"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. ऋभवः। जगती, १४ त्रिष्टुप् ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम ।
न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥१॥
 
एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥२॥
 
अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥३॥
 
चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् ।
यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥४॥
 
हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः ।
अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या नामभि स्परत् ॥५॥
 
इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत ।
ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ॥६॥
 
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ।
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवाँ अयातन ॥७॥
 
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥८॥
 
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् ।
वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसाँ अपिंशत ॥९॥
 
श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् ।
आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥१०॥
 
उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः ।
अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥११॥
 
सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः ।
अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥१२॥
 
सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् ।
श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥१३॥
 
दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति ।
अद्भिर्याति वरुणः समुद्रैर्युष्माँ इच्छन्तः शवसो नपातः ॥१४॥
 
</span></poem>
 
 
{{सायणभाष्यम्|
 
किमु॒ श्रेष्ठ॒ः किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म ।
 
न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥१
 
किम् । ऊं॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म ।
 
न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥१
 
किम् । ऊं इति । श्रेष्ठः । किम् । यविष्ठः । नः । आ । अजगन् । किम् । ईयते । दूत्यम् । कत् । यत् । ऊचिम ।
 
न । निन्दिम । चमसम् । यः । महाऽकुलः । अग्ने । भ्रातः । द्रुणः । इत् । भूतिम् । ऊदिम ॥१
 
 
एकं॑ चम॒सं च॒तुर॑ः कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् ।
 
सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥२
 
एक॑म् । च॒म॒सम् । च॒तुरः॑ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् ।
 
सौध॑न्वनाः । यदि॑ । ए॒व । क॒रि॒ष्यथ॑ । सा॒कम् । दे॒वैः । य॒ज्ञिया॑सः । भ॒वि॒ष्य॒थ॒ ॥२
 
एकम् । चमसम् । चतुरः । कृणोतन । तत् । वः । देवाः । अब्रुवन् । तत् । वः । आ । अगमम् ।
 
सौधन्वनाः । यदि । एव । करिष्यथ । साकम् । देवैः । यज्ञियासः । भविष्यथ ॥२
 
 
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्व॒ः कर्त्वो॒ रथ॑ उ॒तेह कर्त्व॑ः ।
 
धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥३
 
अ॒ग्निम् । दू॒तम् । प्रति॑ । यत् । अब्र॑वीतन । अश्वः॑ । कर्त्वः॑ । रथः॑ । उ॒त । इ॒ह । कर्त्वः॑ ।
 
धे॒नुः । कर्त्वा॑ । यु॒व॒शा । कर्त्वा॑ । द्वा । तानि॑ । भ्रा॒तः॒ । अनु॑ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥३
 
अग्निम् । दूतम् । प्रति । यत् । अब्रवीतन । अश्वः । कर्त्वः । रथः । उत । इह । कर्त्वः ।
 
धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि ॥३
 
 
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् ।
 
य॒दावाख्य॑च्चम॒साञ्च॒तुर॑ः कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥४
 
च॒कृ॒ऽवांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व॑ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज॑गन् ।
 
य॒दा । अ॒व॒ऽअख्य॑त् । च॒म॒सान् । च॒तुरः॑ । कृ॒तान् । आत् । इत् । त्वष्टा॑ । ग्नासु॑ । अ॒न्तः । नि । आ॒न॒जे॒ ॥४
 
चकृऽवांसः । ऋभवः । तत् । अपृच्छत । क्व । इत् । अभूत् । यः । स्यः । दूतः । नः । आ । अजगन् ।
 
यदा । अवऽअख्यत् । चमसान् । चतुरः । कृतान् । आत् । इत् । त्वष्टा । ग्नासु । अन्तः । नि । आनजे ॥४
 
 
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः ।
 
अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥५
 
हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः ।
 
अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॒ना॒न् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥५
 
हनाम । एनान् । इति । त्वष्टा । यत् । अब्रवीत् । चमसम् । ये । देवऽपानम् । अनिन्दिषुः ।
 
अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नामऽभिः । स्परत् ॥५
 
 
इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत ।
 
ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥६
 
इन्द्रः॑ । हरी॒ इति॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ ।
 
ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥६
 
इन्द्रः । हरी इति । युयुजे । अश्विना । रथम् । बृहस्पतिः । विश्वऽरूपाम् । उप । आजत ।
 
ऋभुः । विऽभ्वा । वाजः । देवान् । अगच्छत । सुऽअपसः । यज्ञियम् । भागम् । ऐतन ॥६
 
 
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन ।
 
सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥७
 
निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ । या । जर॑न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ ।
 
सौध॑न्वनाः । अश्वा॑त् । अश्व॑म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ॑म् । उप॑ । दे॒वान् । अ॒या॒त॒न॒ ॥७
 
निः । चर्मणः । गाम् । अरिणीत । धीतिऽभिः । या । जरन्ता । युवशा । ता । अकृणोतन ।
 
सौधन्वनाः । अश्वात् । अश्वम् । अतक्षत । युक्त्वा । रथम् । उप । देवान् । अयातन ॥७
 
 
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् ।
 
सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥८
 
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति॑ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒ऽनेज॑नम् ।
 
सौध॑न्वनाः । यदि॑ । तत् । नऽइ॑व । हर्य॑थ । तृ॒तीये॑ । घ॒ । सव॑ने । मा॒द॒या॒ध्वै॒ ॥८
 
इदम् । उदकम् । पिबत । इति । अब्रवीतन । इदम् । वा । घ । पिबत । मुञ्जऽनेजनम् ।
 
सौधन्वनाः । यदि । तत् । नऽइव । हर्यथ । तृतीये । घ । सवने । मादयाध्वै ॥८
 
 
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् ।
 
व॒ध॒र्यन्तीं॑ ब॒हुभ्य॒ः प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत ॥९
 
आपः॑ । भूयि॑ष्ठाः । इति॑ । एकः॑ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि॑ष्ठः । इति॑ । अ॒न्यः । अ॒ब्र॒वी॒त् ।
 
व॒धः॒ऽयन्ती॑म् । ब॒हुऽभ्यः॑ । प्र । एकः॑ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद॑न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥९
 
आपः । भूयिष्ठाः । इति । एकः । अब्रवीत् । अग्निः । भूयिष्ठः । इति । अन्यः । अब्रवीत् ।
 
वधःऽयन्तीम् । बहुऽभ्यः । प्र । एकः । अब्रवीत् । ऋता । वदन्तः । चमसान् । अपिंशत ॥९
 
 
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑ः पिंशति सू॒नयाभृ॑तम् ।
 
आ नि॒म्रुच॒ः शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑ः पि॒तरा॒ उपा॑वतुः ॥१०
 
श्रो॒णाम् । एकः॑ । उ॒द॒कम् । गाम् । अव॑ । अ॒ज॒ति॒ । मां॒सम् । एकः॑ । पिं॒श॒ति॒ । सू॒नया॑ । आऽभृ॑तम् ।
 
आ । नि॒ऽम्रुचः॑ । शकृ॑त् । एकः॑ । अप॑ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः॑ । पि॒तरौ॑ । उप॑ । आ॒व॒तुः॒ ॥१०
 
श्रोणाम् । एकः । उदकम् । गाम् । अव । अजति । मांसम् । एकः । पिंशति । सूनया । आऽभृतम् ।
 
आ । निऽम्रुचः । शकृत् । एकः । अप । अभरत् । किम् । स्वित् । पुत्रेभ्यः । पितरौ । उप । आवतुः ॥१०
 
 
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः ।
 
अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥११
 
उ॒द्वत्ऽसु॑ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण॑म् । नि॒वत्ऽसु॑ । अ॒पः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ ।
 
अगो॑ह्यस्य । यत् । अस॑स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु॑ । ग॒च्छ॒थ॒ ॥११
 
उद्वत्ऽसु । अस्मै । अकृणोतन । तृणम् । निवत्ऽसु । अपः । सुऽअपस्यया । नरः ।
 
अगोह्यस्य । यत् । असस्तन । गृहे । तत् । अद्य । इदम् । ऋभवः । न । अनु । गच्छथ ॥११
 
 
स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः ।
 
अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥१२
 
स॒म्ऽमील्य॑ । यत् । भुव॑ना । प॒रि॒ऽअस॑र्पत । क्व॑ । स्वि॒त् । ता॒त्या । पि॒तरा॑ । वः॒ । आ॒स॒तुः॒ ।
 
अश॑पत । यः । क॒रस्न॑म् । वः॒ । आ॒ऽद॒दे । यः । प्र । अब्र॑वीत् । प्रो इति॑ । तस्मै॑ । अ॒ब्र॒वी॒त॒न॒ ॥१२
 
सम्ऽमील्य । यत् । भुवना । परिऽअसर्पत । क्व । स्वित् । तात्या । पितरा । वः । आसतुः ।
 
अशपत । यः । करस्नम् । वः । आऽददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन ॥१२
 
 
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् ।
 
श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥१३
 
सु॒सु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् ।
 
श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । सं॒व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥१३
 
सुसुप्वांसः । ऋभवः । तत् । अपृच्छत । अगोह्य । कः । इदम् । नः । अबूबुधत् ।
 
श्वानम् । बस्तः । बोधयितारम् । अब्रवीत् । संवत्सरे । इदम् । अद्य । वि । अख्यत ॥१३
 
 
दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति ।
 
अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑ः शवसो नपातः ॥१४
 
दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ ।
 
अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥१४
 
दिवा । यान्ति । मरुतः । भूम्या । अग्निः । अयम् । वातः । अन्तरिक्षेण । याति ।
 
अत्ऽभिः । याति । वरुणः । समुद्रैः । युष्मान् । इच्छन्तः । शवसः । नपातः ॥१४
 
}}
</pre>
</div>
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६१" इत्यस्माद् प्रतिप्राप्तम्