"ऋग्वेदः सूक्तं १.८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
जुष्टऽतमासः । नृऽतमासः । अञ्जिऽभिः । वि । आनज्रे । के । चित् । उस्राःऽइव । स्तृऽभिः ॥१
 
“प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः शत्रुघातिन इत्यर्थः । यतः “प्रतवसः प्रकृष्टबलोपेताः अत एव “विरप्शिनः विविधेन जयघोषेणोपेताः । यद्वा । महन्नामैतत् । महान्तो हि विविधैः शब्दैः प्रशस्यन्ते । अत एव "अनानताः आनतिरहिताः सर्वोत्कृष्टा इत्यर्थः । “अविथुराः अवियुक्ताः । सप्तगणरूपेण संघीभूता इत्यर्थः । “ऋजीषिणः । तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयन्ते इति तेषामृजीषित्वम् । यद्वा । ऋजीषिणः प्रार्जयितारो रसानाम् । “जुष्टतमासः अतिशयेन यष्टृभिः सेविताः “नृतमासः अतिशयेन मेघादेर्नेतारः एवंभूता मरुतः “स्तृभिः स्वशरीरस्याच्छादकैः “अञ्जिभिः रूपाभिव्यञ्जकैराभरणैः “व्यानज्रे नभसि व्यक्ता दृश्यन्ते । तत्र दृष्टान्तः । “के “चित् “उस्राइव। ये केचन सूर्यरश्मयो यथा नभसि दीप्यन्ते तद्वत् ॥ प्रत्वक्षसः । प्रकर्षेण त्वक्षन्ते तनूकुर्वन्तीति प्रत्वक्षसः । ‘ तक्षु त्वक्षू तनूकरणे । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । प्रतवसः । तवः इति बलनाम । प्रकृष्टं तवो येषाम् । बहुव्रीहौ पूर्वेपदप्रकृतिस्वरत्वम् । विरप्शिनः । ‘ रप लप व्यक्तायां वाचि' । विरपणं विरप्शः । औणादिकः शक्प्रत्ययः । तद्वन्तो विरप्शिनः । अनानताः । आनता अवनताः प्रह्वीभूताः । न आनता अनानताः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अविथुराः । ‘ व्यथ भयचलनयोः । ‘ व्यथेः संप्रसारणं धः किञ्च । ( उ. सू . १, ३९ ) इति उरच्प्रत्ययः । अत्र तु बहुलवचनात् धत्वं न क्रियते । पूर्ववत् समासस्वरौ । जुष्टतमासः । ‘ नित्यं मन्त्रे ' इति जुष्टशब्दः आद्युदात्तः। तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते । आनज्रे ।' अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ' । कर्मणि ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट्। ‘ अत आदेः' इति अभ्यासस्य आत्वम् । तस्मान्नुड् द्विहलः । ( पा. सू. ७, ४, ७१ ) इति नुट् । व्यत्ययेन उपधालोपः। ‘ इरयो रे ' । स्तृभिः । ‘ स्तृञ् आच्छादने ' । क्विप् । आगमानुशासनस्यानित्यत्वात् तुगभावः ॥
 
 
पङ्क्तिः ५४:
 
श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥२
 
हे “मरुतः “उपह्वरेषु उपह्वर्तव्येषु गन्तव्येष्वस्माकं संनिकृष्टेषु नभसः प्रदेशेषु “यत् यदा “ययिं गतिमन्तं मेघम् “अचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ । किं कुर्वन्तः । “वयइव पक्षिण इव “केन “चित् “पथा केनचिदाकाशमार्गेण शीघ्रं गच्छन्तः । नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेघा उपचीयन्ते इत्यर्थः । तदानीं “कोशाः । मेघनामैतत् । “वः युष्माकं “रथेषु आसक्ता मेघाः “श्चोतन्ति जलं मुञ्चन्ति । यस्मादेवं तस्मात् हे मस्तो यूयम् “अर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय "मधुवर्णं मधुसदृशरूपं स्वच्छं “घृतं वृष्ट्युदकम् “आ समन्तात् “उक्षत सिञ्चत । अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः ।। उपहृरेषु । ‘ ह्वृ कौटिल्ये '। उपह्वरन्ति कौटिल्येन तिर्यग्गच्छन्त्येष्विति उपह्वरा नभःप्रदेशाः। ‘पुंसि संज्ञायां घः प्रायेण ' इति अधिकरणे घः। अचिध्वम् । चिनोतेः वर्तमाने लङ् । ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ययिम् । ' या प्रापणे '। ‘ आदृगमहनजनः । इति किप्रत्ययः । पथा । आङि ‘ भस्य टेर्लोपः' इति दिलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । श्चोतन्ति । श्च्युतिर् क्षरणे ' । छान्दसो यलोपः । उक्षत । उक्ष सेचने '। लोटि तशब्दस्य ङित्त्वे सति ऋचि तुनुघ' ' इत्यादिना सांहितिको दीर्घः ॥
 
 
Line ६७ ⟶ ६९:
 
ते । क्रीळयः । धुनयः । भ्राजत्ऽऋष्टयः । स्वयम् । महिऽत्वम् । पनयन्त । धूतयः ॥३
 
“यद्ध यदा खलु एते मरुतः “शुभे शोभनाय वृष्ट्युदकाय “युञ्जते मेघान् सज्जीकुर्वन्ति तदानीम् "अज्मेषु मेघानामुत्क्षेपकेषु “एषां मरुतां संबन्धिषु "यामेषु मेघानां नियमनेषु सत्सु “भूमिः पृथिवी “प्र “रेजते प्रकर्षेण कम्पते । यद्वा । यदा खलु मरुतः स्वकीयान् रथान् युञ्जते अश्वैर्योजयन्ति तदानीमेषां रथानां संबन्धिषु पर्वतादेरुत्क्षेपकेषु यामेषु गमनेषु भूमिर्भीत्या कम्पते । तत्र दृष्टान्तः। “विथुरेव । यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालम्बा सती कम्पते तद्वत् । "ते तादृशाः “क्रीळयः विहारशीलाः “धुनयः चलनस्वभावाः “भ्राजदृष्टयः दीप्यमानायुधाः एवंभूता मरुतः “धूतयः पर्वतादीन् धुन्वन्तः सन्तः “महित्वं स्वकीयं महिमानं स्वयमेव “पनयन्त व्यवहरन्ति प्रकटयन्तीत्यर्थः ।। अज्मेषु ।“ अज गतिक्षेपणयोः'। अर्तिस्तुसु° ' इत्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः । ‘ वलादावार्धधातुके विकल्प इष्यते ' ( का. २. ४, ५६. २) इति वचनात् ‘ अजेर्व्यघञपोः' इति वीभावाभावः । नित्त्वादाद्युदात्तत्वम् । रेजते । रेजृ कम्पने '। भ्यसते रजत इति भयवेपनयोः ' (निरु. ३. २१) इति यास्कः । यामेषु । ‘यम उपरमे' । भावे घञ् । 'कर्षात्वतः इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । यद्वा । ‘ या प्रापणे ' इत्यस्मात् 'अर्तिस्तुसु° इत्यादिना मन्प्रत्ययः । शुभे । 'शुभ दीप्तौ । संपदादिलक्षणः कर्मणि क्विप् । 'सावेकाचः । इति विभक्तेरुदात्तत्वम् । पनयन्त । “ पन व्यवहारे' । गुपूधूपविच्छि°' (पा. सू. ३. १. २८) इति आयः । अस्मात् छान्दसो लङ् । व्यत्ययेन ह्रस्वत्वम् ।।
 
 
Line ८० ⟶ ८४:
 
असि । सत्यः । ऋणऽयावा । अनेद्यः । अस्याः । धियः । प्रऽअविता । अथ । वृषा । गणः ॥४
 
“स “हि स खलु मरुद्गणः "अया अस्य सर्वस्य जगतः “ईशानः ईशनशीलः भवति। कीदृशः । “स्वसृत् स्वयमेव सरन् । न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति । “पृषदश्वः । पृषत्यः श्वेतबिन्द्वङकिताः मृग्यः अश्वस्थानीयाः यस्य स तथोक्तः । “युवा नित्यतरुणः “तविषीभिः अन्येषामसाधारणैर्बलैः “आवृतः परिवेष्टितः “सत्यः सत्कर्मार्हः “ऋणयावा स्तोतॄणामृणस्यापगमयिता बहुलस्य धनस्य दातेत्यर्थः । “अनेद्यः । प्रशस्यनामैतत् । सर्वैरनिन्दितः “वृषा जलानां वर्षिता । एवंभूतो मरुद्गणः “अस्याः “धियः अस्मदीयस्यास्य कर्मणः “अथ अनन्तरं "प्राविता “असि प्रकर्षेण रक्षिता भवति ॥ अया। ‘सुपां सुलुक् ' इति षष्ठ्याः याजादेशः । ‘ हलि लोपः' ( पा. सू. ७. २. ११३ ) इति इदम इद्रूपस्य लोपः । ईशानः । ‘ ईश ऐश्वर्ये' इत्यस्मात् ताच्छीलिकः चानश् । तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणान्तोदात्तत्वम् । अया ईशान इत्यत्र ईषाअक्षादित्वात् प्रकृतिभावः । असि । पुरुषव्यत्ययः । ऋणयावा । ‘ या प्रापणे ' इत्यस्मात् अन्तर्भावितण्यर्थात् “ आतो मनिन् । इति वनिप् । अनेद्यः । ‘ णिदि कुत्सायाम् । ऋहलोर्ण्यत्' इति ण्यत् । आगमानुशासनस्यानित्यत्वात् नुमभावे लघूपधगुणः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
 
 
Line ९३ ⟶ ९९:
 
यत् । ईम् । इन्द्रम् । शमि । ऋक्वाणः । आशत । आत् । इत् । नामानि । यज्ञियानि । दधिरे ॥५
 
“प्रत्नस्य चिरंतनस्य “पितुः अस्माकं जनकस्य रहूगणस्य सकाशात् यत् जन्म तेन वयं “वदामसि ब्रूमः । वक्ष्यमाणं वृत्तान्तम् अस्माकं पितोपदिष्टवान् अतो वयं ब्रूम इत्यर्थः । कोऽसौ वृत्तान्तः इति चेत् उच्यते । “सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य “चक्षसा प्रकाशमानयाहुत्या सहिता “जिह्वा स्तुतिरूपा वाक् “प्र “जिगाति मरुद्गणं प्रकर्षेण गच्छति । यज्ञेषु सोमाहुतिः स्तुतिश्च मरुद्भ्यः क्रियते । यस्मात् “ईम् एनम् “इन्द्रं “शमि वृत्रवधादिरूपे कर्मणि “ऋक्वाणः ‘ प्रहर भगवो जहि वीरयस्व ' इत्येवंरूपया स्तुत्या युक्ताः सन्तः “आशत प्राप्नुवन् न पर्यत्याक्षुः । "आदित् एवमिन्द्रप्रात्यनन्तरमेव “यज्ञियानि यज्ञार्हाणि ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादीनि “नामानि इन्द्रसकाशात् लब्ध्वा “दधिरे धृतवन्तः तस्मादेषां यज्ञे सोमाहुतिः स्तुतिश्च क्रियते ।। शमि । शमी इति कर्मनाम। सप्तम्येकवचने छान्दसः ईकारलोपः । ऋक्वाणः । ‘ ऋच स्तुतौ '। संपदादिलक्षणो भावे क्विप् । छन्दसीवनिपौ' इति मत्वर्थीयो वनिप् । अन्त्यविकारश्छान्दसः । यद्वा । अयस्मयादिषु क्वचिदुभयं भवति ( का. १. ४. २० ) इत्युक्तत्वात् ‘स सुष्टुभा स ऋक्वता' इत्यादाविव पदत्वात् कुत्वं भत्वात् जश्त्वाभावः । आशत । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यज्ञियानि । ‘ यज्ञर्त्विग्यां घखञौ ' इति अर्हार्थे घः ॥
 
 
Line १०७ ⟶ ११५:
ते । वाशीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥६
 
“ते पूर्वोक्ता मरुतः “भानुभिः भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह “कं वृष्ट्युदकं “श्रियसे श्रयितुं प्राणिभिः सेवितुं “सं “मिमिक्षिरे सम्यग्मेढुमिच्छन्ति । पृथिवीं वृष्ट्युदकेन सम्यक् सेक्तुमिच्छन्ति । एवं वृष्टिमुत्पाद्य “ते मरुतः “ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह "सुखादयः शोभनस्य हविषो भक्षयितारो भवन्ति । “वाशीमन्तः । वाशी इति वाङ्नाम। शोभनया स्तुतिलक्षणया वाचोपेताः “इष्मिणः गतिमन्तः “अभीरवः भयरहिताः “ते मरुतः “प्रियस्य सर्वाभिमतस्य “मारुतस्य मरुत्संबन्धिनः “धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं “विद्रे लब्धवन्तः ॥ श्रियसे । ‘तुमर्थे सेसेन्” इति कसेन्प्रत्ययः । मिमिक्षिरे । ‘मिह सेचने'। अस्मात् इच्छासनन्तात् लिटि °अमन्त्रे' इति निषेधात् आमभावः । व्यत्ययेन आत्मनेपदम् । सुखादयः । खादृ भक्षणे'। औणादिकः इप्रत्ययः ।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८७" इत्यस्माद् प्रतिप्राप्तम्