"जैमिनीयं ब्राह्मणम्/काण्डम् १/१५१-१६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">पौरुमीढं दक्षोणिधनम् आयुष्कामः कुर्वीत। तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ। तौ ह यन्तौ स्त्री पर्येत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतम् इति। तौ ह क्रुध्यन्ताव् इवोचतुः कथं नाव् इत्थं ब्रूयाद् इति तं वा अर्वीष उपवपेति। सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताव् अवोचताम् इत्य् अर्वीष उपोवाप। तौ ह पुनर् आयन्तौ पर्येत्योवाच यं वै कुमारम् अवोचतम् अर्वीष उपवपेत्य् अयं वै सो ऽर्वीष उपोप्तश् शेत इति। तौ हासाध्व् इव कृत्वा मेनाते। ताव् अकामयेताम् उद् इत इयाव गातुं नाथं विन्देवहि सम् अयं कुमारो जीवद् इति। स एतत् पुरुमीढस् सामापश्यत्। तेनास्तुत
<poem>अग्निम् ईळिष्वावसे गाथाभिश् शीरशोचिषम्।
अग्निं राये पुरुमीढ श्रुतं नरः॥</poem>
को नाम कुमार इति। सुदीतिर् नामेति। तम् अग्निस् सुदीतये छर्दिः इत्य् एवाभ्यमृशत्। स तान्तो निरवर्तत। तम् एतेन निधनेन समैरयत् दक्षायै इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। तद् एतद् गातुविन् नाथवित् साम। गातुं व स तन् नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ पुरुमीढो ऽपश्यत् तस्मात् पौरुमीढं दक्षो णिधनम् इत्य् आख्यायते॥1.151॥
 
पङ्क्तिः ७:
जमदग्नेस् सप्ताहम् अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। जमदग्निर् ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे कथं न्व् अहम् एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। तथो एवैषाम् एतद् घ्नन्ति। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ जमदग्निर् अपश्यत् तस्माज् जमदग्नेस् सप्ताहम् इत्य् आख्यायते। तद् एषोपगीता
 
<poem>अतिमात्रम् अवर्धन्त नोद् इव दिवम् अस्पृशन्।
भुगुं हिंसित्वा माहेना असंहेयं पराभवन्॥</poem>
 
इति। असंहेयं ह वै स पराभवति य एवं विद्वांसं हिनस्ति॥1.152॥