"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘ यं रक्षन्ति ' इति नवर्चं षष्ठं सूक्तम् । तत्रानुक्रमणं - ‘ यं रक्षन्ति नव वरुणमित्रार्यम्णां मध्ये तृच आदित्येभ्यो गायत्रं हि' इति । घोरपुत्रः कण्व ऋषिः । इदमादित्रीणि सूक्तानि गायत्राणि । आद्यन्तयोस्तृचयोर्वरुणमित्रार्यमणो देवताः । मध्यतृचस्य ‘ सुगः पन्थाः' इत्यस्य आदिस्या देवताः । गतो विनियोगः ॥
 
 
यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
Line ४३ ⟶ ४५:
 
नु । चित् । सः । दभ्यते । जनः ॥१
 
“प्रचेतसः प्रकृष्टज्ञानयुक्ताः वरुणादयो देवाः "यं यजमानं "रक्षन्ति "सः "जनः यजमानः "नू “चित् क्षिप्रमेव "दभ्यते दभ्नोति शत्रून् हिनस्ति । प्रचेतसः । प्रकृष्टं चेतो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नू चित् ।' ऋचि तुनुघ° ' इत्यादिना दीर्घः । दभ्यते । दम्भु दम्भे । व्यत्ययेन श्यन् आत्मनेपदं च ॥
 
 
Line ५६ ⟶ ६०:
 
अरिष्टः । सर्वः । एधते ॥२
 
"यं यजमानं "पिप्रति वरुणोदयो देवा धनैः पूरयन्ति । तत्र दृष्टान्तः। “बाहुतेव। स्वकीयो बाहुवर्गोऽपेक्षितं धनमानीय यथा पूरयति तद्वत् । तथा यं “मर्त्यं मनुष्यं यजमानं "रिषः हिंसकात् "पान्ति रक्षन्ति सः "सर्वः यजमानः "अरिष्टः केनाप्यहिँसितः सन् “एधते वर्धते ॥ बाहुतेव। बाहुता बाहुत्वम् । भाववाचिनानेन शब्देन बाहवस्तदाश्रया लक्ष्यन्ते । यद्वा । समूहार्थे तल्प्रत्ययो द्रष्टव्यः। ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पिप्रति । ‘ पॄ पालनपूरणयोः'। पृ इत्येके । जुहोत्यादित्वात् श्लुः । ‘ अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । पान्ति । तिङः परत्वात् पादादित्वाद्वा निघाताभावः । रिषः । ‘ रिष हिंसायाम् । क्विप् च ' इति क्विप् । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । अरिष्टः । ‘ रिष हिंसायाम् । “एकाचः० ' इति इट्प्रतिषेधः । व्रश्चादिना षस्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line ६९ ⟶ ७५:
 
नयन्ति । दुःऽइता । तिरः ॥३
 
"राजानः वरुणादयः "एषां स्वकीययजमानानां "पुरः पुरस्तात् "दुर्गा गन्तुं दुःशकानि शत्रुनगराणि "वि “घ्नन्ति विशेषेण नाशयन्ति । तथा “द्विषः शत्रूनपि "वि घ्नन्ति। तथा “दुरिता यजमानसंबन्धीनि दुरितानि "तिरः "नयन्ति विनाशं प्रापयन्ति ॥ दुर्गा । दुःखेन गच्छन्त्यत्रेति दुर्गाणि । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८. ३ ) इति गमेर्डप्रत्ययः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । पुरः । कालवाचिनः पूर्वशब्दात् सप्तम्यर्थे ‘पूर्वाधरावराणाम् ' (पा. सू. ५. ३. ३९ ) इति असिप्रत्ययः, तत्संनियोगेन पूर्वशब्दस्य पुरादेशश्च । प्रत्ययस्वरः । घ्नन्ति । हन्तेर्लटि अदादित्वात् शपो लुक् । ‘गमहन' इत्यादिना उपधालोपः । “हो न्तेः' (पा. सू. ७. ३. ५४ ) इति घत्वम् । अन्तादेशस्योपदेशवचनादाद्युदात्तत्वम् । पादादित्वादनिघातः ॥
 
 
Line ८२ ⟶ ९०:
 
न । अत्र । अवऽखादः । अस्ति । वः ॥४
 
हे "आदित्यासः “ऋतं "यते यज्ञं गच्छते भवत्समूहाय "पन्थाः मार्गः "सुगः सुष्ु। गन्तुं शक्यः “अनृक्षरः कण्टकरहितश्च । "अत्र अस्मिन् कर्मणि “वः युष्माकम् "अवखादः अवमन्तव्यः खादो जुगुप्सितहविर्विशेषः "न "अस्ति । तस्मादिहागन्तव्यमित्यर्थः ॥ सुगः । सुदुरोरधिकरणे ' इति गमेर्डप्रत्ययः । पन्थाः । ‘ पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । अनृक्षरः । ‘ ऋषी गतौ' ऋषन्ति अन्तर्गच्छन्ति इति ऋक्षरा कण्टकाः । ‘ तन्यृषिभ्यां क्सरन्' (उ. सू. ३. ३५५) इति क्सरन्प्रत्ययः । कित्त्वाद्गुणाभावः । कत्वपत्वे । यास्कस्त्वाह- ‘ ऋक्षरः कण्टक ऋच्छतेः' (निरु. ९. ३२ ) इति । न विद्यन्ते ऋक्षरा अस्मिन्निति अनृक्षरः। ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । आदित्यासः । अदितेः पुत्रा आदित्याः । ‘ दित्यदित्यादित्य° ' (पा. सू. ४. १.८५) इत्यादिना ण्यप्रत्ययः । ‘ आज्जसेरसुक्'। आमन्त्रिताद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । यते । ‘ इण् गतौ ' । लटः शतृ । अदादित्वात् शपो लुक् । इणो यण् ' ( पा. सू. ६. ४. ८१ ) इति यणादेशः । ‘शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । अवखादः । खादृ भक्षणे'। भावे घञ् । अवमतः खादोऽवखादः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
 
 
Line ९५ ⟶ १०५:
 
प्र । वः । सः । धीतये । नशत् ॥५
 
हे "नरः नेतारः "आदित्याः "यं "यज्ञम् "ऋजुना "पथा अविकलेन मार्गेण "नयथ पारं प्रापयथ “सः यज्ञः "वः “धीतये युष्मत्पानायोपभोगाय “प्र “नशत् प्राप्नोतु ॥ नयथ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १.८८) इति टिलोपः । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' (पा. सू. ६. १. १६१ ) इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने' ।' आदेचः
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्