"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४४:
 
न । अन्या । युवत् । प्रऽमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजऽयन्तीम् । अतक्षम् ॥१
 
हे “इन्द्राग्नी “वस्यः प्रशस्तं धनम् “इच्छन् कामयमानोऽहं "ज्ञासः ज्ञातीन् “उत “वा अपि वा “सजातान् । समानजन्मानो ज्ञातिव्यतिरिक्ता बान्धवाः । तांश्च “मनसा बुद्ध्या “वि “ह्यख्यं युवामेव ज्ञातिरूपेण बन्धुरूपेण च व्यज्ञासिषम् । ते हि धनस्य दातारो भवन्ति । अपि च “युवत् युवाभ्याम् “अन्या अन्येन केनचिन् "मह्यं दत्ता “प्रमतिः प्रकृष्टा बुद्धिः “न “अस्ति । मदीया यैषा प्रकृष्टा बुद्धिः सा युवाभ्यामेव दत्ता । “सः तादृश्या बुद्ध्या युक्तोऽहं “वां युवयोः संबन्धिनीं “वाजयन्तीम् अन्नमस्मभ्यमिच्छन्तीं “धियं ध्यानेन निष्पन्नां स्तुतिम् “अतक्षम् अकार्षम् ॥ अख्यम् । लुङि ‘ अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरादेशः । वस्यः । वसुशब्दात् ईयसुन्। 'टे: " इति टिलोपः । छान्दस ईकारलोपः । ज्ञासः । सुखदुःखादिकं साम्येन जानन्तीति ज्ञासो ज्ञातयः । ‘ ज्ञा अवबोधने'। औणादिकोऽसुन्। व्यत्ययेन विभक्तेरुदात्तत्वम् । युवत् । ‘सुपां सुलुक् इति विभक्तेर्लुक् । द्व्यर्थाभिधायकत्वात् ‘युवावौ द्विवचने' (पा. सू. ७. २.९२ ) इति युष्मदो मपर्यन्तस्य युवादेशः ॥
 
 
Line ५७ ⟶ ५९:
 
अथ । सोमस्य । प्रऽयती । युवऽभ्याम् । इन्द्राग्नी इति । स्तोमम् । जनयामि । नव्यम् ॥२
 
हे “इन्द्राग्नी "वां युवां “भूरिदावत्तरा अतिशयेन बहुधनस्य दाताराविति "अश्रवं “हि अश्रौषं खलु। कस्मात् पुरुषात् । “विजामातुः। श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविन्द्राग्नी इत्यर्थः। “उत “वा अपि च "स्यालात् । स्यं शूर्पम् । तस्मात् लाजानावपति विवाहकाले इति स्यालः कन्याभ्राता। स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविन्द्राग्नी ।”ध इति पादपूरणः। तथा च सति “अथ अनन्तरं हे “इन्द्राग्नी युवाभ्यां “सोमस्य “प्रयती अभिषुतस्य सोमस्य प्रदानेन सह “नव्यं नवतरं प्रत्यग्रं “स्तोमं स्तोत्रं “जनयामि निष्पादयामि । अत्र निरुक्तम् - अश्रौषं हि बहुदातृतरौ वां विजामातुरसुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्माता । उत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः स्यं शूर्पं स्यतेः । शूर्पमशनपवनं शृणातेः शम्नातेर्वा । अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरम्' ( निरु. ६.९ ) इति ॥ अश्रवम् । श्रु श्रवणे'। लङि उत्तमपुरुषैकवचने ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । भूरिदावत्तरा । डुदाञ् दाने '। आतो मनिन्” इति वनिप् । अतिशयेन भूरिदावा भूरिदावत्तरः । ‘भूरिदाव्नस्तुड्वक्तव्यः । (पा, सू. ८. २. १७. २ ) इति तरपः तुट् । पदसंज्ञायां नलोपः । ‘ सुपां सुलुक् ' इति विभक्तेराकारः । घ । ऋचि तुनुघ० • इत्यादिना संहितायां दीर्घत्वम् । अथ । ‘ निपातस्य च ' इति । प्रयती । यम उपरमे ' । क्तिनि ‘ अनुदात्तोपदेश इत्यादिनानुनासिकलोपः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । युवभ्याम् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते ' इति • युष्मदस्मदोरनादेशे इत्यात्वाभावः। शेषे लोपः' इति दकारलोपः ।।
 
 
Line ७० ⟶ ७४:
 
इन्द्राग्निऽभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थे ॥३
 
“रश्मीन् । रश्मिशब्दो रज्जुवाची । यथा रश्मयो दीर्घा अविच्छिन्ना भवन्ति एवमविच्छिन्नान् पुत्रपौत्रादीन् “मा “च्छेद्म मा विच्छिन्नान् कुर्मेति बुद्ध्या “नाधमानाः इन्द्राग्न्योः सकाशात् तथाविधान पुत्रादीन् याचमानाः। तदनन्तरं “पितॄणां “शक्तीः शक्त्युत्पादकान् वीर्योत्पादकान् तान् पुत्रादीन् “अनुयच्छमानाः अनुक्रमेण नियतान् कुर्वन्तः “वृषणः सेक्तारः पुत्रोत्पादनसमर्थाः सपत्नीका इत्यर्थः । एवंभूता यजमानाः “इन्द्राग्निभ्यां “कं सुखं यथा भवति तथा “मदन्ति स्तुवन्ति । “हि यस्मात् “अद्री शत्रूनादृणन्तौ हिंसन्तौ विदारयन्तौ ताविन्द्राग्नी “धिषणायाः स्तुत्याः “उपस्थे उपस्थाने समीपे भवतः । तस्मात् तत्सांनिध्याय स्तुवन्तीति भावः । यद्वा । निपातानामनेकार्थत्वात् हिशब्दो यदेत्यर्थः । यदा ताविन्द्राग्नी उद्दिश्य अद्री अभिषवसाधनभूता ग्रावाणो धिषणाया उपस्थे । धिषणा अधिषवणचर्म । तस्योपरिष्टादिन्द्राग्न्यर्थं सोममभिषुण्वन्ति । तदातदा यजमानाः स्तुवन्तीति योजनीयम् ।। छेद्म ।' छिदिर् द्वैधीकरणे' । लङि बहुलं छन्दसि' इति विकरणस्य लुक्। छन्दस्युभयथा' इत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणः । ‘ न माङ्योगे ' इत्यडभावः । रश्मीन् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ' इति ईकारः सानुनासिकः । नाधमानाः । ‘ नाधृ याच्ञायाम्'। पितॄणाम् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । मदन्ति । ‘ मदि स्तुतौ ' । आगमानुशासनस्यानित्यत्वात् नुमभावः । व्यत्ययेन परस्मैपदम् ॥
 
 
Line ८३ ⟶ ८९:
 
तौ । अश्विना । भद्रऽहस्ता । सुपाणी इति सुऽपाणी । आ । धावतम् । मधुना । पृङ्क्तम् । अप्ऽसु ॥४
 
हे “इन्द्राग्नी “युवाभ्यां “मदाय युवयोर्हर्षाय “देवी द्योतमाना “उशती युवां कामयमाना “धिषणा मन्त्ररूपा वाक् “सोमम् अभिषुणोति । यद्वा । धिषणा अधिषवणचर्म । द्योतमानं तद्युवयोर्मदं कामयमानं सत् सोममभिषुणोति । ग्रावभिः तस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् । “अश्विना अश्ववन्तौ “भद्रहस्ता शोभनदोर्दण्डौ “सुपाणी । मणिबन्धादूर्ध्वभागः पाणिः । शोभनपाणी एवंभूतौ हे इन्द्राग्नी “तौ युवाम् “आ “धावतं शीघ्रमागच्छतम् । आगत्य च "अप्सु उदकेषु वर्तमानेन “मधुना माधुर्योपेतेन सारांशेन “पृङ्क्तम् अस्मदीयं सोमं संयोजयतम् । यद्वा । अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम् । विभक्ति व्यत्ययः ॥ युवाभ्याम् । षष्ठ्यर्थे चतुर्थी । उशती । ‘ वश कान्तौ । अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् । ‘उगितश्च' इति ङीप् । ‘ शतुरनुमः' इति नद्या उदात्तत्वम् । पृङ्क्तम् । ‘पृची संपर्के । रौधादिकः । लोटि थसस्तम् । ‘श्नसोरल्लोपः' । अनुस्वारपरसवर्णौ । न च ' अचः परस्मिन् ' इत्यल्लोपस्य स्थानिवत्त्वं, ‘न पदान्त ' इत्यादिना निषेधात् ॥
 
 
Line ९७ ⟶ १०५:
तौ । आऽसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथाम् । सुतस्य ॥५
 
हे “इन्द्राग्नी “वसुनः धनस्य “विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ “युवां “वृत्रहत्ये वृत्रस्यासुरस्य हनने “तवस्तमा अतिशयेन बलिनौ प्रवृद्धतमौ वा “शुश्रव अश्रौषम् । हे “चर्षणी सर्वस्य द्रष्टाराविन्द्राग्नी “तौ युवामस्मदीये “अस्मिन् “यज्ञे “बर्हिषि वेद्यामास्तीर्णे दर्भे “आसद्य उपविश्य “सुतस्य अभिषुतस्य सोमस्य पानेन “प्र “मादयेथां प्रकर्षेण तृप्तौ भवतम् । विभागे । ‘ भज सेवायाम् । भावे घञ् । “चजोः कुघिण्ण्यतोः' इति कुत्वम् । थाथादिनोत्तरपदान्तोदात्तत्वम् । तवस्तमा । तव इति बलनाम । लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप् । यद्वा । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । तस्मादौणादिकः कर्तरि असिप्रत्ययः । “सुपां सुलुक् ' इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । वृत्रहत्ये । ‘ हनस्त च ' इति हन्तेर्भावे क्यप्; तत्संनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ।। ।। २८ ।।
 
 
ऐन्द्राग्नस्य पशोर्हविषः प्र चर्षणिभ्यः' इत्येषा याज्या । ‘ प्रदानानाम् ' इति खण्डे सूत्रितं --- ‘ प्र चर्षणिभ्यः पृतनाहवेष्वा देवो यातु सविता सुरत्नः ' ( आश्व. श्रौ. ३. ७ ) इति ॥
 
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
Line ११० ⟶ १२२:
प्र । सिन्धुऽभ्यः । प्र । गिरिऽभ्यः । महिऽत्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥६
 
“पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे "इन्द्राग्नी आगतवन्तौ युवां “चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यः “महित्वा महत्त्वेन “प्र “रिरिचाथे अतिरिच्येथे सर्वाधिकौ भवथ इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति । तथा “पृथिव्याः सर्वस्या भूमेश्च “प्र रिरिचाथे । एवं द्युप्रभृतिभ्योऽपि । सिन्धवः स्यन्दनशीला आपः । गिरयः पर्वताः । अपि च हे इन्द्राग्नी “विश्वा “भुवना सर्वाणि भूतजातानि “अन्या उक्तव्यतिरिक्तानि यानि सन्ति तान्यतीत्य “प्र रिरिचाथे अधिकौ भवथः ॥ पृतनाहवेषु । पृतनासु हवः पृतनाहवः। ह्वेञः ‘ भावेऽनुपसर्गस्य ' इति अप् संप्रसारणं च । व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । रिरिचाथे। ‘रिचिर् विरेचने '। ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । यद्वा । लट्येव ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः । महित्वा ।' मह पूजायाम् ' । औणादिक इन्प्रत्ययः । तस्य भावो महित्वम् । ‘ सुपां सुलुक्' इति तृतीयाया डादेशः ॥
 
 
पूर्वोक्त एव पशौ ‘ आ भरतम्' इत्येषा पुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ आ भरतं शिक्षतं वज्रबाहू उभा वामिन्द्राग्नी आहुवध्यै ' ( आश्व. श्रौ. ३. ७ ) इति ॥
 
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ॑न्द्राग्नी अवतं॒ शची॑भिः ।
Line १२२ ⟶ १३८:
 
इमे । नु । ते । रश्मयः । सूर्यस्य । येभिः । सऽपित्वम् । पितरः । नः । आसन् ॥७
 
हे “वज्रबाहू वज्रहस्तौ इन्द्राग्नी “आ “भरतम् अस्मदर्थं धनमाहरतम् । आहृत्य च “शिक्षतं अस्मभ्यं दत्तम् । शिक्षतिर्दानकर्मा । अपि च "अस्मान् अनुष्ठातॄन “शचीभिः । कर्मनामैतत् । आत्मीयैः कर्मभिः "अवतं रक्षतम् । किं च सूर्यात्मन इन्द्रस्य "येभिः रश्मिभिः यैः अर्चिभिः “नः अस्माकं “पितरः पूर्वपुरुषाः “सपित्वं सहप्राप्तव्य स्थानम् "आसन् ब्रह्मलोकमगच्छन् । अर्चिरादिमार्गेण हि ब्रह्मलोकमुपासका गच्छन्ति । तथा च श्रूयते - तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः ' ( छा. उ. ५. १०. १ ) इति। यद्वा। येभी रश्मिभिः सपित्वं समवेतत्वमध्यगच्छन्। “ते “रश्मयः “इमे “नु इदानीमस्माभिर्दृश्यमाना एत एव खलु । सूर्यात्मन इन्द्रस्य ये रश्मयस्त एवाग्नेरपि । तथा च श्रूयते - अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे ' (तै. ब्रा. २. १. २. ९) इति । तस्मात् सूर्यस्य रश्मीनां स्तवनेनेन्द्राग्न्योरुभयोरपि स्तुतिः सिद्धा । भरतम् । हृग्रहोर्भः०' इति भत्वम् । शिक्षतम् । ‘ शिक्ष विद्योपादाने '। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । तिङः परत्वान्निघाताभावः । सपित्वम् । ‘ आप्लृ व्याप्तौ ' । अस्मात् सशब्दोपपदात् “ कृत्यार्थे तवैकेन्” ' इति त्वन्प्रत्ययः । पृषोदरादित्वात् धातोः पिभावः । यद्वा । ‘ षप समवाये । इन्सर्वधातुभ्यः' इति इन् । सपेर्भावः सपित्वम् । आसन् । अस गतिदीप्त्यादानेषु'। लङि आडागम उदात्तः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः ॥
 
 
Line १३५ ⟶ १५३:
 
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥८
 
हे “वज्रहस्ता हस्तेन गृहीतवज्रौ पुरंदरा असुरपुराणां दारयितारौ “इन्द्राग्नी “शिक्षतम् अस्मदपेक्षितं धनं प्रयच्छतम् । अपि च "भरेषु संग्रामेषु “अस्मान् "अवतं रक्षतम् । यदनेन सूक्तेन प्रार्थितं “तत् अस्मदीयं मित्रादयः “ममहन्तां पूजयन्ताम् ॥ पुरंदरा । ‘ पूःसर्वयोर्दारिसहोः ' ( पा. सू. ३. २. ४१ ) इति खच् ।' वाचंयमपुरंदरौ च ' ( पा. सू. ६. ३. ६९ ) इति निपातनात् अम् । ‘ सुपां सुलुक्° ' इति विभक्तेः आकारः ॥ ॥ २९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०९" इत्यस्माद् प्रतिप्राप्तम्