"ऋग्वेदः सूक्तं १.१०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
‘ यज्ञो देवानाम् ' इति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ यज्ञस्तृचम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥
 
 
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
Line ३२ ⟶ ३४:
 
आ । वः । अर्वाची । सुऽमतिः । ववृत्यात् । अंहोः । चित् । या । वरिवोवित्ऽतरा । असत् ॥१
 
अस्मदीयः “यज्ञो “देवानाम् इन्द्रादीनां “सुम्नं सुखं “प्रत्येति प्राप्नोतु । अपि च हे "आदित्यासः आदित्याः “मृळयन्तः अस्मान् सुखयन्तः “भवत । तथा “वः युष्माकं “सुमतिः शोभना मतिः भद्रानुग्रहपरा बुद्धिः "अर्वाची अस्मदभिमुखी “आ “ववृत्यात् आवर्तताम् । "या मतिः “अंहोश्चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य “वरिवोवित्तरा । वरिवः इति धननाम । अतिशयेन धनस्य लम्भयित्री “असत् भवेत् । सैषा मतिरस्मान् रक्षतुं वर्ततामित्यर्थः ॥ भवत । आमन्त्रितं पूर्वमविद्यमानवत्' इति आदिल्यास इति पादादौ वर्तमानस्य आमन्त्रितस्य अविद्यमानवत्वेनास्य पादादित्वात् ‘ ०अपादादौ
इति पर्युदासात् निघाताभावः । मृळ्यन्तः । ‘ मृड सुखने '। प्यन्तात् लटः शतृ । शप् । छन्दस्युभयथा ' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते । ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ' इति शप: श्लुः । अंहोः । ‘ अहि गतौ ' । इदित्त्वात् नुम् । औणादिक उप्रत्ययः । वरिवोवित्तरा ।' विद्लृ लाभे'। अस्मादन्तर्भावितण्यर्थात् क्विप् । तत आतिशायनिक तरप् । असत् ।' अस भुवि '। लेटि अडागमः ॥
 
 
Line ४५ ⟶ ५०:
 
इन्द्रः । इन्द्रियैः । मरुतः । मरुत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥२
 
“देवाः दानादिगुणयुक्ताः सर्वे देवाः “अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ताः “नः अस्मान् स्तोतॄन् “उप “आ “गमन्तु उपागच्छन्तु प्राप्नुवन्तु । कथंभूताः। “अङ्गिरसाम् एतत्संज्ञकानामृषीणां संबन्धिभिः “सामभिः प्रगीतैर्मन्त्रैः “स्तूयमानाः । अपि च “इन्द्रः इन्द्रियैः । धननामैतत् । स्वसंबन्धिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा “मरुतः सप्तगणरूपा एकोनपञ्चाशत्संख्याकाः ‘ ईदृङ् चान्यादृङ् च ' इत्येवमादिनामानो देवाः “मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैः वायुभिः सहास्मानागच्छन्तु। तथा “अदितिः अखण्डनीया अदीना वा देवमाता “आदित्यैः स्वकीयैः पुत्रैः सह “नः अस्मभ्यं “शर्म सुखं “यंसत् यच्छतु ॥ गमन्तु । लोटि बहुलं छन्दसि' इति शपो लुक् । ‘ छन्दस्युभयथा ' इति झेः आर्धधातुकत्वेन ङित्त्वाभावात् ‘ गमहन' इत्यादिना उपधालोपाभावः । यंसत् । यम उपरमे '। लेटि अडागमः ।' सिब्बहुलं लेटि' इति सिप् ॥
 
 
Line ५८ ⟶ ६५:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३
 
यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननाम । “तत् तादृशं "चनः अन्नं “नः अस्मभ्यम् “इन्द्रः “धात् दधातु ददातु । एवं “तद्वरुणः इत्यादावपि योज्यम् । तत् इदमिन्द्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयः “ममहन्तां पूजयन्तु पालयन्वित्यर्थः ॥ चनः । ‘ चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च ' ( उ. सू. ४. ६३९) इति असुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः। नित्त्वादाद्युदात्तत्वम् । धात् । छन्दसि लुङ्लङलिटः' इति प्रार्थनायां लुङ् । ‘ गातिस्था' इति सिचो लुक् ॥ ॥ २५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०७" इत्यस्माद् प्रतिप्राप्तम्