"ऋग्वेदः सूक्तं १.११३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
इत्थं सप्तममध्यायं व्याख्याय अष्टमोऽध्यायो व्याख्यातुमारभ्यते । प्रथमे मण्डले षोडशेऽनुवाके सप्त सूक्तानि गतानि । ‘ इदम् ' इति विंशत्यृचमष्टमं सूक्तम् । अत्रानुक्रम्यते - इदं विंशतिरुषस्यं द्वितीयोऽर्धर्चो रात्रेश्च ' इति । ‘ ऋषिश्चान्यस्मात् ' इति परिभाषया अनुवृत्तेः आङ्गिरसः कुत्स ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । उषा देवता । द्वितीयस्यार्धर्चस्य रात्रिरपि । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दसि एतत्सूक्तम् । सूत्रितं च - इदं श्रेष्ठं पृथू रथ इति सूक्ते ' ( आश्व. श्रौ. ४. १४ ) इति । आश्विनशस्त्रे चेदं सूक्तं प्रातरनुवाकातिदेशात् ।।
 
 
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।
Line ६६ ⟶ ७४:
 
यथा । प्रऽसूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । अरैक् ॥१
 
“ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्ये “इदम् उषआख्यं “ज्योतिः “श्रेष्ठं प्रशस्यतमम् । अस्य कोऽतिशय इति चेत् उच्यते । नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत् । चन्द्रस्तु यद्यप्यन्यत् प्रकाशयति तथापि न विस्पष्टप्रकाशः । औषसं तु ज्योतिः युगपदेव सर्वस्य जगतः अन्धकारनिराकरणेन विशेषेण प्रकाशकम् । अतः प्रशस्यतममित्यर्थः । तादृशं ज्योतिः “आगात् पूर्वस्यां दिश्यागमत् । आगते च तस्मिन् “चित्रः चायनीयः “प्रकेतः अन्धकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकः तदीयो रश्मिः “विभ्वा विभुर्व्याप्तः सन् ”अजनिष्ट प्रादुरभूत्। किंच "यथा “रात्री रात्रिः स्वयं “सवितुः सूर्यसकाशात् “प्रसूता उत्पन्ना । सूर्यो हि अस्तं गच्छन् रात्रिं जनयति । तस्मिन्ननस्तमिते रात्रेरुत्पत्त्यभावात् । एवमेव रात्रिरपि “उषसे “सवाय उषस उत्पत्तये तदर्थं “योनिं स्थानं स्वकीयापरभागलक्षणम् "अरैक् आरेचितवती कल्पितवतीत्यर्थः । यद्वा । प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरपि उषसे उषसो यज्जन्म तदर्थं योनिं स्वापरभागलक्षणं स्थानं कृतवती । अत्र निरुक्तम् - इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् ' (निरु. २. १९) इति ॥ श्रेष्ठम् । प्रशस्यशब्दात् अतिशायनिकः इष्ठन् । ‘प्रशस्यस्य श्रः' (पा. सू. ५. ३. ६०) इति श्रादेशः । प्रकृत्यैकाच् (पा. सू. ६.. ४. १६३) इति प्रकृतिभावात् टिलोपाभावः । अगात् । एतेः लुङि • इणो गा लुङि' इति गादेशः। ‘ गातिस्था° ' इति सिचो लुक् । प्रकेतः । ‘कित ज्ञाने' । अन्तर्भावितण्यर्थात् कर्मणि घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । अजनिष्ट । ‘ जनी प्रादुर्भावे'। लुङि सिच इडागमः । विभ्वा ।' विप्रसंभ्यो ड्वसंज्ञायाम्' इति भवतेः डुप्रत्ययः । ‘सुपां सुलुक् । इत्यादिना सोः आकारादेशः । ‘ ओः सुपि ' इति यणादेशस्य ' न भूसुधियोः' इति प्रतिषेधे प्राप्ते ‘ छन्दस्युभयथा ' इति यणादेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । विपूर्वात् भवतेः औणादिको डुन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्रसूता । षूङ् प्राणिप्रसवे'। कर्मणि निष्ठा । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सवाय । छन्दसि जवसवौ वक्तव्यौ ' ( पा. सू. ३. ३. ५६. ४) इति निपातनात् अच् । चित्त्वादन्तोदात्तत्वम् । अणोऽप्रगृह्यस्यानुनासिकः इति संहितायाम् अकारः सानुनासिकः । एव। ‘ निपातस्य च ' इति संहितायां दीर्घः । रात्री । ‘ रात्रेश्चाजसौ ' इति ङीप्। “यस्येति च ' इति इकारलोपः। अरैक्।' रिचिर विरेचने । लङि ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । लघूपधगुणे ‘ हल्ङ्याब्भ्यः० ' इति तिलोपः। वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः ।।
 
 
Line ७९ ⟶ ८९:
 
समानबन्धू इति समानऽबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्याऽमिनाने ॥२
 
श्वेत्या इत्युषसो नामधेयम् । “रुशती दीप्ता “श्वेत्या श्वेतवर्णोषाः। “रुशद्वत्सा रुशन् दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता। यथा मातुः समीपे वत्सः संचरति एवमुषसः समीपे सूर्यस्य नित्यम् अवस्थानात्तद्वत्सत्वम् । अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन् हरति एवमुषसोऽवश्यायाख्यं रसं पिबन् वत्स इत्युच्यते । तादृशी सती “आगात् आगतवती । आगतायाः “अस्याः उषसः “कृष्णा कृष्णवर्णा रात्रिः “सदनानि स्थानानि स्वकीयान्त्यार्धयामलक्षणानि "अरैक् आरेचितवती कल्पितवती दत्तवतीत्यर्थः । “उ इत्येतत् पादपूरणम्। अपि चैते रात्र्युषसौ “समानबन्धू समानेनैकेन सूर्याख्येन बन्धुना सख्या युक्ते । यद्वा । सूर्येण सह संबद्धे । यथोषाः उदेष्यता सूर्येण संबद्धा एवं रात्रिरपि अस्तं यता सूर्येण संबद्धा । “अमृते मरणरहिते कालात्मकतया नित्यत्वात् “अनूची अन्वञ्चन्त्यौ । प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छन्त्यौ । यद्वा । सूर्यगत्यनुसारेण गच्छन्त्यौ । एवंभूते "वर्णं सर्वेषां प्राणिनां रूपम् “आमिनाने जरयन्त्यौ । यद्वा । स्वकीयं रूपं हिंसन्त्यौ । उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या । एवंविधे सत्यौ “द्यावा द्योतमाने “चरतः प्रतिदिवसमावर्तेते ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११३" इत्यस्माद् प्रतिप्राप्तम्