"ऋग्वेदः सूक्तं १.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०६:
प्र । वः । सः । धीतये । नशत् ॥५
 
हे "नरः नेतारः "आदित्याः "यं "यज्ञम् "ऋजुना "पथा अविकलेन मार्गेण "नयथ पारं प्रापयथ “सः यज्ञः "वः “धीतये युष्मत्पानायोपभोगाय “प्र “नशत् प्राप्नोतु ॥ नयथ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यते ' इति संहितायां दीर्घत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १.८८) इति टिलोपः । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' (पा. सू. ६. १. १६१ ) इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने' ।' आदेचः इति आत्वम् । क्तिचि ‘घुमास्था ' इति ईत्वम् । नशत् । नशतिर्गत्यर्थः। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः ॥ ॥ २२ ॥
 
 
पङ्क्तिः १२०:
 
अच्छ । गच्छति । अस्तृतः ॥६
 
हे आदित्याः "सः तादृशो भवद्भिरनुगृहीतः "मर्त्यः मनुष्यो यजमानः "अस्तृतः केनाप्यहिंसितः सन् "रत्नं रमणीयं "विश्वं "वसु सर्वं धनम् "अच्छ आभिमुख्येन "गच्छति प्राप्नोति । “उत अपि च “त्मना आत्मना स्वेन सदृशं “तोकम् अपत्यं गच्छति ॥ त्मना । ‘ मन्त्रेष्वाङ्यादेरात्मनः ' (पा. सू. ६. ४. १४१ ) इति आकारलोपः । अच्छ। ‘ निपातस्य च ' इति दीर्घत्वम् । अस्तृतः । स्तृञ् हिंसायाम् । न स्तृतोऽस्तृतः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
 
 
Line १३३ ⟶ १३५:
 
महि । प्सरः । वरुणस्य ॥७
 
हे "सखायः सखिभूता ऋत्विजः मित्रादीनां त्रयाणां "महि महत् "प्सरः रूपम् । अतस्तदनुरूपं "स्तोमं स्तोत्रं "कथा केन प्रकारेण "राधाम साधयामः॥ कथा । ‘था हेतौ च च्छन्दसि' (पा. सू. ५. ३. २६) इति किंशब्दात् प्रकारवचनेषु प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञायां किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । प्रत्ययस्वरः । राधाम । ‘राध साध संसिद्धौ'। लेटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । तिङ्ङतिङः ' इति निघातः । स्तोमम् । ष्टुञ् स्तुतौ । ‘ अर्तिस्तुसु° ' इत्यादिना भावे मन् । नित्त्वादाद्युदात्तत्वम् । अर्यम्णः । षष्ठ्येकवचने ‘ अल्लोपोऽनः' इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महि । ‘ मह पूजायाम् । औणादिक इन्प्रत्ययः । प्सरः। ‘ प्सा भक्षणे । प्साति भक्षयतीति प्सरो रूपम् । औणादिको डरप्रत्ययः ॥
 
 
Line १४६ ⟶ १५०:
 
सुम्नैः । इत् । वः । आ । विवासे ॥८
 
हे मित्रादयो देवाः "देवयन्तं देवान् कामयमानं यजमानं यः शत्रुर्हन्ति “घ्नन्तं तादृशं शत्रुं "वः युष्मभ्यं "मा "प्रति "वोचे दुरुक्तकथनभीत्याहं न कथयामि। तथा यजमानं यः शत्रुः शपति तमपि "शपन्तं "मा प्रति वोचे भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु "सुम्नैरित् धनैरेव “वः युष्मान् "आ "विवासे सर्वतः परिचरामि ॥ घ्नन्तम् । हन्तीति घ्नन् ।' गमहन ' इत्यादिना उपधालोपः । ‘ हो हन्तेः' इति कुत्वे प्रत्ययस्वरः । शपन्तम् । ‘ शप आक्रोशे '। अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । वोचे । ब्रूञ् व्यक्तायां वाचि'। माङि लुङि इटि ‘ब्रुवो वचिः ' ( पा. सू. २.
४. ५३ ) इति वचिः । अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः । ‘वच उम्' इत्युमागमः । ‘ न माङ्योगे' इति अडभावः । देवयन्तम् । ‘सुप आत्मनः क्यच् ' । न च्छन्दस्यपुत्रस्य' इति ईत्वप्रतिषेधः । सुम्नैः । ‘ म्ना अभ्यासे । सुष्ठु म्नायतेऽभ्यस्यते इति सुम्नम् । ‘ आतश्चोपसर्गे' (पा. सू. ३. १. १३६ ) इति कप्रत्ययः । ‘ आतो लोप इटि च ' इति आकारलोपः । विवासे ।। विवासतिः परिचरणकर्मा (नि. ३. ५. १० )॥
 
 
Line १६० ⟶ १६७:
न । दुःऽउक्ताय । स्पृहयेत् ॥९
 
घ्नन्तं शपन्तं च मा प्रतिवोचे इति यदुक्तं तत्रोपपत्तिरुच्यते । "दुरुक्ताय "न "स्पृहयेत् दुष्टं वाक्यं न कामयेत् किंतु दुरुक्तात् "बिभीयात् । तत्रावशिष्टो मन्त्रभागः सर्वोऽपि दृष्टान्तः । चित् इत्युपमार्थे वर्तते । अक्षद्यूतं कुर्वतोरुभयोर्मध्ये यः पुमान् "चतुरः चतुःसंख्याकान् कपर्दकान् "ददमानात् ददतो हस्ते धारयतः पुरुषात् "आ "निधातोः कपर्दकनिपातपर्यन्तं बिभीयात् अस्य जयो भविष्यति न भविष्यति इत्यन्यो भीतिं प्राप्नुयात् । अत्र यथा भयं तथा दुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । तस्मादहं घ्नन्तं शपन्तं मा प्रतिवोचे इत्यभिप्रायः । अत्र निरुक्तं - चतुरोऽक्षान् धारयत इति तद्यथा कितवाद्बिभीयादेवमेव दुरुक्ताद्बिभीयान्न दुरुक्ताय स्पृहयेत्' (निरु. ३. १६) इति ॥ चतुरः । ‘ चतुरः शसि ' ( पा. सू. ६. १. १६७ ) इति विभक्तेः पूर्वस्योदात्तत्वम् । ददमानात्। ‘दद दाने'। अत्र धारणार्थः । शपः पित्त्वादनुदात्तत्वम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वेन शानजनुदात्तः । धातुस्वर एव शिष्यते । बिभीयात् ।' ञिभी भये '। लिङि जुहोत्यादित्वात् शपः श्लुः । यासुट उदात्तत्वम् । पादादित्वात् निघाताभावः । निधातोः । निपूर्वात् दधातेः 'सितनिगमि° ' ( उ. सू. १. ६९) इत्यादिना भावे तुन्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । ‘ तादौ च°' इति गतिस्वरो न भवति ‘अतौ' इति पर्युदस्तत्वात् । दुरुक्ताय । ‘स्पृहेरीप्सितः ' ( पा. सू. १. ४. ३६ ) इति संप्रदानसंज्ञायां • चतुर्थी संप्रदाने ' ( पा. सू. २. ३. १३) इति चतुर्थी । स्पृहयेत् । ‘ स्पृह ईप्सायाम् ' । चुरादिरदन्तः । अतो लोपस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥ ॥ २३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.४१" इत्यस्माद् प्रतिप्राप्तम्