्तर्वावत्। ‘वा गतिगन्धनयोः' । अन्तर्वान्ति गच्छन्तीति अन्तर्वाः पुत्रपश्वादयः । आतो मनिन्' इत्यादिना विच् । तदस्यास्ति' इति मतुप्। मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । वावदीतेः क्विप् । क्षयम् । क्षियन्ति निवसन्त्यस्मिन्निति क्षयः। 'पुंसि संज्ञायाम्” इत्यधिकरणे घः। ‘ क्षयो निवासे' इत्याद्युदात्तत्वम् ॥
 
 
Line १५६ ⟶ १५८:
 
न । अस्य । वर्ता । न । तरुता । महाऽधने । न । अर्भे । अस्ति । वज्रिणः ॥८
 
ब्रह्मणस्पतिर्देवः “क्षत्रं बलम् "उप "पृञ्चीत स्वात्मनि संपृक्तं कुर्यात् । ततः "राजभिः वरुणादिभिः सह "हन्ति शत्रून् मारयति । "भये "चित् भीतिहेतौ युद्धेऽपि "सुक्षितिं "दधे सुष्ठु निवासस्थैर्यं धारयति न तु पलायते । "वज्रिणः वज्राद्यायुधवतः "अस्य ब्रह्मणस्पतेः "महाधने प्रभूतधननिमित्ते युद्धे "वर्ता प्रवर्तयिता अन्यः कोऽपि "न "अस्ति स्वयमेव प्रवर्तते इत्यर्थः । महाधने इति संग्रामनाम, ‘महाधने समीके' (नि.२. १७. ४१ ) इति तन्नामसु पाठात् । तथा “तरुता तरणस्योल्लङ्घनस्य कर्ता अन्यः कोऽपि "न अस्ति । तथैव "अर्भे स्वल्पे युद्धेऽप्यन्यः प्रवर्तयिता "न अस्ति । पृञ्चीत।' पृची संपर्के'। लिङि रुधादित्वात् श्नम् । श्नसोरल्लोपः' इति अकारलोपः। प्रत्ययस्वरः । क्षत्रं पृञ्चीत राजभिर्हन्ति चेति समुच्चयलक्षणस्य चार्थस्य दर्शनात् ‘चादिलोपे विभाषा ' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः । हन्तीत्येषा द्वितीयापि तिङः परत्वात् न निहन्यते । सुक्षितिम् । शोभना क्षितिः सुक्षितिः । ‘ मन्क्तिन' इत्यादिना उत्तरपदान्तोदात्तत्वम् । वर्ता । वर्ततेर्वृणोतेर्वा तृचि आगमानुशासनस्यानित्यत्वात् इडभावः । तरुता । ‘ तॄ प्वनतरणयोः । ‘ ग्रसितस्कभित° ! (पा. सू. ७.२.३४ ) इत्यादिना तृचि उडागमो निपातितः। 'चितः' इत्यन्तोदात्तत्वम् । महाधने। महच्च तद्धनं च महाधनम्। 'आन्महतः' ( पा. सू. ६. ३. ४६ ) इति आत्वम् । तेन शब्देन तद्धेतुभूतः संग्रामो लक्ष्यते । अर्भे । ‘ ऋ गतौ ' । अर्तिगॄभ्यां भन्' ( उ. सू. ३. ४३२ ) इति भन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २१ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४०" इत्यस्माद् प्रतिप्राप्तम्