"अग्निपुराणम्/अध्यायः १६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
अथैकषष्ट्यधिकशततमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">यतिधर्मः
 
<poem><span style="font-size: 14pt; line-height: 200%">पुष्कर उवाच
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ।१६१.००१।०१
चतुर्धमायुषो भागं प्राप्य सङ्गात्परिवर्जयेत्(४) ॥१६१.००१॥०१
यदह्नि विरजेद्धीरस्तदह्नि(५) च परिव्रजेत् ।१६१.००२।०२
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥१६१.००२॥०२
आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ।१६१.००३।०३
<small><small>टिप्पणी
१ दृष्ट्वावश्यमिति ङ..
पङ्क्तिः १६:
४ सङ्गान् परित्यजेदिति ङ..
५ विरजेद्वापि तदह्नि इति ङ..</small></small>
एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥१६१.००३॥०३
उपेक्षकोऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।१६१.००४।०४
कपालं वृक्षमूलञ्च(१) कुचेलमसहायाता ॥१६१.००४॥०४
समता चैव सर्वस्मिन्नेतन्मुक्तस्य(२) लक्षणं ।१६१.००५।०५
नाभिनन्देन मरणं नाभिनन्देत जीवनं(३) ॥१६१.००५॥०५
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।१६१.००६।०६
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥१६१.००६॥०६
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।१६१.००७।०७
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥१६१.००७॥०७
विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ।१६१.००८।०८
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥१६१.००८॥०८
मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ।१६१.००९।०९
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥१६१.००९॥०९
पाणिपात्री भवेद्वापि पात्रे पात्रात्समाचरेत् ।१६१.०१०।१०
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥१६१.०१०॥१०
शुद्धभावश्चरेद्भर्मं यत्र तत्राश्रमे रतः ।१६१.०११।११
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥१६१.०११॥११
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।१६१.०१२।१२
न नामग्रहणादेव तस्य वारि प्रसीदति ॥१६१.०१२॥१२
<small><small>टिप्पणी
१ वृक्षमूलानि ख.. , घ.. , छ.. , झ.. च । वृक्षमूलादि इति ट..
२ एतच्छुद्धस्येति ङ..
३ जीवितमिति ख.. , घ.. , ङ.. , छ.. , ज.. च</small></small>
अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।१६१.०१३।१३
सद्भिश्च मुच्यते मद्भिरज्ञानात्संसृतो द्विजः ॥१६१.०१३॥१३
अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।१६१.०१४।१४
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(१) ॥१६१.०१४॥१४
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।१६१.०१५।१५
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥१६१.०१५॥१५
जराशोकसमाविष्टं रोगायतनमातुरं ।१६१.०१६।१६
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥१६१.०१६॥१६
धृतिः क्षमा दमोऽस्तेयं(२) शौचमिन्द्रियनिग्रहः ।१६१.०१७।१७
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं ॥१६१.०१७॥१७
चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।१६१.०१८।१८
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥१६१.०१८॥१८
एकदण्डी त्रिदण्डी वा(३) योगी मुच्यते बन्धनात् ।१६१.०१९।१९
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥१६१.०१९॥१९
यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ।१६१.०२०।२०
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(४) ॥१६१.०२०॥२०
प्राणायामस्तु द्विविधः स गर्भोऽगर्भ एव च ।१६१.०२१।२१
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥१६१.०२१॥२१
प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।१६१.०२२।२२
पूरणात्पूरको वायोर्निश्चलत्वाच्च कुम्भकः ॥१६१.०२२॥२२
<small><small>टिप्पणी
१ समाचरेदिति ख.. , छ.. च
पङ्क्तिः ६४:
३ त्रिदण्डी चेति ङ..
४ पद्मकाद्यासनं महतिति ट..</small></small>
रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।१६१.०२३।२३
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिकोऽपरः ॥१६१.०२३॥२३
तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।१६१.०२४।२४
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥१६१.०२४॥२४
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ।१६१.०२५।२५
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥१६१.०२५॥२५
विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् ।१६१.०२६।२६
परं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ॥१६१.०२६॥२६
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।१६१.०२७।२७
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(१) ब्रह्म तुरोयकं ॥१६१.०२७॥२७
नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(२) ।१६१.०२८।२८
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥१६१.०२८॥२८
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ।१६१.०२९।२९
सर्वारम्भपरित्यागी समदुःखसुखं क्षमी ॥१६१.०२९॥२९
भावशुद्धश्च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ।१६१.०३०।३०
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥१६१.०३०॥३०
ततो ज्रजेत्नवम्यादौ ह्यृतुसन्धिषु वापयेत् ।१६१.०३१।३१
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥१६१.०३१॥३१
<small><small>टिप्पणी
१ आग्रत्स्वप्नसुसुप्त्यान्तमुक्तमिति ङ.. , छ.. , ञ.. च
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१६१" इत्यस्माद् प्रतिप्राप्तम्